________________
तिङन्ते भ्वादयः।
१७१ ॥ श्रीगणेशाय नमः॥ श्रौत्रार्हन्तीचणैर्गुण्यैर्महर्षिभिरहर्दिवम् । तोष्ट्रय्यमानोऽप्यगुणो विभुर्विजयतेतराम् ॥ १॥ पूर्वार्धे कथितास्तुर्यपञ्चमाध्यायवर्तिनः ।
प्रत्यया अथ कथ्यन्ते तृतीयाध्यायगोचराः ॥ २॥ तत्रादौ दश लकाराः प्रदर्श्यन्ते । लट् । लिट् । लुट् । लट् । लेट् । लोट् । लङ् । लिङ् । लुङ् । लङ् । एषु पञ्चमो लकारश्छन्दोमात्रगोचरः ॥ वर्तमाने लट् । १२३ ॥ वर्तमानक्रियावृत्तेर्धातोर्लट् स्यात् । अटावितौ ॥ लः कर्मणि च भावे चाकमकेभ्यः ।।४।६९॥ लकाराः सकर्मकेभ्यः कर्मणि कर्तरि च स्युरकर्मकेभ्यो भावे कर्तरि च ॥ लस्य ।३।४।७७ ॥ अधिकारोऽयम् ॥ तिप्तझिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिडहिमहिङ् ॥३४७८ ॥ एतेऽष्टादश लादेशाः स्युः ॥ ल: परस्मैपदम् ।।४।९९ ॥ लादेशाः परस्मैपदसंज्ञाः स्युः ॥ तङानावात्मनेपदम् । १४१००॥ तङ् प्रत्याहारः शानच्कानचौ चैतत्संज्ञाः स्युः । पूर्वसंज्ञापवादः ॥ अनुदात्तङित आत्मनेपदम् ॥१॥३॥१२॥ अनुदात्तेत उपदेशे यो ङित्तदन्ताच्च धातोर्लस्य स्थाने आत्मनेपदं स्यात् ॥ खरितत्रितः कभिप्राये क्रियाफले ।१३७२ ॥ खरितेतो जितश्च धातोरात्मनेपदं स्यात्कर्तृगामिनि क्रियाफले ॥ शेषात्कर्तरि परस्मैपदम् ॥१॥३३७८ ॥ आत्मनेपदनिमित्तहीनाद्धातोः कर्तरि परस्मैपदं स्यात् ॥ तिङस्त्रीणित्रीणि प्रथममध्यमोत्तमाः।१।४।१०१॥ तिङ उभयोः पदयोस्त्रयस्त्रिकाः क्रमादेतत्संज्ञाः स्युः ॥ तान्येकवचन द्विवचनबहुवचनान्येकशः ।।४।१०२॥ लब्धप्रथमादिसंज्ञानि तिङस्त्रीणि स्त्रीणि वचनानि प्रत्येकमेकवचनादिसंज्ञानि स्युः ॥ युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः।१।४।१०५॥ तिङ्काच्यकारकवाचिनि युष्मदि प्रयुज्यमानेऽप्रयुज्यमाने च मध्यमः स्यात् ॥ प्रहासे च मन्योपपदे मन्यतेरुत्तम एकवच ।१।४।१०६ ॥ मन्यधातुरुपपदं यस्य धातोस्तस्मिन्प्रकृतिभूते सति मध्यमः स्यात्परिहासे गम्यमाने मन्यतेस्तूत्तमः स्यात्स चैकार्थस्य वाचकः स्यात् ॥ अस्मयुत्तमः ।।४।१०७॥ तथाभूतेऽस्मद्युत्तमः स्यात् ॥ शेषे प्रथमः ।१।४।१०८ ॥ मध्यमोत्तमयोरविषये प्रथमः स्यात् ॥ भू सत्तायाम् ॥ कर्तृविवक्षायां भू ति इति स्थिते ॥ तिशित्सार्वधातुकम् ।।४।११३॥ तिङः शितश्च धात्वधिकारोक्ता एतत्संज्ञाः स्युः॥ कर्तरि शप् ।३।१६८॥ कर्बर्थे सार्वधातुके परे धातोः शप् स्यात् । शपावितौ ॥ सार्वधातुकार्धधातुकयो ७७३८४ ॥ अनयोः परयोरिगन्ताङ्गस्य गुणः स्यात् ।