________________
सिद्धान्तकौमुद्याम् षष्ठाः ॥ आहुस्त्रिगर्तषष्ठांस्तु कौण्डोपरथदाण्डकी । क्रौष्टुकिर्जालमानिश्च ब्रह्मगुप्तोऽथ जालकिः ॥ १॥ दामनीयः । दामनीयौ । दामनयः । औलपि, औलपीयः । त्रिगर्तषष्ठाः। त्रैगीयः । कौण्डोपरथीयः । दाण्डकीयः ॥ पोदियौधेयादिभ्योऽणौ ॥३॥ ११७॥ आयुधजीविसङ्घवाचिभ्य एभ्यः क्रमादणौ स्तः खार्थे । पार्शवः । पार्शवौ । पर्शवः । यौधेयः । यौधेयौ । यौधेयाः ॥ अभिजिद्विदभृच्छालावच्छिखावच्छमीवदूर्णावच्छुमदणो यञ् ।।३।११८ ॥ अभिजिदादिभ्योऽणन्तेभ्यः खार्थे यञ् स्यात् । अभिजितोऽपत्यमाभिजित्यः । वैदभृत्यः । शालावत्यः । शैखावत्यः । शामीवत्यः । और्णावत्यः । श्रीमत्यः ॥ ज्यादयस्तद्राजाः ॥५॥३॥११९ ॥ पूगाङ्ग्य इत्यारभ्य उक्ता एत. त्संज्ञाः स्युः । तेनास्त्रियां बहुषु लुक् । लोहितध्वजाः । कपोतपाकाः । कौञ्जायनाः । ब्रानायना इत्यादि ॥ पादशतस्य संख्यादेवीप्सायां वुन् लोपश्च ।।४।१॥ लोपवचनमनैमित्तिकत्वार्थम् । अतो न स्थानिवत् । पादः पत् । तद्धितार्थ इति समासे कृते प्रत्ययः । वुन्नन्तं स्त्रियामेव । द्वौ द्वौ पादौ ददाति द्विपदिकाम् । द्विशतिकाम् ॥ पादशतग्रहणमनर्थकमन्यत्रापि दर्शनात् * ॥ द्विमोदकिकाम् ॥ दण्डव्यवसर्गयोश्च ।।४।२॥ वुन् स्यात् । अवीप्सार्थमिदम् । द्वौ पादौ दण्डितः द्विपदिकाम् । द्विशतिकाम् । व्यवसृजति । ददातीत्यर्थः ॥ स्थूलादिभ्यः प्रकारवचने कन् ।।४।३ ॥ जातीयरोऽपवादः । स्थूलकः । अणुकः ॥ चञ्चट्टहतोरुपसंख्यानम् * ॥ चञ्चत्कः । बृहत्कः ॥ सुराया अहौ * ॥ सुरावर्णोऽहिः सुरकः ॥ अनत्यन्तगतौ क्तात् ।।४।४॥ छिन्नकम् । भिन्नकम् । अभिनकम् ॥ न सामिवचने ।५।४।५॥ सामिपर्याये उपपदे तान्तान्न कन् । सामिकृतम् । अर्धकृतम् । अनत्यन्तगतेरिह प्रकृत्यैवाभिधानात्पूर्वेण कन् न प्राप्तः । इदमेव निषेधसूत्रमत्यन्तखार्थिकमपि कनं ज्ञापयति । बहुतरकम् ॥ बृहत्या आच्छादने ।।४।६॥ कन् स्यात् । द्वौ प्रावारोत्तरासङ्गौ समौ बृहतिका तथा ॥ आच्छादने किम् । बृहती छन्दः॥ अषडक्षाशितझ्वलङ्कलिंपुरुषाध्युत्तरपदात्खः ।।४७॥ खार्थे । अषडक्षीणो मन्त्रः । द्वाभ्यामेव कृत इत्यर्थः । आशिता गावोऽस्मिन्नित्याशितङ्गवीनमरण्यम् । निपातनात्पूर्वस्य मुम् । अलं कर्मणे अलंकर्मीणः । अलंपुरुषीणः । ईश्वराधीनः । नित्योऽयं खः । उत्तरसूत्रे विभाषाग्रहणात् । अन्येऽपि केचित्वार्थिकाः प्रत्यया नित्यमिष्यन्ते । तमबादयः प्राक्कनः । ज्यादयः प्राग्वुनः । आमादयः प्राङ्मयटः । बृहतीजात्यन्ताः समासान्ताश्चेति ॥ विभाषाश्चेरदिस्त्रियाम् ।।४।८॥ अदिक्स्त्रीवृत्तेरञ्चत्यन्तात्प्रातिपदिकारखः स्याद्वा खार्थे ।
१ पशु, असुर, रक्षस् , बाह्रीक, वयस्, वसु, मरुत् , सत्वत् , दशाई, पिशाच, अशनि, कार्षापण । इति पर्खादिः॥ २ यौधेय, कौशेय, शोकेय, शौभ्रेय, धोतेय, धार्तेय, ज्याबाणेय, त्रिगर्त, भरत, उशीनर । इति यौधेयादिः॥ ३ स्थूल, अणु, माष, इषु, कृष्ण, तिलेषु, यव, व्रीहिषु, इक्षु, तिल, पाद्य, कालावदात सुरायाम् , गोमूत्र आच्छादने, सुरा अहौ जीर्णशालीषु, पत्रमूल, समस्तो व्यस्तश्च कुमारीपुत्र, कुमारीश्वशुर, मणि । इति स्थूलादिः॥