________________
तिङन्ते भ्वादयः ।
संज्ञा धातोः प्रागेव प्रयोक्तव्याः || आनि लोट् ||८|४|१६ ॥ उपसर्गस्थान्निमित्तात्परस्य लोडादेशस्यानीत्यस्य नस्य णः स्यात् । प्रभवाणि । दुरः षत्वणत्वयोरुपसर्गत्वप्रतिषेधो वक्तव्यः * ॥ दुस्थितिः । दुर्भवानि । अन्तःशब्दस्याङ् कि विधिणत्वेषूपसर्गत्वं वाच्यम् * ॥ अन्तर्धा । अन्तर्धिः । अन्तर्भवाणि ॥ शेषे विभाषाऽकखादावषान्त उपदेशे । ८|४|१८ ॥ उपदेशे कादिखादिषान्तवर्जे गदनदादेरन्यस्मिन् धातौ परे उपसर्गस्थानतात्परस्य नेर्नस्य णत्वं वा स्यात् । प्रणिभवति । प्रनिभवति । इहोपसर्गाणामसमस्तत्वेऽपि संहिता नित्या । तदुक्तम् - संहितैकपदे नित्या नित्या धातूपसर्गयोः ॥ नित्या समासे वाक्ये तु सा विवक्षामपेक्षते ॥ १ ॥ इति । सत्ताद्यर्थनिर्देशश्चोपलक्षणम् । यागात्खर्गे भवतीत्यादात्पद्यत इत्याद्यर्थात् । उपसर्गास्त्वर्थविशेषस्य द्योतकाः । प्रभवति । पराभवति । संभवति । अनुभवति । अभिभवति । उद्भवति । परिभवतीत्यादौ विलक्षणार्थावगते । उक्तं च ॥ उपसर्गेण धात्वर्थो बलादन्यः प्रतीयते । प्रहाराहारसंहारविहारपरिहारवत् ॥ १ ॥ इति ॥ ध वृद्धौ । कत्थन्ताः षट्त्रिंशदनुदात्तेतः ॥ टित आत्मनेपदानां टेरे । ३|४|७९ ॥ टितो लस्यात्मनेपदानां टेरेत्वं स्यात् । एधते ॥ सार्वधातुकमपित् | १|२| ४ ॥ अपित्सार्वधातुकं द्विस्यात् ॥ आतो ङितः | ७|२|८१ ॥ अतः परस्य ङितामा - कारस्य इय् स्यात् । एघेते । एधन्ते ॥ थासः से | ३|४|८० ॥ टितो लस्य थासः से स्यात् । एधसे । एधेथे । एधध्वे । अतो गुणे । एधे । एधावहे । एधामहे ॥ इजादेश्व गुरुमतोऽनृच्छः | ३|१| ३६ || इजादिर्यो धातुर्गुरुमानृच्छत्यन्यस्तत आम् स्याल्लिटि || आमो मकारस्य नेत्त्वम् । आस्कासोराविधानाज्ज्ञापकात् ॥ आमः | २|४|८१ ॥ आमः परस्य लुक् स्यात् ॥ कृञ्चानुप्रयुज्यते लिटि | ३|१|४० ॥ आमन्तालिट्पराः कृभ्वस्तयोऽनुप्रयुज्यन्ते । आम्प्रत्ययवत्कृञो ऽनुप्रयोगस्येति सूत्रे कृञ्ग्रहणसामर्थ्यादनुप्रयोगोऽन्यस्यापीति ज्ञायते । तेन कृभ्वस्तियोग इत्यतः कृञो द्वितीयेति ञकारेण प्रत्याहाराश्रयणात्कृभ्वस्तिलाभः । तेषां क्रियासामान्यवाचित्वादाम्प्रकृतीनां विशेषवा चित्वात्तदर्थयोरभेदान्वयः । संपदिस्तु प्रत्याहारेऽन्तर्भूतोऽप्यनन्वितार्थत्वान्न प्रयुज्यते । कृञस्तु क्रियाफले परगामिनि परस्मैपदे प्राप्ते ॥ आम्प्रत्ययवत्कृञोऽनुप्रयोगस्य ||३|६३ || आम् प्रत्ययो यस्मादित्यतद्गुणसंविज्ञानो बहुव्रीहिः । आम्प्रकृत्या तुल्यमनुप्रयुज्यमानात्कृञोऽप्यात्मनेपदं स्यात् । इह पूर्ववदित्यनुवर्त्य वाक्यभेदेन संबध्यते । पूर्ववदेवात्मनेपदं न तु तद्विपरीतमिति । तेन कर्तृगेऽपि फले इन्दांचकारेत्यादौ न तङ् || लिटस्तझयोरेशिरेच् | ३|४|८१ || लिडादेशयोस्तझयोरेश् इरेच् एतौ स्तः । एकारोच्चारणं ज्ञापकं तङादेशानां टेरेत्वं नेति । तेन डारौरसां न । कृ ए इति स्थिते ॥ असंयोगालिट्ठित् । १।२२५ ॥ असंयोगात्परोऽपिल्लिङ्कित्स्यात् । क्ि चेति निषेधात्सार्वधातुकार्धधातुकयोरिति गुणो न । द्वित्वात्परत्वाद्यणि प्राप्ते ॥ द्विर्वचनेऽचि ।१।१।५९ ॥ द्वित्वनिमित्तेऽचि परे अच आदेशो न स्याद्वित्वे कर्तव्ये ॥ उरत् ।
१७५