________________
२००
सिद्धान्तकौमुद्याम् कित्यनङि ६४९८॥ एषामुपधाया लोपः स्यादजादौ किति न त्वङि । चनतुः ॥ ये विभाषा । खायात् । खन्यात् ॥ २० ॥ चीवृ अदानसंवरणयोः । चिचीव । चिचीवे ॥ २१ ॥ चाय पूजानिशामनयोः ॥ २३ ॥ व्यय गतौ । अव्ययीत् ॥ २३ ॥ दाश दाने । ददाश । ददाशे ॥ २४ ॥ भेष भये । गतावित्येके । भेषति । भेषते ॥ २५ ॥ भ्रष्ट भ्लेष गतौ ॥ २६ ॥ अस गतिदीप्त्यादानेषु । असति । असते । आस । आसे । अयं षान्तोऽपि ॥ २७ ॥ स्पश बाधनस्पर्शनयोः । स्पर्शनं ग्रन्थनम् । स्पशति । स्पशते ॥ २८ ॥ लष कान्तौ । वा भ्राशेति श्यन्वा । लष्यति । लषति । लेखे ॥ २९ ॥ चष भक्षणे ॥ ३० ॥ छष हिंसायाम् । चच्छषतुः । चच्छषे ॥ ३१ ॥ झष आदानसंवरणयोः ॥ ३२ ॥ भ्लक्ष भ्रक्ष अदने ॥ ४४ ॥ भक्ष इति मैत्रेयः ॥ ३५॥ दास दाने ॥ ३६ ॥ माहृ माने ॥ ३७ ॥ गुहू संवरणे ॥ ऊदुपधाया गोहः ।६।४।८९॥ गुह उपधाया ऊत्स्याद्गुणहेतावजादौ प्रत्यये । गृहति । गूहते । ऊदित्वादिड्डा । गृहिता । गोढा । गूहिष्यति । घोक्ष्यति । गूहेत् । गुह्यात् । अगृहीत् इडभावे क्सः । अघुक्षत् ॥ लुग्वा दुहदिहलिहगुहामात्मनेपदे दन्त्ये ७३१७३ ॥ एषां क्सस्य लुग्वा स्यादन्त्ये तङि । ढत्वधत्वष्टुत्व- . ढलोपदीर्घाः । अगूढ । अघुक्षत । क्सस्याचीत्यन्तलोपः । अघुक्षाताम् । अघुक्षन्त । अगुहहि । अघुक्षावहि । अघुक्षामहि ॥ ३८॥ ॥ अथाजन्ता उभयपदिनः। श्रीञ् सेवायाम् । श्रयति । श्रयते । शिश्रियतुः । श्रयिता । णिश्रीति चङ् । अशिश्रियत् ॥ १॥ भृञ् भरणे । भरति । बभार । बभ्रतुः । बभर्थ । बभूव । बभृषे । भर्ता ॥ ऋद्धनोः स्ये। ७२।७० ॥ ऋतो हन्तेश्च स्यस्य इट् स्यात् । भरिष्यति । रिडू शयग्लिङ्क्षु । ७४।२८ ॥ शे यकि यादावार्धधातुके लिङि च ऋतो रिङादेशः स्यात् । रीङि प्रकृते रिङविधिसामर्थ्याही? न । भियात् ॥ उश्च ।।२।१२॥ ऋवर्णात्परौ झलादी लिङ् तङ्परः सिच्चेत्येतौ कितो स्तः । भृषीष्ट । भृषीयास्ताम् । अभार्षीत् । अभार्टीम् । अभावुः ॥ हस्वादङ्गात् ।८।२।२७॥ सिचो लोपः स्याज्झलि । अभृत । अभृषाताम् । अभरिष्यत् ॥ २ ॥ हृञ् हरणे । हरणं प्रापणं खीकारः स्तेयं नाशनं च । जहर्थ । जहिव । जहिषे । हर्ता । हरिष्यति ॥ ३ ॥ धृञ् धारणे । धरति । अधार्षीत् । अधृत ॥ ४॥ णीञ् प्रापणे । निनयिथ । निनेथ । निन्यिषे ॥ ३॥ ॥ अथाजन्ताः परस्मैपदिनः॥ धेट पाने । धयति ॥ आदेच उपदेशेऽशिति ।।१॥४५॥ उपदेशे एजन्तस्य धातोरात्वं स्यान्न तु शिति ॥ आत औ णलः ॥१॥३४ ॥ आदन्ताद्धातोर्णल औकारादेशः स्यात् ॥ दधौ ।
आतो लोप इटि च ।६।४।६४ ॥ अजाद्योरार्धधातुकयोः किदिटोः परयोरातो लोपः स्यात् । द्वित्वात्परत्वाल्लोपे प्राप्ते द्विर्वचनेऽचीति निषेधः । द्वित्वे कृते आलोपः । दधतुः । दधुः । दधिथ । दधाथ । दधिव । धाता ॥ दाधा घ्वदाप् ।१।१॥२०॥ दारूपा धारूपाश्च धातवो घुसंज्ञाः स्युर्दाप्दैपौ विना ॥ एलिङि ।६।४।६७॥ घुसंज्ञानां मास्थादीनां च एत्वं