________________
तिङन्ते भ्वादयः।
२०३ रेषणं हिंसा । रुरुवे । रवितासे ॥ १३ ॥ धृ अवध्वंसने । धरते । दः ॥ १४ ॥ मे प्रणिदाने । प्रणिदानं विनिमयः प्रत्यर्पणं च । प्रणिमयते । नेर्गदेति णत्वम् । तत्र घुप्रकृतिमाङिति पठित्वा ङितो माप्रकृतेरपि ग्रहणस्येष्टत्वात् ॥ १५॥ देङ् रक्षणे । दयते ॥ दयतेर्दिगि लिटि ४९॥ दिग्यादेशेन द्वित्वबाधनमिष्यत इति वृत्तिः । दिग्ये ॥ स्थाध्वोरिच्च ।१।२।१७ ॥ अनयोरिदादेशः स्यात् सिच्च कित्स्यातङि । अदित । अदिथाः । अदिषि ॥ १६ ॥ श्यैङ् गतौ । श्यायते । शश्ये ॥ १७ ॥ प्यै वृद्धौ । प्यायते । पप्ये । प्याता ॥ १८ ॥ त्रैङ् पालने । त्रायते । तत्रे ॥ १९॥ पू पवने । पवते । पुपुवे । पविता ॥ २०॥ मूडू बन्धने । मवते ॥ २१ ॥ डी विहायसा गतौ । डयते । डिड्ये । डयिता ॥ २२ ॥ तृ प्लवनतरणयोः ॥ ऋत इद्धातोः
४११००॥ ऋदन्तस्य धातोरङ्गस्य इत्स्यात् ॥ इत्वोत्वाभ्यां गुणवृद्धी विप्रतिषेधेन * ॥ तरति । ऋच्छत्यतामिति गुणः । तृफलेत्येत्वम् । तेरतुः । तेरुः ॥ वृतो वा ७२। ३८ ॥ वृवृञ्भ्यामृदन्ताच्चेटो दीर्घा वा स्यान्न तु लिटि । तरिता । तरीता । अलिटीति किम् । तेरिथ । हलि चेति दीर्घः । तीर्यात् ॥ सिचि च परस्मैपदेषु ।।४० ॥ अत्र वृत इटो दीर्घो न । अतारिष्टाम् ॥ २३ ॥॥ अथाष्टावनुदात्तेतः॥ गुप गोपने ॥ १॥ तिज निशाने ॥ २ ॥ मान पूजायाम् ॥ ३ ॥ बध बन्धने ॥ गुप्तिन्किन्यः सन् ।३।१५ ॥ मान्बधदान्शान्भ्यो दीर्घश्चाभ्यासस्य ।।१।६॥ सूत्रद्वयोक्तेभ्यः सन् स्यान्मानादीनामभ्यासस्येकारस्य दीर्घश्च ॥ गुपेनिन्दायाम् * ॥ तिजेः क्षमायाम् * ॥ कितेाधिप्रतीकारे निग्रहे अपनयने नाशने संशये च * ॥ मानेर्जिज्ञासायाम् * ॥ बधेश्चित्तविकारे * ॥ दानेरार्जवे * ॥ शानेर्निशाने * ॥ सनाद्यन्ता इति धातुत्वम् ॥ सन्यङोः ।६१९॥ सन्नन्तस्य यङन्तस्य च प्रथमैकाचो द्वे स्तोऽजादेस्तु द्वितीयस्य । अभ्यासकार्यम् । गुपिप्रभृतयः किद्भिन्ना निन्दाद्यर्थका एवानुदात्तेतो दानशानौ च खरितेतौ । एते नित्यं सन्नन्ताः ॥ अर्थान्तरे त्वननुबन्धकाथुरादयः । अनुबन्धस्य केवलेऽचरितार्थत्वासन्नन्तात्तङ् । धातोरित्यविहितत्वात्सनोऽत्र नार्धधातुकत्वम् । तेनेगुणौ न । जुगुप्सते । जुगुप्सांचक्रे । तितिक्षते । मीमांसते । भष्भावः । चर्वम् । बीभत्सते ॥ ४ ॥ रभ राभस्ये । आरभते । आरेभे । रब्धा । रप्स्यते ॥ ५॥ डुलभ प्राप्तौ । लभते ॥ ६ ॥ खञ्ज परिष्वङ्गे ॥ दंशसञ्जवञ्जां शपि ।।४।२५ ॥ रजेश्च ।।४।२६ ॥ एषां शपि नलोपः । खजते । परिष्वजते । श्रन्थिग्रन्थिदम्भिवञ्जीनां लिटः कित्त्वं वेति व्याकरणान्तरं 'देभतुः । सखजे' इति भाष्योदाहरणादेकदेशानुमत्या इहाप्याश्रीयते । सदेः परस्य लिटीति सूत्रे खञ्जरुपसंख्यानम् * ॥ अतोऽभ्यासात्परस्य षत्वं न । परिषस्वजे । परिषखले । सखजिषे । सखञ्जिषे । खडा । खक्ष्यते । खजेत । खसीष्ट । प्रत्यष्वत । प्राक्सितादिति षत्वम् । परिनिविभ्यस्तु सिवादीनां वेति विकल्पः । एतदर्थमेवोपसर्गात्सु