________________
तद्धितेषु द्विरुक्तप्रक्रिया ।
१६९ वीप्सायां च द्योत्ये पदस्य द्विर्वचनं स्यात् । आभीक्ष्ण्यं तिङन्तेष्वव्ययसंज्ञककृदन्तेषु च । पचतिपचति । भुक्त्वाभुक्त्वा । वीप्सायाम् , वृक्षवृक्षं सिञ्चति । ग्रामोग्रामो रमणीयः ।। परेवर्जने ।८।१५॥ परिपरि वङ्गेभ्यो वृष्टो देवः । वङ्गान्परिहत्येत्यर्थः । परेवर्जने वावचनम् * परि वङ्गेभ्यः ॥ उपर्यध्यधसः सामीप्ये ।८।१७ ॥ उपर्युपरि ग्रामम् । प्रामस्योपरिष्टात्समीपे देशे इत्यर्थः ॥ अध्यधि सुखम् । सुखस्योपरिष्टात्समीपकाले दुःखमित्यर्थः । अधोऽधो लोकम् । लोकस्याधस्तात्समीपे देशे इत्यर्थः ॥ वाक्यादेरामन्त्रितस्याऽसूयासंमतिकोपकुत्सनभर्सनेषु ।८।११८ ॥ असूयायाम्, सुन्दरसुन्दर वृथा ते सौन्दर्यम् । संमतौ, देवदेव वन्द्योसि । कोपे, दुर्विनीतदुर्विनीत इदानीं ज्ञास्यसि । कुत्सने, धानुष्कधानुष्क वृथा ते धनुः । भर्सने चोरचोर घातयिष्यामि त्वाम् ॥ एकं बहुव्रीहिवत् ।८।१९॥ द्विरुक्त एकशब्दो बहुव्रीहिवत्स्यात् । तेन सुब्लोपवद्भावौ । एकैकमक्षरम् । इह द्वयोरपि सुपोलकि कृते बहुव्रीहिवद्भावादेव प्रातिपदिकत्वात्समुदायात्सुप् । एकैकयाहुत्या । इह पूर्वभागे पुंवद्भावादवग्रहे विशेषः । न बहुव्रीहावित्यत्र पुनर्बहुव्रीहिग्रहणं मुख्यबहुव्रीहिलाभार्थम् । तेनातिदिष्टबहुव्रीही सर्वनामतास्त्येवेति प्राञ्चः । वस्तुतस्तु भाष्यमते प्रत्याख्यातमेतत् । सूत्रमतेऽपि बहुव्रीह्यर्थेऽलौकिके विग्रहे निषेधकं न तु बहुव्रीहावितीहातिदेशशकैव नास्ति । एकैकस्मै देहि ॥ आबाधे च ।८।१।१०॥ पीडायां द्योत्यायां द्वे स्तो बहुव्रीहिवच्च । गतगतः । विरहात्पीड्यमानस्येयमुक्तिः । बहुव्रीहिवद्भावात्सुब्लुक् । गतगता । इह पुंवद्भावः ॥ कर्मधारयवदुत्तरेषु ।८।१।११॥ इत उत्तरेषु द्विर्वचनेषु कर्मधारयवत्कार्यम् ॥ प्रयोजनं सुब्लोपपुंवद्भावान्तोदात्तत्वानि * ॥ प्रकारे गुणवचनस्य । ८॥११२॥ सादृश्ये द्योत्ये गुणवचनस्य द्वे स्तस्तच्च कर्मधारयवत् । कर्मधारयवदुत्तरेष्वित्यधिकारात् । तेन पूर्वभागस्य पुंवद्भावः । समासस्यत्यन्तोदात्तत्वं च । पटुपट्टी । पटुपटुः । पटुसदृशः । ईषत्पटुरिति यावत् । गुणोपसर्जनद्रव्यवाचिनः केवलगुणवाचिनश्चेह गृह्यन्ते । शुक्लशुक्लं रूपम् । शुक्लशुक्लः पटः ॥ आनुपूर्ये द्वे वाच्ये * ॥ मूलेमूले स्थूलः । संभ्रमण प्रवृत्तौ यथेष्टमनेकधा प्रयोगो न्यायसिद्धः * ॥ सर्पःसर्पः बुध्यख २ । सर्पः ३ बुध्यख ३॥ क्रियासमभिहारे च ॥ लुनीहिलुनीहीत्येवायं लुनाति । नित्यवीप्सयोरिति सिद्धे भृशार्थे द्वित्वार्थमिदम् । पौनःपुन्येऽपि लोटा सह समुच्चित्य द्योतकतां लब्धं वा ॥ कर्मव्यतिहारे सर्वनाम्नो द्वे वाच्ये समासवच्च बहुलम् * ॥ बहुलग्रहणादन्यपरयोर्न समासवत् । इतरशब्दस्य तु नित्यम् ॥ असमासवद्भावे पूर्वपदस्य सुपः सुर्वक्तव्यः * ॥ अन्योन्यं विप्रा नमन्ति । अन्योन्यौ । अन्योन्यान् । अन्योन्येन कृतम् । अन्योन्यस्मै दत्तमित्यादि । अन्योन्येषां पुष्करैरामृशन्त इति माघः । एवं परस्परम् । अत्र कस्कादित्वाद्विसर्गस्य सः । इतरेतरम् । इतरेतरेणेत्यादि ॥ स्त्रीनपुंसकयोरुत्तरपदस्थाया विभक्तराम्भावो वा वक्तव्यः * ॥ अन्योन्याम् । अन्योन्यम् । परस्पराम् । परस्परम् । इतरेतराम् । इतरेतरं वा । इमे ब्राह्मण्यो कुले वा