SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ १८१ तिङन्ते भ्वादयः । त्रकि ढौक नौकृ ष्वष्क वस्क मस्क टिकटीकृ तिकृ तीकृ रघि लघि गत्यर्थाः ॥ कङ्कते । डुढौके । तुत्रौके ॥ सुब्धातुष्ठिवुष्वष्कतीनां सत्वप्रतिषेधो वक्तव्यः * ॥ प्वष्कते । षण्वष्के । अत्र तृतीयो दन्त्यादिरित्येके ॥ लघि भोजननिवृत्तावपि ॥ ३४ ॥ अघि वघि मधि गत्याक्षेपे । आक्षेपो निन्दा । गतौ गत्यारम्भे चेत्यन्ये । अङ्घते । आनछ । वङ्घते । मङ्घते । मघि कैतवे च ॥ ३७ ॥ राघू लाघु द्राघु सामर्थ्ये । राघते ॥ ३८ ॥ लाघते ॥ ३९ ॥ ध्रा इत्यपि केचित् । द्रा आयामे च । आयामो दैय॑म् । द्रायते ॥ ४१ ॥ श्लाघ कत्थने । श्लाघते ॥ ४२ ॥ * ॥ अथ परस्मैपदिनः पश्चाशत् ॥ फक नीचैर्गतौ । नीचैर्गतिर्मन्दगमनमसन्यवहारश्च । फक्कति । पफक ॥१॥ तक हसने । तकति ॥ २ ॥ तकि कृच्छ्रजीवने । तङ्कति ॥ ३ ॥ बुक्क भषणे । भषणं श्वरवः । बुक्कति ॥ ४ ॥ कख हसने । प्रनिकखति ॥ ५ ॥ ओख राख लाख द्राखु ध्राख शोषणालमर्थयोः । ओखति ओखांचकार ॥ १० ॥ शाख श्लाख व्याप्तौ । शाखति ॥ १२ ॥ उख उखि वख वखि मख मखि णख णखि रख रखि लख लखि इख इखि ईखि वल्ग रगि लगि अगि वगि भगि तगि त्वगि अगि श्लगि इगि रिगि लिगि गत्यर्थाः। कवर्ग द्वितीयान्ताः पञ्चदश । तृतीयान्तास्त्रयोदश । इह खान्तेषु रिख त्रख त्रिखि शिखि इत्यपि चतुरः केचित्पठन्ति ॥ अभ्यासस्यासवर्णे। ।६।४७८ ॥ अभ्यासस्य इवर्णोवर्णयोरियडवङौ स्तोऽसवर्णेऽचि । उवोख । संनिपातपरिभाषया इजादेरित्याम्न । ऊखतुः । ऊखुः । इह सवर्णदीर्घस्याभ्यासग्रहणेन ग्रहणाद्भवः प्राप्तो न भवति । सकृत्प्रवृत्तत्वात् । आङ्गत्वाद्धि पर्जन्यवल्लक्षणप्रवृत्त्या हखे कृते ततो दीर्घः । वार्णादाङ्गं बलीय इति न्यायात् परत्वाच्च । उति । ववखतुः । वङ्खति । मेखतुः ॥ त्वगि कम्पने च ॥ ४४ ॥ युगि जुगि वुगि वर्जने । युङ्गति ॥ ४७ ॥ घघ हसने। घघति । जघाघ ॥ ४८ ॥ मधि मण्डने । मङ्घति ॥ ४९ ॥ शिघि आघ्राणे । शिवति ॥ ५० ॥ अथ चवर्गीयान्ताः। तत्रानुदात्तेत एकविंशतिः॥ वर्च दीप्तौ । वर्चते ॥१॥ षच सेचने सेवने च । सचते । सेचे । सचिता ॥ २ ॥ लोच दर्शने । लोचते । लुलोचे ॥३॥ शच व्यक्तायां वाचि । शेचे ॥ ४ ॥ श्वच श्वचि गतौ । श्वचते । श्वश्चते ॥ ६॥ कच बन्धने । कचते ॥ ७ ॥ कचि काचि दीप्तिबन्धनयोः । चकच्चे । चकाञ्चे ॥९॥ मच मुचि कल्कने । कल्कनं दम्भः शाठ्यं च । कथनमित्यन्ये । मेचे । मुमुञ्चे ॥ ११ ॥ मचि धारणोच्छ्रायपूजनेषु । ममञ्चे ॥ १२ ॥ पचि व्यक्तीकरणे । पञ्चते ॥ १३ ॥ टुच प्रसादे । स्तोचते । तुष्टुचे ॥ १४ ॥ ऋज गतिस्थानार्जनोपार्जनेषु । अर्जते । नुविधौ ऋकारैकदेशो रेफो हलत्वेन गृह्यते । तेन द्विहलत्वान्नुट् । आनृजे ॥ १५ ॥ ऋजि भृजी भर्जने । ऋञ्जते । उपसर्गाहतीति वृद्धिः । प्राञ्जते । ऋञ्जाञ्चक्रे । आख्रिष्ट ॥ १६ ॥ भर्जते ॥ बभृजे । अभर्जिष्ट ॥ १७ ॥ एजु श्रेज़ भ्राज़ दीप्तौ । एजांचक्रे ॥ २० ॥ ईज गति
SR No.002377
Book TitleVaiyakaran Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorVasudev Lakshman Shastri
PublisherPandurang Jawaji
Publication Year1938
Total Pages532
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy