________________
१६८
सिद्धान्तकौमुद्यम्
तिश्च कृभ्वादियोगे । विप्राधीनं देयं करोति विप्रत्राकरोति । विप्रत्रासंपद्यते । पक्षे विप्रस - त्करोति । देये किम् । राजसाद्भवति राष्ट्रम् ॥ देवमनुष्यपुरुष पुरु मर्त्येभ्यो द्वितीयासप्तम्योर्बहुलम् ||५|४|५६ || एभ्यो द्वितीयान्तेभ्यः सप्तम्यन्तेभ्यश्च त्रा स्यात् । देवत्रा वन्दे रमे वा । बहुलोत्तेरन्यत्रापि । बहुत्रा जीवतो मनः ॥ अव्यक्तानुकरणाद् जवरार्धादनितौ डाच् |५|४|५७ ॥ व्यच् अवरं न्यूनं न तु ततो न्यूनम् । अनेकाजिति यावत् । तादृशमर्धं यस्य तस्माड्डाच् स्यात्कृभ्वस्तिभिर्योगे ॥ डाचि विवक्षिते द्वे बहुलम् * || नित्यमाम्रेडिते डाचीति वक्तव्यम् * || डाच्परं यदाग्रेडितं तस्मिन्परे पूर्वपरयोर्वर्णयोः पररूपं स्यात् । इति तकारपकारयोः पकारः । पटपटाकरोति । अव्यक्तानुकरणास्किम् । दृषत्करोति । द्व्यजवरार्धात्किम् । श्रत्करोति । अवरेति किम् । खरटखरटाकरोति । त्रपटत्रपटाकरोति । अनेकाच इत्येव सूत्रयितुमुचितम् । एवं हि डाचीति परसप्तम्येव द्विवे सुवचेत्यवधेयम् । अनितौ किम् । पटिति करोति ॥ कृञो द्वितीयतृतीयशम्बबी
1
कृषी |५|४|५८ ॥ द्वितीयादिभ्यो डाच् स्यात्कृञ एव योगे कर्षणेऽर्थे । बहुलोव्यक्तानुकरणादन्यस्य डाचि न द्वित्वम् । द्वितीयं तृतीयं कर्षणं करोति द्वितीयाकरोति । तृतीया करोति । शम्बशब्दः प्रतिलोमे । अनुलोमं कृष्टं क्षेत्रं पुनः प्रतिलोमं कर्षति शम्बाकरोति । बीजेन सह कर्षति बीजाकरोति ॥ संख्यायाश्च गुणान्तायाः | ५|४|५९ ॥ कृञो योगे कृषौ डाच् स्यात् । द्विगुणाकरोति क्षेत्रम् । क्षेत्रकर्मकं द्विगुणं कर्षणं करोतीत्यर्थः ॥ समयाच्च यापनायाम् ||५|४|६० || कृष विति निवृत्तम् । कृञो योगे डाच् स्यात् । समयाकरोति । कालं यापयतीत्यर्थः ॥ सपत्रनिष्पत्रादतिव्यथने |५|४|६१ ॥ सपत्राकरोति मृगम् । सपुङ्खशरप्रवेशनेन सपत्रं करोतीत्यर्थः । निष्पत्राकरोति सपुङ्खस्य शरस्याऽपरपार्श्वेन निर्गमनान्निष्पत्रं करोतीत्यर्थः । अतिव्यथने किम् । सपत्रं निष्पत्रं वा करोति भूतलम् ॥ निष्कुलान्निष्कोषणे |५|४|६२ ॥ निष्कुलाकरोति दाडिमम् । निर्गतं कुलमन्तरवयवानां समूहो यस्मादिति बहुव्रीहेर्डाच् ॥ सुखप्रियादानुलोम्ये । ५।४।६३ ॥ सुखाकरोति प्रियाकरोति गुरुम् । अनुकूलाचरणेनानन्दयतीत्यर्थः ॥ दुःखात्प्रातिलोम्ये | ५|४/६४ || दुःखाकरोति खामिनम् । पीडयतीत्यर्थः ॥ शूलापाके |५|४/६५ || शूलाकरोति मांसम् । शूलेन पचतीत्यर्थः ॥ सत्यादशपथे । ५|४|६६ ॥ सत्याकरोति भाण्डं वणिक् । क्रेतव्यमिति तथ्यं करोतीत्यर्थः । शपथे तु सत्यं करोति विप्रः ॥ मद्रात्परिवापणे | ५|४|६७ ॥ मद्र शब्दो मङ्गलार्थः । परिवापणं मुण्डनम् । मद्राकरोति । माङ्गल्यमुण्डनेन संस्करोतीत्यर्थः ॥ भद्राच्चेति वक्तव्यम् * ॥ भद्राकरोति । अर्थः प्राग्वत् । परिवापणे किम् । मद्रं करोति । भद्रं करोति ॥
॥ इति तद्धितप्रक्रिया समाप्ता ॥
सर्वस्य द्वे |८|१|१ ॥ इत्यधिकृत्य || नित्यवीप्सयोः ||१|४ || आभीक्ष्ण्ये