________________
१६६
सिद्धान्तकौमुद्याम् कन् ।।४।२९॥ याव एव यावकः । माणिकः ॥ लोहितान्मणी ॥४॥३०॥ लोहित एव मणिलोहितकः ॥ वर्णे चानिये ।।४।३१ ॥ लोहितकः कोपेन ॥ लोहितालिङ्गबाधनं वा * ॥ लोहितिका लोहिनिका कोपेन ॥ रक्ते ।।४।३२ ॥ लाक्षादिना रक्ते यो लोहितशब्दस्तस्मात्कन्स्यात् ॥ लिङ्गबाधनं वा * ॥ इत्येव । लोहितिका लोहिनिका शाटी ॥ कालाच ५।४।३३ ॥ वर्णे चानित्ये रक्ते इति द्वयमनुवर्तते । कालकं मुखं वैलक्ष्येण । कालकः पटः । कालिका शाटी ॥ विनयादिभ्यष्ठक् ।।४।३४॥ विनय एव वैनयिकः । सामयिकः ॥ उपायाद् हखत्वं च ॥ औपयिकः ॥ वाचो व्याहृतार्थायाम् ।।४।३५ ॥ संदिष्टार्थायां वाचि विद्यमानाद्वाक्शब्दात्वार्थे ठक् स्यात् । संदेशवाग् वाचिकं स्यात् । तद्यक्तात्कर्मणोऽण् ।।४।३६॥ कमैव कार्मणम् । वाचिकं श्रुत्वा क्रियमाणं कर्मेत्यर्थः ॥ ओषधेरजातौ ।।४।३७ ॥ खार्थेऽण् । औषधं पिबति । अजातौ किम् । ओषधयः क्षेत्रे रूढाः ॥ प्रज्ञादिभ्यश्च ।५।४।३८॥ प्रज्ञ एव प्राज्ञः । प्राज्ञी स्त्री । दैवतः । बान्धवः ॥ मृदस्तिकन् ।।४।३९ ॥ मृदेव मृत्तिका ॥ सरलौ प्रशंसायाम् ।।४॥४०॥ रूपपोऽपवादः । प्रशस्ता मृत् मृत्सा । मृत्ला । उत्तरसूत्रेऽन्यतर- . स्यांग्रहणान्नित्योऽयम् ॥ बह्वल्पार्थाच्छस्कारकादन्यतरस्याम् ।।४।४२ ॥ बहूनि ददाति बहुशः । अल्पानि अल्पशः ॥ बह्वल्पार्थान्मङ्गलामङ्गलवचनम् * ॥ नेह बहूनि ददात्यनिष्टेषु । अल्पं ददात्याभ्युदयिकेषु ॥ संख्यैकवचनाच वीप्सायाम् ।।४। ४३॥ द्वौ द्वौ ददाति द्विशः । माषं मापं माषशः । प्रस्थशः । परिमाणशब्दा वृत्तावेकार्था एव । संख्यैकवचनातिकम् । घटं घटं ददाति । वीप्सायां किम् । द्वौ ददाति । कारकादि. त्येव द्वयोर्द्वयोः खामी ॥ प्रतियोगे पञ्चम्यास्तसिः ।।४।४४ ॥ प्रतिना कर्मप्रवचनीयेन योगे या पञ्चमी विहिता तदन्तात्तसिः स्यात् । प्रद्युम्नः कृष्णतः प्रति ॥ आद्यादिभ्य उपसंख्यानम् * ॥ आदौ आदितः । मध्यतः । पृष्ठतः । पार्श्वतः । आकृतिगणोयम् । खरेण खरतः । वर्णतः ॥ अपादाने चाऽहीयरुहोः ।।४।४५ ॥ अपादाने या पञ्चमी तदन्तात्तसिः स्यात् । ग्रामादागच्छति ग्रामतः । अहीयरुहोः किम् । खर्गाद्धीयते । पर्वतादवरोहति ॥ अतिग्रहाऽव्यथनक्षेपेष्वकर्तरि तृतीयायाः ॥४॥४६॥ अकर्तरि
पुत्र कृत्रिमे, स्नात वेदसमाप्ती, शून्यरिक्ते, दान कुत्सिते, तनु सत्रे, ईयसश्च, ज्ञात, अज्ञात, कुमारीकीडन. कानि च । इति यावादिः॥
१ विनय, समय, उपायो ह्रखत्वं च, संप्रति, संगति, कथंचित् , अकस्माद् , समाचार, उपचार, समयाचार, व्यवहार, संप्रदान, समुत्कर्ष, समूह, विशेष, अत्यय । इति विनयादिः ॥.२ प्रज्ञ, वणिज, उष्णिज् , उशिज्, प्रत्यक्ष, विद्वस्, विद्वन् , षोडन्, विद्या, मनस्, श्रोत्र शरीरे, जुत्, कृष्ण मृगे, चिकीर्षत , चोर, शत्रु, योध, चक्षुस्, वसु, एनस्, मरुत्, कुच्च, सखत् , दशाह, वयस् , व्याकृत, असुर, रक्षस् , पिशाच, अशनि, कार्षापण, देवता, बन्धु । इति प्रज्ञादिः॥ ३ आदि, मध्य, अन्त, पृष्ठ, पावै । इत्याद्यादिराकृतिगणः॥