________________
नद्धितेषु खार्थिकाः ।
१६७ तृतीयान्ताद्वा तसिः स्यात् । अतिक्रम्य ग्रहोऽतिग्रहः । चारित्रेणातिगृह्यते । चारित्रतोऽतिगृह्यते । चारित्रेणान्यानतिक्रम्य वर्तत इत्यर्थः । अव्यथनमचलनम् । वृत्तेन न व्यथते । वृत्ततो न व्यथते । वृत्तेन न चलतीत्यर्थः । क्षेपे । वृत्तेन क्षिप्तः । वृत्ततः क्षिप्तः । वृत्तेन निन्दित इत्यर्थः । अकर्तरीति किम् । देवदत्तेन क्षिप्तः ॥ हीयमानपापयोगाच्च ।५।४। ४७॥ हीयमानपापयुक्तादकर्तरि तृतीयान्ताद्वा तसिः । वृत्तेन हीयते । वृत्तेन पापः । वृत्ततः । क्षेपस्याविवक्षायामिदम् । क्षेपे तु पूर्वेण सिद्धम् । अकर्तरि किम् । देवदत्तेन हीयते ॥ षष्ठया व्याश्रये ।।४।४८ ॥ षष्ठ्यन्ताद्वा तसिः स्यान्नानापक्षसमाश्रये । देवा अर्जुनतोऽभवन् । आदित्याः कर्णतोऽभवन् । अर्जुनस्य पक्षे इत्यर्थः । व्याश्रये किम् । वृक्षस्य शाखा ॥ रोगाचापनयने ५॥४॥४९॥ रोगवाचिनः षष्ठ्यन्ताद्वा तसिश्चिकित्सायाम् । प्रवाहिकातः कुरु । प्रतीकारमस्याः कुर्वित्यर्थः । अपनयने किम् । प्रवाहिकायाः प्रकोपनं करोति । कृभ्वस्तियोगे संपद्यकर्तरि विः ।४।५० ॥ अभूततद्भाव इति वक्तव्यम् * ॥ विकारात्मतां प्राप्नुवत्यां प्रकृतौ वर्तमानाद्विकारशब्दात्खार्थे विर्वा स्यात्करोत्यादिभियोंगे ॥ अस्य च्चौ ७४॥३२॥ अवर्णस्य ईत्स्यात् च्चौ । वेर्लोपः । च्च्यन्तत्वादव्ययत्वम् । अकृष्णः कृष्णः संपद्यते तं करोति कृष्णीकरोति । ब्रह्मीभवति । गङ्गी. स्यात् ॥ अव्ययस्य च्चावीत्वं नेति वाच्यम् * ॥ दोषाभूतमहः । दिवाभूता रात्रिः । एतच्चाव्ययीभावश्चेति सूत्रे भाष्ये उक्तम् ॥ क्यच्छ्योश्च ।६।४।१५२॥ हलः परस्यापत्ययकारस्य लोपः स्यात् क्ये च्वौ च परतः । गार्गीभवति ॥ च्वौ च ७४२६ ॥ च्वौ परे पूर्वस्य दीर्घः स्यात् । शुचीभवति । पटू स्यात् । अव्ययस्य दीर्घत्वं नेति केचित्तन्निर्मूलम् । खस्ति स्यादिति तु महाविभाषया च्वेरभावात्सिद्धम् । खस्ती स्यादित्यपि पक्षे स्यादिति । चेदस्तु । यदि नेष्यते तद्दनभिधानात् च्विरेव नोत्पद्यते इत्यस्तु ॥ रीकृतः ॥ मात्रीकरोति ॥ अरुर्मनश्चक्षुश्चेतोरहोरजसा लोपश्च ।।४।५१॥ एषां लोपः स्यात् विश्च । अरूकरोति । उन्मनीस्यात् । उच्चस्करोति । विचेतीकरोति । विरहीकरोति । विरजीकरोति ।। विभाषा साति कायें ।५।४।५२॥ च्विविषये सातिर्वा स्यात्साकल्ये ॥ सात्पदाद्योः ।।३।१११ ॥ सस्य षत्वं न स्यात् । दधिसिञ्चति । कृत्स्नं शस्त्रममिः संपद्यतेऽग्निसाद्भवति । अग्नीभवति । महाविभाषया वाक्यमपि । कार्ये किम् । एकदेशेन शुक्लीभवति पटः ॥ अभिविधौ संपदा च ५।४।५३ ॥ संपदा कृभ्वस्तिभिश्च योगे सातिर्वा स्याद्व्याप्तौ । पक्षे कृभ्वस्तियोगे च्विः । संपदा तु वाक्यमेव । अग्मिसात्संपद्यते अमिसाद्भवति शस्त्रम् । अमीभवति । जलसात्संपद्यते जलीभवति लवणम् । एकस्या व्यक्तेः सर्वांवयवावच्छेदेनान्यथाभावः काख्यम् । बहूनां व्यक्तीनां किंचिदवयवावच्छेदेनान्यथात्वं त्वभिविधिः ।। तदधीनवचने ।।४।५४ ॥ सातिः स्यात्कृभ्वस्तिभिः संपदा च योगे । राजसात्करोति । राजसात्संपद्यते । राजाधीनमित्यर्थः ॥ देये त्रा च ।।४।५५॥ तदधीने देये वा स्यात्सा