________________
१८६
सिद्धान्तकौमुद्याम् रेभृ शब्दे । रिरेभे ॥ २२ ॥ अभि रभी क्वचित्पठ्येते । अम्भते ॥ २३ ॥ रम्भते ॥ २४ ॥ ष्टभि स्कभि प्रतिबन्धे । स्तम्भते। उत्तम्भते ॥ उदः स्थास्तम्भोरिति पूर्वसवर्णः । विस्तम्भते ॥ स्तन्भेरिति षत्वं तु न भवति । नुविधौ निर्दिष्टस्य सौत्रस्यैव तत्र ग्रहणात् । तद्बीजं तूदः स्थास्तम्भोरिति पवर्गीयोपधपाठः । स्तन्भेरिति तवर्गीयोपधपाठश्चेति माधवः । केचिदस्य टकार औपदेशिक इत्याहुस्तन्मते। ष्टम्भते । टष्टम्भे ॥ २६ ॥ जभिजुभी गात्रविनामे ॥ रधिजभोरचि १६१॥ एतयोर्नुमागमः स्यादचि । जम्भते । जजम्भे । जम्भिता । अजम्भिष्ट । जम्भते । जजृम्भे ॥ २८ ॥ शल्भ कत्थने । शशल्भे ॥२९॥ वल्भ भोजने ॥ दन्त्योष्ठ्यादिः । ववल्भे ॥ ३०॥ गल्भ धावें । गल्भते ॥३१॥ श्रम्भु प्रमादे । तालव्यादिर्दन्त्यादिश्च । श्रम्भते । सम्भते ॥ ३३ ॥ ष्टुभु स्तम्भे । स्तोभते । विष्टोभते । तुष्टुभे । व्यष्टोभिष्ट ॥ ३४ ॥ अथ परस्मैपदिनः ॥ गुपू रक्षणे ॥ गुपूधूपविच्छिपणिपनिभ्य आयः ।।१।२८ ॥ एभ्य आयप्रत्ययः स्यात्स्वार्थे । पुगन्तेति गुणः ॥ सनाद्यन्ता धातवः ॥३॥१॥३२॥ सनादयः कमेर्णिङन्ताः प्रत्यया अन्ते येषां ते धातुसंज्ञाः स्युः । धातुत्वालडादयः । गोपायति ॥ आयादय आर्धधातुके वा ३॥१॥३१॥ आर्धधातुकविवक्षायामायादयो वा स्युः ॥ कास्प्रत्ययादाममन्त्रे लिटि ३२१॥३५ ॥ कास्धातोः प्रत्ययान्तेभ्यश्चाम् स्याल्लिटि न तु मन्ने ॥ कास्यनेकाग्रहणं कर्तव्यम् * ॥ सूत्रे प्रत्ययग्रहणमपनीय तत्स्थानेऽनेकाच इति वाच्यमित्यर्थः ॥ आर्धधातुके ।६।४।४६॥ इत्यधिकृत्य ॥ अतो लोपः ।६।४।४८ ॥ आर्धधातुकोपदेशकाले यदकारान्तं तस्याकारस्य लोपः स्यादार्धधातुके परे । गोपायांचकार । गोपायांबभूव । गोपायामास । जुगोप । जुगुपतुः । ऊदित्वाद्वेट् । जुगोपिथ । जुगोप्थ । गोपायिता । गोपिता । गोप्ता। गोपाय्यात् । गुप्यात् । अगोपायीत् अगोपीत् अगौप्सीत् ॥ १ ॥ धूप सन्तापे । धूपायति । धूपायांचकार । दुधूप । धूपायितासि । धूपितासि ॥२॥ जप जल्प व्यक्तायां वाचि । जप मानसे च ॥ ४ ॥ चप सान्त्वने ॥५॥ षप समवाये । समवायः संबन्धः सम्यगवबोधो वा। सपति ॥ ६ ॥ रप लप व्यक्तायां वाचि ॥ ८ ॥ चुप मन्दायां गतौ । चोपति । चुचोप । चोपिता ॥ ९॥ तुप तुम्प त्रुप त्रुम्प तुफ तुम्फ त्रुफ त्रुम्फ हिंसाः । तोपति । तुतोप । तुम्पति । तुतुम्प । तुतुम्पतुः । संयोगात्परस्य लिटः कित्त्वाभावान्नलोपो न । किदाशिषीति कित्त्वान्नलोपः । तुप्यात् । प्रात्तुम्पतौ गवि कर्तरीति. पारस्करादिगणे पाठात्सुट् , प्रस्तुम्पति गौः । श्तिपा निर्देशाद्यङ्लुकि न । प्रतोतुम्पीति । त्रोपति । त्रुम्पति । तोफति । तुम्फति । त्रोफति । त्रुम्फति । इहाद्यौ द्वौ पञ्चमषष्ठौ च नीरेफाः । अन्ये सरेफाः । आद्याश्चत्वारः प्रथमान्ताः । ततो द्वितीयान्ताः । अष्टावप्युकारवन्तः ॥ १७ ॥ पर्प रफ रफि अब पर्व लब मर्व कर्ब खर्व गर्ब शर्ब षर्ब चर्ब गतौ । १ सन्क्यच्काम्यचक्यङ्ग्यषोऽथाचारक्किब्णिज्यडौ तथा। यगाय ईयङ् णिङ् चेति द्वादशामी सनादयः॥