________________
१९८
सिद्धान्तकौमुद्याम् बोध्यम् ॥ ६७ ॥ स्वदिवपरिभ्यां च ॥ मिन्नेत्येव । अवस्खादयति । परिस्खादयति । अपावपरिभ्य इति न्यासकारः । खामी तु नकमीति नञमुत्तरत्रिसूत्र्यामननुवर्त्य शम अदर्शने इति चिच्छेद । यमस्त्वपरिवेषण मित्त्वमाह । तन्मते पर्यवसितं नियमयन्नित्यादि सम्यगेव । उपसृष्टस्य स्खदेश्चेदवादिपूर्वस्येति नियमात्प्रस्खादयतीत्याह । तस्मात् सूत्रद्वये उदाहरणप्रत्युदाहरणयोर्व्यत्यासः फलितः । इदं च मतं वृत्तिन्यासादिविरोधादुपेक्ष्यम् ॥ ६९॥ फण गतौ ॥ नेति निवृत्तमसंभवात् निषेधात्पूर्वमसौ न पठितः । फणादिकार्यानुरोधात् ॥ फणां च सप्तानाम् ।।४।१२५ ॥ एषां वा एत्वाभ्यासलोपौ स्तः किति लिटि सेटि थलि च । फेणतुः । फेणुः । फेणिथ । पफणतुः । पफणुः । फणयति ॥ वृत् ॥ घटादिः समाप्तः ॥ फणेः प्रागेव वृदित्येके । तन्मते फाणयतीत्येव ॥ ७० ॥ राज दीप्तौ । खरितेत् । राजति । राजते । रेजतुः । रराजतुः । रेजे । रराजे अत इत्यनुवृत्तावपि विधानसामर्थ्यादात एत्वम् ॥ ७१ ॥ टुभ्राज़ टुभ्राश टुभ्लाश दीप्तौ । अनुदात्तेतः । भ्राजतेरिह पाठः फणादिकार्यार्थः । पूर्व पाठस्तु व्रश्चादिषत्वाभावार्थः । तत्र हि राजिसाहचर्यात् फणादेरेव ग्रहणम् । भेजे । बभ्राजे । वा भ्राशेति श्यन्वा । प्राश्यते । प्राशते । धेशे । बभ्राशे । भ्लाश्यते । भ्लाशते । भ्लेशे । बभ्लाशे । द्वावपीमौ तालव्यान्तौ ॥ ७४ ॥ स्यमु खन ध्वन शब्दे । स्यमादयः क्षरत्यन्ताः परस्मैपदिनः । स्येमतुः । सस्यमतुः । अस्यमीत् । खेनतुः । सखनतुः । अखानीत् । अखनीत् । विष्वणति । अवष्वणति । सशब्दं भुङ्क्ते इत्यर्थः । वेश्च खन इति षत्वम् । फणादयो गताः । दध्वनतुः ॥ ३ ॥ षम ष्टम अवैकल्ये । ससाम । तस्ताम ॥ ५॥ ज्वल दीप्तौ । अज्वालीत् ॥ ६ ॥ चल कम्पने ॥ ७॥ जल घातने । घातनं तैक्ष्ण्यम् ॥ ८॥ टल द्वल वैक्लव्ये ॥१०॥ष्ठल स्थाने ॥ ११॥ हल विलेखने ॥ १२ ॥ णल गन्धे । बन्धन इत्येके ॥ १३ ॥ पल गतौ । पलति ॥ १४ ॥ बल प्राणने धान्यावरोधने च । बलति । बेलतुः । बेलुः ॥ १५ ॥ पुल महत्त्वे । पोलति ॥१६॥ कुल संस्त्याने बन्धुषु च । संस्त्यानं संघातः । बन्धुशब्देन तद्व्यापारो गृह्यते । कोलति । चुकोल ॥ १७ ॥ शल हुल पत्ल गतौ । शशाल । जुहोल । पपात । पेततुः । पतिता ॥ पतः पुम् ।।४।१९॥ अङि परे । अपप्तत् । नेर्गदेति णत्वम् । प्रण्यपप्तत् ॥ २० ॥ कथे निष्पाके । क्वथति । चक्काथ । अक्कथीत् ॥ २१ ॥ पथे गतौ । अपथीत् ॥ २२ ॥ मथे विलोडने । मेथतुः । अमथीत् ॥ २३ ॥ टुवम उद्गिरणे । इहैव निपातनादृत इत्त्वमिति सुधाकरः । ववाम । ववमतुः । वादित्वादेत्वाभ्यासलोपौ न । भागवृत्तौतु वेमतुरित्याद्यप्युदाहृतं तद्भाष्यादौ न दृष्टम् ॥ २४ ॥ भ्रमु चलने । वा भ्राशेति श्यन्वा ।' भ्रम्यति । भ्रमति । भ्राम्यतीति तु दिवादेर्वक्ष्यते ॥ वा भ्रमुत्रसाम् ।६।४१२४ ॥ एषामेत्वाभ्यासलोपौ वा स्तः किति लिटि सेटि थलि च । भ्रमतुः बभ्रमतुः । अभ्रमीत् ॥ २५ ॥ क्षर संचलने । अक्षारीत् ॥ २६ ॥ * ॥ अथ द्वावनुदात्तेतौ ॥ षह