________________
१७६
सिद्धान्तकौमुद्याम् ७४॥६६॥ अभ्यासऋवर्णस्य अत्स्यात्प्रत्यये परे । रपरत्वम् । हलादिः शेषः । प्रत्यये किम् । वत्रश्च ॥ कुहोश्चः।७।४।३२॥ अभ्यासकवर्गहकारयोश्चवर्गादेशः स्यात् । एधांचक्रे । एधांचक्राते । एधांचक्रिरे ॥ एकाच उपदेशेऽनुदात्तात् ।।२।१०॥ उपदेशे यो धातुरेकाजनुदात्तश्च ततः परस्य वलादेरार्धधातुकस्येद् न स्यात् । उपदेशे इत्युभयान्वयि । एकाच इति किम् । यङ्लुग्व्यावृत्तिर्यथा स्यात् । स्मरन्ति हि ॥ रितपा शपाऽनुबन्धेन निर्दिष्टं यद्गुणेन च । यत्रैकाग्रहणं चैव पञ्चैतानि न यङ्लुकि ॥ १॥ इति एतच्चहैवैका ग्रहणेन ज्ञाप्यते । अच इत्येवैकत्वविवक्षया तद्वतो ग्रहणेन च सिद्धे एकग्रहणसामर्थ्यादनेकाच्कोपदेशो व्यावर्त्यते । तेन वधेर्हन्त्युपदेशे एकाचोऽपि न निषेधः । आदेशोपदेशेऽनेकाच्त्वात् । अनुदात्ताश्चानुपदमेव संग्रहीष्यन्ते । एधांचकृषे । एधांचक्राथे ॥ इणः पीध्वंललिटां धोऽङ्गात् ।८।३।७८ ॥ इण्णन्तादङ्गात्परेषां षीध्वंलुलिटां धस्य मूर्धन्यः स्यात् । एधांचकृट्वे ॥ एधांचके । एधांचकृवहे । एधांचकृमहे । एधांबभूव । अनुप्रयोगसामादस्ते भावो न । अन्यथा हि क्रस्चानुप्रयुज्यत इति कृभिवति वा ब्रूयात् ॥ अत आदेः ७४७०॥ अभ्यासस्यादेरतो दीर्घः स्यात् । पररूपापवादः । एधामास । एधामासतुरित्यादि । एधिता । एधितारौ । एधितारः । एधितासे । एधितासाथे ॥ धि च ।८।२। २५॥ धादौ प्रत्यये परे सलोपः स्यात् । एधिताध्वे ॥ ह एति ७४।५२॥ तासस्त्योः सस्य हः स्यादेति परे । एधिताहे । एधिताखहे । एधितास्महे ॥ एधिष्यते । एधिष्यते । एधिष्यन्ते ॥ एधिष्यसे । एधिष्येथे । एधिष्यध्वे ॥ एधिष्ये । एधिष्यावहे । एधिष्यामहे । आमेतः ।।४।९० ॥ लोट एकारस्याम् स्यात् ॥ एधताम् । एधेताम् । एधन्ताम् ॥ सवाभ्यां वामौ ।३४९१ ॥ सवाभ्यां परस्य लोडेतः क्रमाद्व अम् एतौ स्तः । एधख । एधेथाम् । एधध्वम् । एत ऐ ।३।४।९३ ॥ लोडुत्तमस्य एत ऐ स्यात् । आमोऽपवादः । एधै । एधावहै । एधामहै ॥ आडजादीनाम् ।।४७२ ॥ अजादीनामाट् स्याल्लुङादिषु । अटोऽपवादः ॥ आटश्च ॥ ऐधत । ऐघेताम् । ऐधन्त । ऐधथाः । ऐधेथाम् । ऐध. ध्वम् । ऐधे । ऐधावहि । ऐधामहि ॥ लिङः सीयुट् ।।४।१०२ ॥ सलोपः । एधेत एधेयाताम् ॥ झस्य रन् ।३।४।१०५॥ लिङो झस्य रन् स्यात् । एधेरन् ॥ एधेथाः । एधेयाथाम् । एघेध्वम् ॥ इटोऽत् ।।४।१०६॥ लिङादेशस्येटोऽत्स्यात् । एधेय । एधेवहि । एधेमहि ॥ आशीलिङि आर्धधातुकत्वात् लिङः सलोपो न । सीयुटसुटोः प्रत्ययावयवत्वात्पत्वम् । एधिषीष्ट । एधिषीयास्ताम् ॥ एधिषीरन् ॥ एधिषीष्ठाः । एधिषीयास्थाम् । एधिषीध्वम् ॥ एधिषीय । एधिषीवहि । एधिषीमहि ॥ ऐधिष्ट । ऐधिषाताम् ॥ आत्मनेपदेष्वनतः ।।१॥५॥ अनकारात्परस्यात्मनेपदेषु झस्य अत् इत्यादेशः स्यात् । ऐधिषत । ऐधिष्ठाः । ऐधिषाथाम् ॥ इणः पीध्वंलुइलिटां धोऽङ्गात् ॥ ऐधिदम् । इभिन्न एव इणिह गृह्यते इति मते तु ऐधिध्वम् । ढधयोर्वस्य मस्य च द्वित्वविकल्पात्षोडश रूपाणि । ऐधिषि ऐधिष्वहि । ऐधि