________________
१९२
सिद्धान्तकौमुद्याम् जेहतिर्गत्यर्थोऽपि । बबाहे ॥ ४४ ॥ द्राहृ निद्राक्षये । निक्षेपे इत्येके ॥ ४५ ॥ काश दीप्तौ । चकाशे ॥ ४६॥ ऊह वितर्के । ऊहांचक्रे ॥ ४७ ॥ गाहू विलोडने । गाहते । जगाहे । जगाहिये। जघाक्षे । जगाहिद्वे। जगाहिध्वे । जघाढ़े । गाहिता ॥ ढो ढे लोपः ॥८॥३॥१३॥ ढस्य लोपः स्याड्ढे परे । गाढा । गाहिष्यते । घाक्ष्यते । गाहिषीष्ट । घाक्षीष्ट । अगाहिष्ट । अगाढ । अघाक्षाताम् । अघाक्षत । अगाढाः । अघाढम् । अघाक्षि ॥ ४८ ॥ गृहू ग्रहणे । गर्हते । जगृहे ॥ ऋदुपधेभ्यो लिटः कित्त्वं गुणात्पूर्वविप्रतिषेधेन * ॥ जगृहिषे । जघृक्षे । जघृट्वे । गर्हिता। गर्दा । गर्हिष्यते । घर्श्यते । गर्हिषीष्ट । घृक्षीष्ट । लुङि । अगर्हिष्ट । इडभावे ॥ शल इगुपधादनिटः क्सः ॥३॥१॥४५॥ इगुपधो यः शलन्तस्तस्मादनिटश्चलेः क्सादेशः स्यात् । अघृक्षत ॥ क्सस्याचि १३३७२ ॥ अजादौ तङि क्सस्य लोपः स्यात् । अलोन्त्यस्य । अघृक्षाताम् । अघृक्षन्त ॥ ४९ ॥ ग्लह च । ग्लहते ॥५०॥ घुषि कान्तिकरणे । घुषते । जुधुषे । केचिद्धषेत्यदुपधं पठन्ति ॥ ५१ ॥ * ॥ अथाहत्यन्ताः परस्मैपदिनः ॥ घुषिर् अविशब्दने । विशब्दनं प्रतिज्ञानं ततोऽन्यस्मिन्नर्थे इत्येके । शब्दे इत्यन्ये पेटुः । घोषति । जुघोष । घोषिता । इरित्त्वादङ् वा । अघुषत् । अघोषित् ॥ १ ॥ अक्षु व्याप्तौ ॥ अक्षोऽन्यतरस्याम् ।।१।७५ ॥ अक्षो वा झुप्रत्ययः स्यात्कञर्थे सार्वधातुके परे । पक्षे शप् । अक्ष्णोति । अक्ष्णुतः । अक्ष्णुवन्ति । अक्षति । अक्षतः । अक्षन्ति । आनक्ष । आनक्षिथ । आनष्ठ । अक्षिता अष्टा । अक्षिष्यति । स्कोरिति कलोपः । षढोः कः सि । अक्ष्यति । अक्ष्णोतु । अक्ष्णुहि । अक्ष्णवानि । अक्षणोत् । आक्ष्णवम् । अक्ष्णुयात् । अक्ष्यात् । ऊदित्त्वाद्वेट् । नेटि । मा भवानक्षीत् । अक्षिष्टाम् । अक्षिषुः । इडभावे तु मा भवानाक्षीत् । आष्टाम् । आक्षुः ॥ २॥ तत् त्वष तनूकरणे ॥ तनूकरणे तक्षः ३२११७६ ॥ श्नुः स्याद्वा शब्विषये। तक्ष्णोति तक्षति वा काष्ठम् । ततक्षिथ । ततष्ठ । अतक्षीत् । अतक्षिष्टाम् । अताक्षीत् । अताष्टाम् । तनूकरणे किम् । वाग्भिः संतक्षति । भर्सयतीत्यर्थः ॥४॥ उक्ष सेचने । उक्षांचकार ॥५॥ रक्ष पालने ॥६॥ णिक्ष चुम्बने । प्रणिक्षति ॥७॥ तृक्ष स्तृक्ष णक्ष गतौ । तृक्षति । स्तृक्षति । नक्षति ॥ १० ॥ वक्ष रोषे । संघाते इत्येके ॥११॥ मृक्ष संघाते । म्रक्ष इत्येके ॥ १३ ॥ तक्ष त्वचने । त्वचनं संवरणं त्वचो ग्रहणं च । तक्ष परिग्रह इत्येके ॥१४॥ सूर्फ आदरे । सुसूर्ख । अनादर इति तु क्वाचित्कोऽपपाठः । अवज्ञावहेलनमसूक्षणमित्यमरः ॥ १५॥ काक्षि वाक्षि माक्षि काङ्खायाम् ॥१८॥ द्राक्षि ध्राक्षि ध्वाक्षि घोरवाशिते च ॥२१॥ चूष पाने । चुचूष ॥ २२ ॥ तूष तुष्टौ ॥ २३ ॥ पूष वृद्धौ ॥ २४ ॥ मूष स्तेये ॥ २५ ॥ लूष रूष भूषायाम् ॥२७॥ शूष प्रसवे । प्रसवोऽभ्यनुज्ञातम् । तालव्योष्मादिः ॥ २८ ॥ यूष हिंसायाम् । जूष च ॥ ३० ॥ भूष अलङ्कारे । भूषति ॥ ३१ ॥ ऊष रुजायाम् । ऊषांचकार ॥ ३२ ॥ ईष उच्छे ॥ ३३ ॥ कष खष शिष जष झष शष