________________
१७२
सिद्धान्तकौमुद्याम् अवादेशः । भवति । भवतः ॥ झोऽन्तः ।।१।३ ॥ प्रत्ययावयवस्य झस्यान्तादेशः स्यात् । अतो गुणे । भवन्ति ॥ भवसि । भवथः । भवथ ॥ अतो दीर्घो यनि । ७३।१०१॥ अतोऽङ्गस्य दीर्घः स्याद् यादौ सार्वधातुके परे । भवामि । भवावः । भवामः । सः भवति । तौ भवतः । ते भवन्ति ॥ त्वं भवसि । युवां भवथः । यूयं भवथ ॥ अहं भवामि । आवां भवावः । वयं भवामः ॥ एहि मन्ये ओदनं भोक्ष्यसे इति भुक्तः सोऽतिथिभिः । एतमेत वा मन्ये ओदनं भोक्ष्येथे । भोक्ष्यध्वे ॥ भोक्ष्ये । भोक्ष्यावहे । भोक्ष्यामहे ॥ मन्यसे । मन्येथे । मन्यध्वे इत्यादिरर्थः । युष्मद्युपपदे इत्याद्यनुवर्तते । तेनेह न । एतु भवान्मन्यते ओदनं भोक्ष्ये इति भुक्तः सोऽतिथिभिः ॥ प्रहासे किम् । यथार्थकथने मा भूत् । एहि मन्यसे ओदनं भोक्ष्ये इति भुक्तः सोऽतिथिभिरित्यादि ॥ परोक्षे लिट ।२।११५ ॥ भूतानद्यतनपरोक्षार्थवृत्तेर्धातोलिटू स्यात् । लस्य तिबादयः ॥ लिट्र च ।।४।११५ ॥ लिडादेशस्तिडार्धधातुकसंज्ञ एव स्यान्न तु सार्वधातुकसंज्ञः। तेन शबादयो न ॥ परस्मैपदानां णलतुसुस्थलथुसणल्वमाः ।।४।८२ ॥ लिटस्तिबादीनां नवानां णलादयो नव स्युः । भू अ इति स्थिते ॥ भुवो वुग्लुङलिटोः ।६४।८८ ॥ भुवो वुगागमः स्यात् लुलिटोरचि । नित्यत्वादुग्गुणवृद्धी बाधते ॥ एकाचो द्वे प्रथमस्य ।६।१।१॥ अजादेर्द्वितीयस्य ।६०२॥ इत्यधिकृत्य ॥ लिटि धातोरनभ्यासस्य ।।१।८॥ लिटि परेऽनभ्यासधात्ववयवस्यैकाचः प्रथमस्य द्वे स्त आदिभूतादचः परस्य तु द्वितीयस्य । भूव् भूव् अ इति स्थिते ॥ पूर्वोऽभ्यासः ।।१।४ ॥ अत्र ये द्वे विहिते तयोः पूर्वोऽभ्याससंज्ञः स्यात् ॥ हलादिः शेषः ।४।६०॥ अभ्यासस्यादिहल् शिष्यते अन्ये हलो लुप्यन्ते । इति वलोपः ॥ हखः ४/५९ ॥ अभ्यासस्याचो हवः स्यात् ॥ भवतेरः।७५४७३ ॥ भवतेरभ्यासोकारस्य अः स्यात् लिटि ॥ अभ्यासे चर्च ।।४।५४॥ अभ्यासे झलां चरः स्युर्जशश्च । झशां जशः खयां चरः । तत्रापि प्रकृतिजशां प्रकृतिजशः प्रकृतिचरां प्रकृतिचर इति विवेक आन्तरतम्यात् ॥ असिद्धवदत्राभात् ।।२२॥ इत ऊर्ध्वमापादपरिसमाप्तेरामीयम् । समानाश्रये तस्मिन्कर्तव्ये तदसिद्धं स्यात् । इति वुकोऽसिद्धत्वादुवङि प्राप्ते ॥ बुग्युटावुवयणोः सिद्धौ वक्तव्यौ * ॥ बभूव । बभूवतुः । बभूवुः ॥ आर्धधातुकस्येडलादेः ।।३५ ॥ वलादेरार्धधातुकस्येडागमः स्यात् । बभूविथ । बभूवथुः । बभूव ॥ बभूव । बभूविव । बभूविम ॥ अनद्यतने लट् २२१५॥ भविष्यत्यनद्यतनेऽर्थे धातोर्लट् स्यात् ॥ स्यतासी ललुटो ३३३३॥ ल इति लङ्लटोर्ग्रहणम् । धातोः स्यतासी एतौ प्रत्ययौ स्तो लुलुटोः परतः । शबाद्यपवादः ॥ आर्धधातुकं शेषः।।४।११४ ॥ तिशिभ्योऽन्यो धातोरिति विहितः प्रत्यय एतत्संज्ञः स्यात् । इट् ॥ लुटः प्रथमस्य डारौरसः ।।४।८५ ॥ डा रौ रस् एते क्रमात्स्युः । डित्त्वसामर्थ्यादभस्यापि टेर्लोपः ॥ पुगन्तलघूपधस्य च ७३३८६॥