________________
तिङन्ते भ्वादयः।
१९७ कम्पने इति ज्वलादिः । चलयति शाखाम् । कम्पनादन्यत्र तु शीलं चालयति । अन्यथा करोतीत्यर्थः । हरतीत्यर्थ इति खामी । सूत्रं चालयति । क्षिपतीत्यर्थः ॥ ३८ ॥ छदिर्जने । छद अपवारण इति, चौरादिकस्य खार्थे णिजभावे मित्त्वार्थोऽयमनुवादः । अनेकार्थत्वादूर्जेरर्थे वृत्तिः । छदन्तं प्रयते छदयति । बलवन्तं प्राणवन्तं वा करोतीत्यर्थः । अन्यत्र छादयति । अपवारयन्तं प्रयुङ्क्ते इत्यर्थः । खार्थे णिचि तु छादयति । बलीभवति, प्राणीभवति, अपवारयति वेत्यर्थः ॥ ३९ ॥ जिह्वोन्मथने लडिः। लड विलास इति पठितस्य मित्त्वार्थोऽनुवादः । उन्मथनं ज्ञापनम् । जिह्वाशब्देन षष्ठीतत्पुरुषः । लडयति जिह्वाम् । तृतीयातत्पुरुषो वा । लडयति जिह्वया । अन्ये तु जिह्वाशब्देन तद्व्यापारो लक्ष्यते । समाहारद्वन्द्वोऽयम् । लडयति शत्रुम् । लडयति दधि । अन्यत्र लाडयति पुत्रम् ॥४०॥ मदी हर्षग्लेपनयोः । ग्लेपनं दैन्यम् । देवादिकस्य मित्त्वार्थोऽयमनुवादः । मदयति । हर्षयति, ग्लेपयति वेत्यर्थः । अन्यत्र मादयति । चित्तविकारमुत्पादयतीत्यर्थः ॥ ४१ ॥ ध्वन शब्दे । भाव्ययं मित्त्वार्थमनूद्यते । ध्वनयति घण्टाम् । अन्यत्र ध्वानयति । अस्पष्टाक्षरमुच्चारयतीत्यर्थः ॥ ४२ ॥ अत्र भोजः । दलि, वलि, स्वलि, रणि, ध्वनि, पि, क्षपयश्चेति पपाठ । तत्र ध्वनि, रणी उदाहृतौ । दल विशरणे । वल संवरणे । स्खल संचलने । त्रपूष् लज्जायामिति गताः । तेषां णौ । दलयति । वलयति । स्खलयति । त्रपयति । क्षै क्षये इति वक्ष्यमाणस्य कृतात्वस्य पुका निर्देशः । क्षपयति ॥ ४९॥ खन अवतंसने । शब्दे इति पठिष्यमाणस्यानुवादः । स्वनयति । अन्यत्र खानयति ॥ ५० ॥ घटादयो मितः ॥ मित्संज्ञा इत्यर्थः ॥ जनीजृष्नसुरञ्जोऽमन्ताश्च ॥ मित इत्यनुवर्तते । जृषिति पित्त्वनिर्देशाज्जीर्यतेस्रहणम् ॥ तृणातेस्तु जारयति । केचित्तु जनी जृ ष्णसु इति पठित्वा प्णसु निरसने इति देवादिकमुदाहरन्ति ॥५४॥ ज्वलह्वलमलनमामनुपसर्गाद्वा ॥ एषां मित्त्वं वा। प्राप्तविभाषेयम् । ज्वलयति । ज्वालयति । उपसृष्टे तु नित्यं मित्त्वम् । प्रज्वलयति । कथं तर्हि प्रज्वालयति । उन्नामयतीति । घञन्तात्तत्करोतीति णौ । कथं संक्रामयतीति । मितां हूख इतिसूत्रे वा चित्तविराग इत्यतो वेत्यनुवर्त्य व्यवस्थितविभाषाश्रयणादिति वृत्तिकृत् । एतेन रजो विश्रामयन् राज्ञाम् , धुर्यान्विश्रामयेति. स इत्यादि व्याख्यातम् ॥ ५८ ॥ ग्लास्लावनुवमां च ॥ अनुपसर्गादेषां मित्त्वं वा स्यात् । आद्ययोरप्राप्ते इतरयोः प्राप्ते विभाषा ॥ ६२॥ न कम्यमिचमाम् ॥ अमन्तत्वात्प्राप्त मित्वमेषां न स्यात् । कामयते । आमयति । चामयति ॥६५॥ शमो दर्शने । शाम्यतिर्दर्शने मिन्न स्यात् । निशामयति रूपम् । अन्यत्र तु प्रणयिनो निशमय्य वधूः कथाः । कथं तर्हि निशामय तदुत्पत्तिं विस्तराद्गदतो ममेति । शम आलोचन इति चौरादिकस्य । धातूनामनेकार्थत्वाच्छ्वणे वृत्तिः शाम्यतिवत् ॥ ६६ ॥ यमोऽपरिवेषणे ॥ यच्छति जनतोऽन्यत्र मिन्न स्यात् । आयामयति । द्राघयति, व्यापारयति वेत्यर्थः । परिवेषणे तु यमयति ब्राह्मणान् । भोजयतीत्यर्थः । पर्यवसितं नियमयन्नित्यादि तु नियमवच्छब्दात्तत्करोतीति णौ