________________
तिङन्ते भ्वादयः । मर्षणे । परिनिविभ्य इति षत्वम् । परिषहते । सेहे । सहिता । तीषसहेति वा इट् । इडभावे ढत्वधत्वष्टुत्वढलोपाः ॥ सहिवहोरोदवर्णस्य ।६।३।११२॥ अनयोरवर्णस्य ओत्स्याड्ढलोपे सति ॥ सोढः ।।३।११५ ॥ सोपस्य सहेः सस्य षत्वं न स्यात् । परिसोढा ॥ सिवादीनां वाव्यवायेऽपि ७१॥ परिनिविभ्यः परेषां सिवादीनां सस्य षो वा स्यादड्व्यवायेऽपि । पर्यषहत । पर्यसहत ॥ १ ॥ रमु क्रिडायाम् । रेमे । रेमिषे । रन्ता । रंस्यते । रंसीष्ट । अरस्त ॥ २ ॥ * ॥ अथ कसन्ताः परस्मैपदिनः। षद् विशरणगत्यवसादनेषु ॥ पाघ्राध्मास्थानादाण्दृश्यर्तिसर्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्छधौशीयसीदाः ७३७८ ॥ पादीनां पिबादयः स्युरित्संज्ञकशकारदौ प्रत्यये परे । सीदति । ससाद । सेदतुः । सेदिथ । ससत्थ । सत्ता । सत्स्यति । लदित्त्वादङ् । असदत् ॥ सदिरप्रतेः । निषीदति । न्यषीदत् ॥ संदेः परस्य लिटि ।८।३।११८ ॥ सदेरभ्यासात्परस्य षत्वं न स्याल्लिटि । निषसाद । निषेदतुः ॥१॥ षद शातने । विशीर्णतायामयम् । शातनं तु विषयतया निर्दिश्यते ॥ शदेः शितः ।१३॥६०॥ शिद्भाविनोऽस्मादात्मनेपदं स्यात् । शीयते । शशाद । शेदतुः। शेदिथ । शशत्थ । शत्ता । अशदत् ॥२॥ क्रुश आह्वाने रोदने च । क्रोशति । क्रोष्टा । च्लेः क्सः । अक्रक्षत् ॥ ३ ॥ कुच संपर्चनकौटिल्यप्रतिष्टम्भविलेखनेषु । कोचति । चुकोच ॥ ४ ॥ बुध अवगमने । बोधति । बोधिता । बोधिष्यति ॥ ५॥ रुह बीजजन्मनि प्रादुर्भावे च । रोहति । रुरोह । रुरोहिथ । रोढा । रोक्ष्यति । अरुक्षत् ॥ ६॥ कस गतौ । अकासीत् । अकसीत् ॥ ७॥ वृत्॥ ज्वलादिगणः समाप्तः॥ ॥ अथ गृहत्यन्ताः खरितेतः॥ हिक अव्यक्त शब्दे । हिक्कति । हिक्कते ॥ १॥ अञ्चु गतौ याचने च । अञ्चति । अञ्चते ॥ २॥ अचु इत्येके ॥ ३ ॥ अचि इत्यपरे ॥ ४ ॥ टुयाच याच्ञायाम् । याचते ॥ ५॥ रेत परिभाषणे । रेटति रेटते ॥ ५॥ चते चदे याचने । चचात । चेते । अचतीत् । चचाद । चेदे । अचदीत् ॥ ८ प्रोथ पर्याप्तौ । पुप्रोथ । पुप्रोथे ॥ ९॥ मिह मेह मेधाहिंसनयोः । मिमेद । मिमिदे । मिमेदे । थान्ताविमाविति खामी । मिमेथ । धान्ताविति न्यासः ॥ ११ ॥ मेधृ सङ्गमे च । मेधति । मिमेधे ॥ १२ ॥ णि णेह कुत्सासन्निकर्षयोः । निनेद । निनिदतुः। निनिदे । नेनिदे ॥ १४ ॥ शृधु मृधु उन्दने । उन्दनं क्लेदनम् । शर्धति । शर्धते । शर्धिता । मर्धति । मर्धते ॥ १६ ॥ बुधिर बोधने । बोधति । बोधते । इरित्त्वादङ्वा । अबुधत् । अबोधीत् । अबोधिष्ट । दीपजनेति चिण् तु न भवति । पूर्वोत्तरसाहचर्येण देवादिकस्यैव तत्र ग्रहणात् ॥ १७ ॥ उबुन्दिर निशामने । निशामनं ज्ञानम् । बुबुन्दे । अबुदत् । अबुन्दीत् ॥ १८ ॥ वेण गतिज्ञानचिन्तानिशामनवादित्रग्रहणेषु वेणति । वेणते । नान्तोऽप्ययम् ॥ १९ ॥ खनु अवदारणे । खनति । खनते ॥ गमहनजनखनघसां लोपः
१ सदिखजोरित्यपाणिनीयः पाठः ॥ २ उत माता महिषमन्ववेनत् इत्यादौ नान्तश्रवणात् ॥