________________
१८८
सिद्धान्तकौमुद्याम् भ्यासस्तस्य सनीव कार्य स्यात् णावग्लोपेऽसति । अथवाऽङ्गस्येति नावर्तते । चङ्परे णौ यदङ्गं तस्य योऽभ्यासो लघुपरस्तस्येत्यादि प्राग्वत् ॥ सन्यतः ७४७९॥ अभ्यासस्यात इकारः स्यात्सनि ॥ दी| लघोः ७४।९४ ॥ लघोरभ्यासस्य दीर्घः स्यात्सन्वद्भावविषये । अचीकमत ॥ णिङभावपक्षे कमेश्चलेश्चक्तव्यः * ॥ णेरभावान्न दीर्घसन्वद्भावौ । अचकमत ॥ संज्ञायाः कार्यकालत्वादङ्गं यत्र द्विरुच्यते ॥ तत्रैव दीर्घः सन्वच्च नानेकाक्ष्विति माधवः ॥ १॥ चकास्त्यर्थापयत्यूर्णोत्यादौ नाङ्गं द्विरुच्यते ॥ किं त्वस्यावयवः कश्चित्तस्मादेकाक्ष्विदं द्वयम् ॥ २॥ वस्तुतोऽङ्गस्यावयवो योऽभ्यास इति वर्णनात् ॥ ऊ# दीर्घोऽर्थापयतौ द्वयं स्यादिति मन्महे ॥ ३ ॥ चकास्तौ तूभयमिदं न स्यात्स्याच्च व्यवस्थया ॥ विशेष्यं सन्निहितं लघुनीत्यङ्गमेव वा ॥ ४ ॥ इति व्याख्याविकल्पस्य कैयटेनैव वर्णनात् ॥ णेरग्लोपेऽपि संबन्धस्त्वगितामपि सिद्धये ॥ ५॥॥ अथ क्रम्यन्तास्त्रिंशत्परस्मैपदिनः॥ अण रण वण भण मण कण कण व्रण भ्रण ध्वण शब्दार्थाः । अणति । रणति । वणति । वकारादित्वादेत्वाभ्यासलोपौ न । ववणतुः । ववणिथ ॥ १० ॥ धणिरपि कैश्चित्पठ्यते । धणति ॥ ओण अपनयने । ओणति । ओणांचकार ॥ ११ ॥ शोश वर्णगत्योः । शोणति । शुशोण ॥ १२ ॥ श्रोण संघाते । श्रोणति ॥ १३ ॥ श्लोण च । शोणादयस्त्रयोऽमी तालव्योष्मादयः ॥ १४ ॥ पैतृ गतिप्रेरणश्लेषणेषु । प्रैण इति क्वचित्पठ्यते । पिप्रैण ॥ १५ ॥ ध्रण शब्दे । उपदेशे नान्तोऽयम् । रषाभ्यामिति णत्वम् । ध्रणति । नोपदेशफलं तु यङ्लुकि । दन्ध्रन्ति ॥ १६॥ बणेत्यपि केचित् । बेणतुः । बेणिथ ॥ १७ ॥ कनी दीप्तिकान्तिगतिषु । चकान ॥ १८ ॥ ष्टन वन शब्दे । स्तनति । वनति ॥ २०॥ वन षण संभक्तौ । वनेरर्थभेदात्पुनः पाठः । सनति । ससान । सेनतुः॥ ये विभाषा ।६।४।४३॥ जनसनखनामात्वं वा स्याद्यादौ विति । सायात् । सन्यात् ॥ २१ ॥ अम गत्यादिषु । कनी दीप्तिकान्तिगतीत्यत्र गतेः परयोः शब्दसंभक्तयोरादिशब्देन संग्रहः । अमति । आम ॥ २२ ॥ द्रम हम्म मीमृ गतौ । द्रमति । दद्राम । ह्रयन्तेति न वृद्धिः। अद्रमीत् । हम्मति । जहम्म । मीमति । मिमीम । अयं शब्दे च ॥ २५ ॥ चमु छमु जमु झमु अदने ॥ ष्ठिवुक्लमुचमां शिति ॥३७५ ॥ एषामचो दीर्घः स्याच्छिति ॥ आङि चम इति वक्तव्यम् * ॥ आचामति ॥ आङि किम् । चमति । विचमति । अचमीत् ॥ २९॥ जिमि केचित्पठन्ति ॥ जेमति ॥ क्रमु पादविक्षेपे ॥ वा भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः ।।१७०॥ एभ्यः श्यन्वा स्यात्क–र्थेसार्वधातुके परे ॥ क्रमः परस्मैपदेषु १३७६॥ क्रमर्दीर्घः स्यात्परस्मैपदेपरे शिति । क्राम्यति । कामति । चक्राम । क्राम्यतु । कामतु ॥ स्नुक्रमोरनात्मनेपदनिमित्त । ७२॥३६॥ अत्रैवेट् । अक्रमीत् ॥ ३० ॥ ॥ अथ रेवत्यन्ता अनुदात्तेतः॥ अय बय पय मय चय तय णय गतौ । अयते ॥ दयायासश्च ।३।१॥३७॥ दय् अय्