________________
सिद्धान्तकौमुद्याम् नाम्न: कन् ।५।३२८१॥ मनुष्यनाम्न इत्येव । जातिशब्दो यो मनुष्यनामधेयस्तस्मात्कन्स्यादनुकम्पायां नीतौ च । सिंहकः । शरभकः । रासभकः ॥ द्वितीयं संध्यक्षरं चेत्तदादेलोपो वक्तव्यः । अनुकम्पितः कहोडः कहिकः॥ एकाक्षरपूर्वपदानामुत्तरपदलोपो वक्तव्यः * ॥ वागाशीर्दत्तः वाचिकः । कथं षडङ्गुलिदत्तः पडिक इति ॥ षषष्ठाजादिवचनासिद्धम् * ॥ शेवलसुपरिविशालवरुणार्यमादीनां तृतीयात् ।।३।८४ ॥ एषां मनुष्यनाम्नां ठाजादौ परे तृतीयादच ऊर्व लोपः स्यात् । पूर्वस्यापवादः । अनुकम्पितः शेवलदत्तः । शेवलिकः । शेवलियः । शेवलिलः । सुपरिकः । विशालिकः । वरुणिकः । अर्यमिकः ॥ अजिनान्तस्योत्तरपदलोपश्च ।५।३२८२ ॥ अजिनान्तान्मनुष्यनाम्नोऽनुकम्पायां कन् तस्य चोत्तरपदलोपः । अनुकम्पितो व्याघ्राजिनो व्याघ्रकः । सिंहकः ॥ अल्पे ।।३।८५॥ अल्पं तैलं तैलकम् ॥ इखे ।५।३३८६॥ हूखो वृक्षो वृक्षकः ॥ संज्ञायां कन् ।५।३।८७॥ हखहेतुका या संज्ञा तस्यां गम्यमानायां कन् । पूर्वस्यापवादः । वंशकः । वेणुकः ॥ कुटीशमीशुण्डाभ्यो रः ।।३।८८॥ हस्खा कुटी कुटीरः । शमीरः । शुण्डारः ॥ कुत्वा हुपच् ।५।३।८९ ॥ ह्रखा कुतूः कुतुपः ॥ कुतूः कृतेः स्नेहपात्रं ह्रखा सा कुतुपः पुमान् ॥ कासूगोणीभ्यां ष्टरच् ।५।३।९० ॥ आयुधविशेषः कासूः । हूखा सा कासूतरी । गोणीतरी ॥ वत्सोक्षाश्वर्षभेभ्यश्च तनुत्वे ।।३।९१॥ वत्सतरः । द्वितीयं वयः प्राप्तः । उक्षतरः । अश्वतरः । ऋषभतरः । प्रवृत्तिनिमित्ततनुत्व एवायम् ॥ किंयत्तदो निर्धारणे द्वयोरेकस्य डतरच ।।३।९२ ॥ अनयोः कतरो वैष्णवः । यतरः । ततरः । महाविभाषया । कः । यः । सः ॥ वा बहूनां जातिपरिप्रश्ने डतमच ॥५॥३॥९३ ॥ बहूनां मध्ये एकस्य निर्धारणे डतमच् वा स्यात् । जातिपरिप्रश्न इति प्रत्याख्यातमाकरे । कतमो भवतां कठः । यतमः । ततमः । वाग्रहणमकजर्थम् । यकः । सकः । महाविभाषया । यः । सः ॥ किमोऽस्मिन्विषये डतरजपि । कतरः ॥ एकाच प्राचाम् ।।३।९४ ॥ डतरच् डतमच्च स्यात् । अनयोरेकतरो मैत्रः । एषामेकतमः ॥ अवक्षेपणे कन् ।५।३।९५ ॥ व्याकरणकेन गर्वितः व्याकरणकः । येनेतरः कुत्स्यते तदिहोदाहरणम् । खतः कुत्सितं तु कुत्सित इत्यस्य ॥
॥प्रागिवीयानां पूर्णोऽवधिः॥ इवे प्रतिकृतौ ।५।३।९६ ॥ कन् स्यात् । अश्व इव प्रतिकृतिः अश्वकः । प्रतिकृतौ किम् । गौरिव गवयः ॥ संज्ञायां च ।५।३।९७ ॥ इवार्थे कन् स्यात्समुदायेन चेत्संज्ञा गम्यते । अप्रतिकृत्यर्थमारम्भः । अश्वसदृशस्य संज्ञा । अश्वकः । उष्ट्रकः ॥ लुम्मनुष्ये । ५।३।९८ ॥ संज्ञायां विहितस्य कनो लुप्स्यान्मनुष्ये वाच्ये । चञ्चा तृणमयः पुमान् । चञ्चेव मनुष्यश्चञ्चा। वर्धिका ॥ जीविकार्थे चापण्ये ।।३।९९ ॥ जीविकार्थं यदविक्रीयमाणं तस्मिन्वाच्ये कनो लुप्स्यात् । वासुदेवः । शिवः । स्कन्दः । देवलकानां जीविकार्थासु देवप्र