________________
१८२
सिद्धान्तकौमुद्याम् कुत्सनयोः । ईजांचक्रे ॥ २१ ॥ अथ द्विसप्ततिव्रज्यन्ताः परस्मैपदिनः॥ शुच शोके । शोचति ॥ १॥ कुच शब्दे तारे । कोचति ॥ २॥ कुश्च क्रुश्च कौटिल्याल्पीभावयोः । अनिदितामिति नलोपः । कुच्यात् ॥ ३ ॥ क्रुच्यात् ॥ ४ ॥ लश्च अपनयने । लुच्यात् ॥ ५ ॥ अञ्चु गतिपूजनयोः । अच्यात् । गतौ नलोपः । पूजायां तु । अञ्च्यात् ॥ ६ ॥ वञ्च चञ्च तञ्चु त्वञ्च छुञ्च म्लुञ्च मुचुम्लुचु गत्यर्थाः । वच्यात् । चच्यात् । तच्यात् । त्वच्यात् । अग्रुञ्चीत् । अम्लुञ्चीत् ॥ जृस्तम्भु चुम्लुचुचुग्लुचुग्लुअश्विभ्यश्च ।३।११५८ ॥ एभ्यश्चलेरङ् वा स्यात् । अग्रुचत् । अम्रोचीत् । अम्लुचत् । अम्लोचीत् ॥ १४ ॥ ग्रुचु ग्लुचु कुजु खुजु स्तेयकरणे । जुनोच । अग्रुचत् । अग्रोचीत् । जुग्लोच । अग्लुचत् । अग्लोचीत् । अकोजीत् । अखोजीत् ॥ १८ ॥ ग्लुञ्च षसूज गतौ । अङ् । अग्लुचत् । अग्लुञ्चीत् ॥ १९ ॥ सस्य श्श्रुत्वेन शः । जश्त्वेन जः । सज्जति । अयमात्मनेपद्यपि । सज्जते ॥ २० ॥ गुजि अव्यक्ते शब्दे । गुञ्जति । गुड्यात् ॥ २१ ॥ अर्च पूजायाम् । आनर्च ॥ २२॥ म्लेच्छ अव्यक्ते शब्दे । अस्फुटेऽपशब्दे चेत्यर्थः । म्लेच्छति । मिम्लेच्छ ॥ २३ ॥ लच्छ लाछि लक्षणे । ललच्छ ॥ २४ ॥ ललाञ्छ ॥ २५ ॥ वाछि इच्छायाम् । वाञ्छति ॥ २६ ॥ आछि आयामे । आञ्छति । अत आदेरित्यत्र तपरकरणं खाभाविकहखपरिग्रहार्थम् । तेन दीर्घाभावान्न नुट् । आन्छ । तपरकरणं मुखसुखार्थमिति मते तु नुट् । आनाञ्छ ॥ २७ ॥ ह्रीच्छ लज्जायाम् । जिह्रीच्छ ॥ २८ ॥ हुर्छा कौटिल्ये । कौटिल्यमपसरणमिति मैत्रेयः । उपधायां चेति दीर्घः । हुर्छति ॥ २९ ॥ मुर्छा मोहसमुच्छ्राययोः । मूर्छति ॥ ३० ॥ स्फुर्छा विस्तृतौ । स्फूर्छति ॥ ३१ ॥ युच्छ प्रमादे । युच्छति ॥ ३२ ॥ उछि उञ्छे ॥ उञ्छः कणश आदानं कणिशाद्यर्जनं शिलमिति यादवः ॥ उञ्छति । उञ्छांचकार ॥ ३३ ॥ उच्छी विवासे । विवासः समाप्तिः । प्रायेणायं विपूर्वः । व्युच्छति ॥ ३४ ॥ ध्रज ध्रजि धृज धृजि ध्वज ध्वजि गतौ । ध्रजति । ध्रञ्जति । धर्जति । धृञ्जति । ध्वजति । ध्वञ्जति ॥ ४०॥ कूज् अव्यक्ते शब्दे । चुकूज ॥४१॥ अर्ज षर्ज अर्जने । अर्जति । आनर्ज ॥ ४२ ॥ सर्जति । ससर्ज ॥ ४३ ॥ गर्ज शब्दे । गर्जति ॥ ४४ ॥ तर्ज भर्त्सने । तर्जति ॥ ४५ ॥ कर्ज व्यथने । चकर्ज ॥ ४६॥ खर्ज पूजने च । चखर्ज ॥ ४७ ॥ अज गतिक्षेपणयोः । अजति ॥ अजेयंघञपोः ।।४।५६ ॥ अजेर्वी इत्ययमादेशः स्यादार्धधातुकविषये घञमपं च वर्जयित्वा ॥ वलादावार्धधातुके वेष्यते * ॥ विवाय । विव्यतुः । विव्युः । अत्र वकारस्य हलपरत्वादुपधायां चेति दीर्घ प्राप्ते अचः परस्मिन्निति स्थानिवद्भावेनाच्परत्वम् । न च नपदान्तेति निषेधः ॥ खरदीर्घयलोपेषु लोपाजादेश एव न स्थानिवदित्युक्तेः ॥ थलि एकाच इतीनिषेधे प्राप्ते ॥ कृमृभृवृस्तुद्रुस्रुश्रुवो लिटि २०१३ ॥ एभ्यो लिट इण्न स्यात् । क्रादीनां चतुर्णा ग्रहणं नियमार्थम् ।