________________
१९१
तिङन्ते भ्वादयः । व्योर च ३३११८०॥ अनयोरकारोऽन्तादेशः स्यादुप्रत्ययश्च शब्विषये । अतो लोपः । तस्य स्थानिवद्भावाल्लघूपधगुणो न उप्रत्ययस्य पित्सु गुणः । धिनोति । धिनुतः । धिन्वन्ति ॥ लोपश्चास्यान्यतरस्यां म्वोः।६।४।१०७॥ असंयोगपूर्वो यः प्रत्ययोकारस्तदन्तस्याङ्गस्य लोपो वा स्यात् म्वोः परयोः । धिन्वः । धिनुवः । धिन्मः । धिनुमः । मिपि तु परत्वाद्गुणः । धिनोमि ॥ उतश्च प्रत्ययादसंयोगपूर्वात् ।।४।१०६॥ असंयोगपूर्वो यः प्रत्ययोकारस्तदन्तादङ्गात्परस्य हेर्लक् स्यात् । धिनु । नित्यत्वादुकारलोपात्पूर्वमाट् । धिनवाव । धिनवाम । जिन्वति । इत्यादि ॥ ९० ॥ रिवि रवि धवि गत्यर्थाः । रिण्वति । रण्वति । धन्वति ॥ ९३ ॥ कृवि हिंसावरणयोश्च । चकाराद्गतौ । कृणोतीत्यादि धिनोतिवत् । अयंखादौ च ॥ ९४ ॥ मव बन्धने । मवति । मेवतुः । मेवुः । अमवीत् । अमावीत् ॥ ९५॥ अव रक्षणगतिकान्तिप्रीतितृप्त्यवगमप्रवेशश्रवणखाम्यर्थयाचनक्रियेच्छादीप्त्यवाप्त्यालिङ्गनहिंसादानभागवृद्धिषु । अवति । आव । मा भवानवीत् ॥ ९६ ॥ धावु गतिशुद्ध्योः । खरितेत् । धावति । धावते । दधाव । दधावे ॥ ९७ ॥ ॥ अथोष्मान्ता आत्मनेपदिनः ॥ धुक्ष धिक्ष सन्दीपनक्लेशनजीवनेषु । धुक्षते । दुधुक्षे। धिक्षते । दिधिक्षे ॥ २ ॥ वृक्ष वरणे । वृक्षते । ववृक्षे ॥ ३ ॥ शिक्ष विद्योपादाने । शिक्षते ॥ ४ ॥ भिक्ष भिक्षायामलाभे लाभे च । भिक्षते ॥ ५॥ क्लेश अव्यक्तायां वाचि । बाधन इति दुर्गः । क्लेशते । चिक्लेशे ॥ ६ ॥ दक्ष वृद्धौ शीघ्रार्थे च । दक्षते । ददक्षे ॥ ७॥ दीक्ष मौण्ड्येज्योपनयननियमव्रतादेशेषु । दीक्षते । दिदीक्षे ॥ ८ ॥ ईक्ष दर्शने । ईक्षांचक्रे ॥ ९॥ ईष गतिहिंसादर्शनेषु । ईषांचक्रे ॥ १० ॥ भाष व्यक्तायां वाचि । भाषते ॥ ११ ॥ वर्ष स्नेहने । दन्त्योष्ठ्यादिः । ववर्षे ॥ १२ ॥ गेषु अन्विच्छायाम् ॥ ग्लेषु इत्येके ॥ अन्विच्छा अन्वेषणम् । जिगेषे ॥ १३ ॥ पेष प्रयत्ने । पेषते ॥ १४ ॥ जेषु णेषु एष प्रेष गतौ । जेषते । नेषते । एषांचक्रे । पिप्रेषे ॥ १८ ॥ रेषु हे हेष अव्यक्ते शब्दे । आद्यो वृकशब्दे । ततों द्वावश्वशब्दे । रेषते । हेषते । हेषते ॥ २१ ॥ कामृ शब्दकुत्सायाम् । कासांचक्रे ॥ २२ ॥ भासू दीप्तौ । बभासे ॥ २३ ॥ णास राम शब्दे । नासते । प्रणासते ॥ २५॥ णस कौटिल्ये । नसते ॥ २६ ॥ भ्यस भये । भ्यसते । बभ्यसे ॥ २७ ॥ आङः शसि इच्छायाम् । आशंसते । आशशंसे ॥ २८॥ ग्रसु ग्लसु अदने । जग्रसे । जग्लसे ॥ ३० ॥ ईह चेष्टायाम् । ईहांचक्रे ॥ ३१ ॥ बहि महि वृद्धौ । बंहते । बबहे । मंहते ॥ ३२ ॥ अहि गतौ । अंहते । आनंहे ॥ ३४ ॥ गई गल्ह कुत्सायाम् । जगहें । जगल्हे ॥ ३६ ॥ बह बल्ह प्राधान्ये । ओष्ठ्यादी ॥ ३८ ॥ वह वल्ह परिभाषणहिंसाच्छादनेषु । दन्त्योष्ठ्यादी । केचित्तु पूर्वयोरर्दन्त्योष्ठ्यादितामनयोरोष्ठ्यादितां चाहुः ॥ ४० ॥ प्लिह गतौ । पिप्लिहे ॥ ४१ ॥ वेह जेह बाहृ प्रयत्ने । आद्यो दन्त्योछ्यादिः । अन्त्यः केवलोष्ठ्यादिः । उभावप्योष्ठ्यादी इत्येके । दन्त्योष्ठ्यादी इत्यपरे ।