________________
सिद्धान्तकौमुद्याम् भोजयतः । अत्र केचित् । आमादेशो द्वितीयाया एव । भाष्यादौ तथैवोदाहृतत्वात् । तेन स्त्रीनपुंसकयोरपि तृतीयादिषु पुंवदेव रूपमित्याहुः । अन्ये तूदाहरणस्य दिङ्मात्रत्वात्सर्वविभक्तीनामामादेशमाहुः । दलद्वये टाबभावः क्लीबे चाडिरहः खमोः ॥ समासे सोरलुक्चेति सिद्धं बाहुलकात्रयम् ॥ १॥ तथाहि । अन्योन्यं परस्परमित्यत्र दलद्वयेऽपि टाप् प्राप्तः । न च सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः । अन्यपरयोरसमासवद्भावात् । नच द्विवचनमेव वृत्तिः । यां यां प्रियः प्रेक्षत कातराक्षी सासेत्यादावतिप्रसङ्गात् । अन्योन्यमितरेतरमित्यत्र चाड्डतरादिभ्य इत्य प्राप्तः । अन्योन्यसंसक्तमहस्त्रियामम् । अन्योन्याश्रयः। परस्पराक्षिसादृश्यम् । अदृष्टपरस्पररित्यादौ सोलुंक्च प्राप्तः । सर्व बाहुलकेन समाधेयम् । प्रकृतवार्तिकभाष्योदाहरणं स्त्रियामिति सूत्रे अन्योन्यसंश्रयं त्वेतदिति भाष्यं चात्र प्रमाणमिति । अकृच्छ्रे प्रियसुखयोरन्यतरस्याम् ।।१।१३ ॥ प्रियप्रियेण ददाति । प्रियेण वा । सुखसुखेन ददाति । सुखेन वा । द्विर्वचने कर्मधारयवद्भावात्सुब्लुकि पुनस्तदेव वचनम् । अतिप्रियमपि वस्त्वनायासेन ददातीत्यर्थः । यथाखे यथायथम् ।८।१।१४॥ यथाखमिति वीप्सायामव्ययीभावः । योयमात्मा यच्चात्मीयं तद्यथाखम् । तस्मिन्यथाशब्दस्य द्वे क्लीबत्वं च निपात्यते । यथायथं ज्ञाता । यथाखभावमित्यर्थः । यथात्मीयमिति वा ॥ द्वन्द्वं रहस्यमर्यादावचनव्युत्क्रमणयज्ञपात्रप्रयोगाभिव्यक्तिषु ।८१।१५॥ द्विशब्दस्य द्विवचनं पूर्वपदस्याम्भावोऽत्वं चोत्तरपदस्य नपुंसकत्वं च निपात्यते एष्वर्थेषु । तत्र रहस्यं द्वन्द्वशब्दस्य वाच्यम् । इतरे विषयभूताः । द्वन्द्वं मन्त्रयते । रहस्यमित्यर्थः । मर्यादा स्थित्यनतिक्रमः । आचतुरं हीमे पशवो द्वन्द्वं मिथुनायन्ते । माता पुत्रेण मिथुनं गच्छति । पौत्रेण प्रपौत्रेणापीत्यर्थः । व्युत्क्रमणं पृथगवस्थानम् । द्वन्द्वं व्युत्क्रान्ताः । द्विवर्गसंबन्धेन पृथगवस्थिताः । द्वन्द्वं यज्ञपात्राणि प्रयुनक्ति । द्वन्द्वं संकर्षणवासुदेवौ । अभिव्यक्तौ साहचर्येणेत्यर्थः । योगविभागादन्यत्रापि द्वन्द्वमिष्यते ॥
॥ इति द्विरुक्तप्रक्रिया ॥
॥ इति श्रीभट्टोजिदीक्षितविरचितायां सिद्धान्तकौमुद्यां पूर्वार्धं समाप्तम् ॥