________________
तिङन्ते भ्वादयः।
१८३ प्रकृत्याश्रयः प्रत्ययाश्रयो वा यावानिनिषेधः स लिटि चेत्तर्हि क्रादिभ्य एव नान्येभ्य इति । ततश्चतुर्णा थलि भारद्वाजनियमप्रापितस्य वमादिषु क्रादिनियमप्रापितस्य चेटो निषेधार्थम् ॥ अचस्तावत्थल्यनिटो नित्यम् ।।२।६१॥ उपदेशेऽजन्तो यो धातुस्तासौ नित्यानिट ततः परस्य थल इण्न स्यात् ॥ उपदेशेऽत्वतः २०६२॥ उपदेशे अकारवतस्तासौ नित्यानिटः परस्य थल इण्न स्यात् ॥ ऋतो भारद्वाजस्य ।।२।६३ ॥ तासौ नित्यानिट ऋदन्तादेव थलो नेट भारद्वाजस्य मतेन । तेनान्यस्य स्यादेव । अयमत्र संग्रहः ॥ अजन्तोऽकारवान्वा यस्तास्यनिट थलि वेडयम् । ऋदन्त ईदृङ्गित्यानिट क्राद्यन्यो लिटि सेड् भवेत् ॥ १ ॥ न च स्तुद्रादीनामपि थलि विकल्पः शयः । अचस्ताखदिति उपदेशेऽत्वत इति च योगद्वयप्रापितस्यैव हि प्रतिषेधस्य भारद्वाजनियमो निवर्तकः । अनन्तरस्येति न्यायात् । विवयिथ । विवेथ । आजिथ । विव्यथुः । विव्य । विवाय । विवय । विव्यिव । विव्यिम । वेता । अजिता । वेष्यति । अजिष्यति । अजतु । आजत् । अजेत् । वीयात् ॥ सिचि वृद्धिः परस्मैपदेषु ॥२१॥ इगन्ताङ्गस्य वृद्धिः स्यात्परस्मैपदपरे सिचि । अवैषीत् । आजीत् । अवेष्यत् । आजिष्यत् ॥ ४८ ॥ तेज पालने । तेजति ॥ ४९ ॥ खज मन्थे । खजति ॥ ५० ॥ खजि गतिवैकल्ये । खञ्जति ॥ ५१ ॥ एज कम्पने । एजांचकार ॥ ५२ ॥ टुओस्फूर्जा वज्रनिर्घोषे । स्फूर्जति । पुस्फूर्ज ॥ ५३ ॥ क्षि क्षये । अकर्मकः । अन्तर्भावितण्यर्थस्तु सकर्मकः । क्षयति । चिक्षाय । चिक्षियतुः । चिक्षियुः । चिक्षयिथ । चिक्षेथ । चिक्षियिव । चिक्षियिम । क्षेता ॥ अकृत्सार्वधातुकयोर्दीर्घः। ७४।२५ ॥ अजन्ताङ्गस्य दीर्घः स्याद्यादौ प्रत्यये परे न तु कृत्सार्वधातुकयोः । क्षीयात् । अक्षैषीत् ॥ ५४ ॥ क्षीज अव्यक्ते शब्दे । कूजिना सहायं पठितुं युक्तः । चिक्षीज ॥५५॥ लज लजि भर्त्सने ॥ ५७ ॥ लाज लाजि भर्जने च ॥ ५९ ॥ जज जजि युद्धे ॥ ६१ ॥ तुज हिंसायाम् । तोजति । तुतोज ॥ ६२ ॥ तुजि पालने ॥ ६३ ॥ गज गजि गृज गृजि मुज मुजि शब्दार्थाः ॥ ६९ ॥ गज मदने च ॥ ७० ॥ वज व्रज गतौ । वदव्रजेति वृद्धिः । अव्राजीत् ॥७२॥ * ॥ अथ टवीयान्ताः शाड्यन्ता अनुदात्तेतः षट्त्रिंशत् ॥ अह अतिक्रमणहिंसयोः । दोपधोऽयम् । तोपध इत्येके । अट्टते । आनट्टे ॥ १॥ वेष्ट वेष्टने । विवेष्टे ॥ २ ॥ चेष्ट चेष्टयाम् । अचेष्टिष्ट ॥ ३ ॥ गोष्ट लोष्ट संघाते । जुगोष्टे ॥ ४ ॥ लुलोष्टे ॥ ५॥ घट्ट चलने । जघट्ट ॥ ६ ॥ स्फुट विकसने । स्फोटते । पुस्फुटे ॥ ७॥ अठि गतौ । अण्ठते । आनण्ठे ॥ ८॥ वठि एकच-याम् । ववण्ठे ॥ ९॥ मठि कठि शोके । शोक इह आध्यानम् । मण्ठते ॥१०॥ कण्ठते ॥ ११ ॥ मुठि पालने । मुण्ठते ॥ १२ ॥ हेठ विबाधायाम् । जिहेठे ॥ १३ ॥ एठ च । एठांचक्रे ॥ १४ ॥ हिडि गत्यनादरयोः । हिण्डते । जिहिण्डे ॥ १५॥ हुडि संघाते । जुहुण्डे ॥ १६ ॥ कुडि दाहे । चुकुण्डे ॥ १७ ॥ वडि विभाजने । मडि