________________
सिद्धान्तकौमुद्याम् भाषणे मित्त्वार्थोऽनुवादः ॥ ५ ॥ नट नृत्तौ । इत्थमेव पूर्वमपि पठितम् । तत्रायं विवेकः। पूर्व पठितस्य नाट्यमर्थः। यत्कारिषु नटव्यपदेशः। वाक्यार्थाभिनयो नाट्यम् । घटादौ तु नृत्यं नृत्तं चार्थः । यत्कारिषु नर्तकव्यपदेशः। पदार्थाभिनयो नृत्यम् । गात्रविक्षेपमात्रं नृत्तम् । केचित्तु घटादौ नट नताविति पठन्ति । गतावित्यन्ये । णोपदेशपयुदासवाक्ये भाष्यकृता नाटीति दीर्घपाठाद् घटादिर्णोपदेश एव ॥ ६ ॥ष्टक प्रतीपाते । स्तकति ॥ ७ ॥ चक तृप्तौ । तृप्तिप्रतीघातयोः पूर्व पठितस्य तृप्तिमात्रे मित्त्वार्थोऽनुवादः । आत्मनेपदिषु पठितस्य परस्मैपदिष्वनुवादात्परस्मैपदम् ॥ ८ ॥ कखे हसने । एदित्त्वान्न वृद्धिः । अकखीत् ॥ ९॥ रगे शङ्कायाम् ॥ १० ॥ लगे सङ्गे ॥ ११ ॥ इगे लगे षगे ष्टगे संवरणे ॥ १५॥ कगे नोच्यते । अस्यायमर्थ इति विशिष्य नोच्यते । क्रियासामान्यार्थत्वात् । अनेकार्थत्वादित्यन्ये ॥ १६ ॥ अक अग कुटिलायां गतौ ॥ १८ ॥ कण रण गतौ । चकाण । रराण ॥ २०॥ चण शण श्रण दाने च । शण गतावित्यन्ये ॥२३॥ श्रथ श्लथ क्रथ क्लथ हिंसााः । जासिनिप्रहणेति सूत्रे क्राथेति मित्त्वेऽपि वृद्धिनिपात्यते । क्राथयति । मित्त्वं तु निपातनात्परत्वाच्चिण्णमुलोरिति दीर्घ चरितार्थम् । अक्रथि । अक्राथि । ऋथंक्रथम् । क्रार्थनाथम् ॥ २७ ॥ वन च हिंसायामिति शेषः ॥ २८ ॥ वनु च नोच्यते । वनु इत्यपूर्व एवायं धातुर्न तु तानादिकस्यानुवादः । उदित्करणसामर्थ्यात् । तेन क्रियासामान्ये वनतीत्यादि । प्रवनयति । अनुपसृष्टस्य तु मित्त्वविकल्पो वक्ष्यते ॥ २९ ॥ ज्वल दीप्तौ । णप्रत्ययार्थ पठिष्यमाण एवायं मित्त्वार्थमनूद्यते । प्रज्वलयति ॥ ३० ॥ ह्वल ह्मल चलने । प्रह्वलति । प्रह्मलयति ॥ ३२ ॥ स्मृ आध्याने । चिन्तायां पठिष्यमाणस्य आध्याने मित्त्वार्थोऽनुवादः । आध्यानमुत्कण्ठापूर्वकं स्मरणम् ॥ ३३ ॥ दृ भये । दृ विदारणे इति त्र्यादेरयं मित्त्वार्थोऽनुवादः । दृणन्तं प्रेरयति दरयति । भयादन्यत्र दारयति । धात्वन्तरमेवेदमिति मते तु दरतीत्यादि । केचिद्धटादौ अस्मृदृत्वरेति सूत्रे च दृ इति दीर्घस्थाने हवं पठन्ति । तन्नेति माधवः ॥ ३४ ॥ नृ नये । त्यादिषु पठिष्यमाणस्यानुवादः । नयादन्यत्र नारयति ॥ ३५॥ श्रा पाके । । इति कृतात्वस्य श्रा इत्यादादिकस्य च सामान्येनानुकरणम् । लुग्विकरणालुग्विकरणयोरलुग्विकरणस्य, लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणमिति परिभाषाभ्याम् । श्रपयति । विक्लेदयतीत्यर्थः । पाकादन्यत्र श्रापयति । खेदयतीत्यर्थः ॥ ३६ ॥ मारणतोषणनिशामनेषु ज्ञा । निशामनं चाक्षुषज्ञानमिति माधवः । ज्ञापनमात्रमित्यन्ये । निशानेष्विति पाठान्तरम् । निशानं तीक्ष्णीकरणम् । एष्वेवार्थेषु जानातिर्मित् । ज्ञप मिच्चेति चुरादौ । ज्ञापनं मारणादिकं च तस्यार्थः । कथं विज्ञापना भर्तृषु सिद्धिमेतीति । तज्ज्ञापयत्याचार्य इति च । शृणु । माधवमतेऽचाक्षुषज्ञाने मित्त्वाभावात् । ज्ञापनमात्रे मित्त्वमिति मते तु ज्ञा नियोग इति चौरादिकस्य । धातूनामनेकार्थत्वात् । निशानेष्विति पठतां हरदत्तादीनां मते तु न काप्यनुपपत्तिः ॥ ३७॥ कम्पने चलिः । चल