________________
तद्धितेषु खार्थिकाः ।
१६३ तिकृतिष्विदम् । अपण्ये किम् । हस्तिकान्विक्रीणीते ॥ देवपथादिभ्यश्च ।।३३१००॥ कनो लुप्स्यात् । देवपथः । हंसपथः । आकृतिगणोऽयम् ॥ वस्तेढे ।५।३।१०१॥ इवेत्यनुवर्तत एव । प्रतिकृताविति निवृत्तम् । वस्तिरिव वास्तेयम् । वास्तेयी ॥ शिलाया ढः ।।३।१०२॥ शिलाया इति योगविभागाड्डअपीत्येके । शिलेव शिलेयम् । शैलेयम् ॥ शाखादिभ्यो यः ।।३।१०३ ॥ शाखेव शाख्यः । मुख्यः । जघनमिव जघन्यः । अग्र्यः । शरण्यः ॥ द्रव्यं च भव्ये ।।३।१०४ ॥ द्रव्यम् , अयं ब्राह्मणः ॥ कुशा. ग्राच्छः ।५।३।१०५॥ कुशाग्रमिव कुशाग्रीया बुद्धिः ॥ समासाच तद्विषयात् । ५।३।१०६॥ इवार्थविषयात्समासाच्छः स्यात् । काकतालीयो देवदत्तस्य वधः । इह काकतालसमागमसदृशश्चौरसमागम इति समासार्थः । तत्प्रयुक्तः काकमरणसदृशस्तु प्रत्ययार्थः । अजाकृपाणीयः । अतर्कितोपनत इति फलितोऽर्थः ॥ शर्करादिभ्योऽण् ।५।३।१०७ ॥ शर्करेव शार्करम् ॥ अङ्गुल्यादिभ्यष्ठक् ।।३।१०८॥ अङ्गुलीव आङ्गुलिकः । भरुजेव भारुजिकः ॥ एकशालायाष्टजन्यतरस्याम् ।।३।१०९ ॥ एकशालाशब्दादिवार्थे ठज्वा । पक्षे ठक् । एकशालेव एकशालिकः । ऐकशालिकः ॥ कर्कलोहितादीका ।। ३।११०॥ कर्कः शुक्लोऽश्वः स इव कार्कीकः । लौहितीकः स्फटिकः ॥ पूगायोऽ. ग्रामणीपूर्वात् ।५।३।११२॥ इवार्थो निवृत्तः । नानाजातीया अनियतवृत्तयोऽर्थकामप्रधानाः सङ्घाः पूगास्तद्वाचकात्स्वार्थे ज्यः स्यात् । लौहितध्वज्यः ॥ व्रातच्फओरस्त्रियाम् । व्रातः । कापोतपाक्यः । फञ् । कौञ्जायन्यः । ब्राध्नायन्यः ॥ आयुधजीविसङ्घायड्डाहीकेष्वब्राह्मणराजन्यात् ।।३।११४ ॥ वाहीकेषु य आयुधजीविसङ्घस्तद्वाचिनः खार्थे ज्यट् । क्षौद्रक्यः । मालव्यः । टित्त्वान्ङीप् । क्षौद्रकी । आयुधेति किम् । मल्लाः । सङ्घति किम् । सम्राट् । वाहीकेषु किम् । शबराः । अब्राह्मणेति किम् । गोपालकाः । शालङ्कायनाः । ब्राह्मणे तद्विशेषग्रहणम् । राजन्ये खरूपग्रहणम् ॥ वृकाट्टेण्यण् ।५।३।११५॥ आयुधजीविसङ्घवाचिभ्यः खार्थे । वार्केण्यः । आयुधेति किम् । जातिशब्दान्मा भूत् ॥ दार्मन्यादित्रिगर्तषष्ठाच्छः ।५।३।११६ ॥ दामन्यादिभ्यस्त्रिगर्तषष्ठेभ्यश्चायुधजीविसङ्घवाचिभ्यः खार्थे छः स्यात् । त्रिगर्तः षष्ठो वर्गो येषां ते त्रिगर्त
१ देवपथ, हंसपथः, वारिपथ, रथपथ, स्थलपथ, करिपथ, अजपथ, राजपथ, शतपथ, शङ्कुपथ, सिन्धुपथ, सिद्धगति, उष्ट्रग्रीव, वामरज्जु, हस्त, इन्द्र, दण्ड, पुष्प, मत्स्य । इति देवपथादिराकृतिगणः॥ २ शाखा, मुख, शुङ्ग, जघन, मेघ, अभ्र, चरण, स्कन्ध, स्कन्द, उरस् , शिरस, अग्र, शरण, । इति शाखादिः॥ ३ अत्र यदित्यपपाठः । उगवादिभ्य इति सूत्रभाष्यविरोधात ॥ ४ शर्करा, कपालिका, कपाटिका, कनि
का, पुण्डरीक, शतपत्र, गोलोमन् , लोमन् , गोपुच्छ, नराची, नकुल, सिकता । इति शर्करादिः॥ ५ अङ्गुली, भरुज, बभ्रु, वल्गु, मण्डर, मण्डल, शष्कुली, हरि, कपि, मुनि, रुह, खल, उदश्वित् , गोणी, उरस् , कुलिश । इत्यङ्गल्यादिः॥ ६ दामनि, औलपि, बैजवापि, औदकि, औदङ्कि, आच्युतन्ति, आच्युतदन्ति, शाकुन्तकि, आकिदन्ति, औडवि, काकदन्तकि, शात्रुन्तपि, सार्वसेनि, बिन्दु, बैन्दवि, तुलम, मौजायनि, काकन्दि, सावित्रीपुत्र । इति दामन्यादिः॥