________________
तद्धितेषु स्वार्थिकाः ।
१६१ पचतिरूपम् ॥ ईषदसमाप्तौ कल्पब्देश्यदेशीयरः।।३।६७ ॥ ईषदूनो विद्वान् विद्वत्कल्पः । यशस्कल्पम् । यजुःकल्पम् । विद्वद्देश्यः । विद्वद्देशीयः । पचतिकल्पम् ।। विभाषा सुपो बहुच पुरस्तात्तु ।।३।६८ ॥ ईषदसमाप्तिविशिष्टेऽर्थे सुबन्ताबहुज्वा स्यात्स च प्रागेव न तु परतः । ईषदूनः पटुर्बहुपटुः । पटुकल्पः । सुपः किम् । यजतिकल्पम् ॥ प्रकारवचने जातीयर ।।३।६९ ॥ प्रकारवति चायम् । थाल् तु प्रकारमात्रे । पटुप्रकारः पटुजातीयः ॥ प्रागिवात्कः ।।३।७० ॥ इवे प्रतिकृतावित्यतः प्राक् काधिकारः ॥ अव्ययसर्वनाम्नामक्च् प्राक् टे।५।३।७१ ॥ तिङश्चेत्यनुवतते ॥ कस्य च दः ।५।३।७२ ॥ कान्ताव्ययस्य दकारोऽन्तादेशः स्यादकच्च ॥ अज्ञाते ।।७३ ॥ कस्यायमश्वोऽश्वकः । उच्चकैः । नीचकैः । सर्वके । विश्वके ॥ ओकारसकारभकारादौ सुपि सर्वनाम्नष्टेः प्रागकच् * ॥ युवकयोः । आवकयोः । युष्मकासु । अस्मकासु । युष्मकाभिः । अस्मकाभिः । ओकारेत्यादि किम् । त्वयका । मयका । अकच्प्रकरणे तूष्णीमः काम्वक्तव्यः * ॥ मित्त्वादन्त्यादचः परः । तूष्णीकामास्ते ॥ शीले को मलोपश्च * ॥ तूष्णींशीलस्तूष्णीकः । पचतकि । जल्पतकि । धकित् । हिरकुत् ॥ कुत्सिते ।।३।७४॥ कुत्सितोऽश्वोऽश्वकः ॥ संज्ञायां कन् ।५।३।७५॥ कुत्सिते कन् स्यात्तदन्तेन चेत्संज्ञा गम्यते । शूद्रकः । राधकः । खरार्थे वचनम् ॥ अनुकम्पायाम् ।५।३२७६ ॥ पुत्रकः । अनुकम्पितः पुत्र इत्यर्थः ॥ नीतौ च तयुक्तात् ।।३।७७ ॥ सामदानादिरुपायो नीतिस्तस्यां गम्यमानायामनुकम्पायुक्तात्कप्रत्ययः स्यात् । हन्त ते धानकाः । गुडकाः । एहकि । अद्धकि । पूर्वेणानुकम्प्यमानात्पत्ययः । अनेन तु परम्परासंबन्धेऽपीति विशेषः ॥ पहचो मनुष्यनाम्नष्ठज्वा ।५।३।७८ ॥ पूर्वसूत्रद्वयविषये ॥ घनिलचौ च ५।३। ७९॥ तत्रैव ॥ ठाजादावूवं द्वितीयादचः ।।३।८३ ॥ अस्मिन्प्रकरणे यष्ठोऽजादिप्रत्ययश्च तस्मिन्प्रत्यये परे प्रकृतार्द्वतीयादच ऊर्ध्वं सर्वं लुप्यते । अनुकम्पितो देवदत्तो देविकः । देवियः । देविलः । देवदत्तकः । अनुकम्पितो वायुदत्तो वायुदत्तकः । ठग्रहणमुको द्वितीयत्वे कविधानार्थम् । वायुकः । पितृकः ॥ चतुर्थादच ऊर्ध्वस्य लोपो वाच्यः * ॥ अनुकम्पितो बृहस्पतिदत्तो बृहस्पतिकः ॥ अनजादौ च विभाषा लोपो वक्तव्यः * ॥ देवदतकः । देवकः ॥ लोपः पूर्वपदस्य च * ॥ दत्तिकः । दत्तियः । दत्तिलः । दत्तकः ॥ विनापि प्रत्ययं पूर्वोत्तरपदयोर्वा लोपो वाच्यः * ॥ देवदत्तः । दत्तः । देवः ॥ सत्यभामा । भामा । सत्या ॥ उवर्णाल्ल इलस्य च * ॥ भानुदत्तः । भानुलः ॥ ऋवर्णादपि * ॥ सवित्रियः । सवितृलः ॥ चतुर्थादनजादौ च लोपः पूर्वपदस्य च । अप्रत्यये तथैवेष्ट उवर्णाल्ल इलस्य च ॥ १॥ प्राचामुपादेरडज्युचौ च ।५।३।८० ॥ उपशब्दपूर्वात्प्रातिपदिकात्पूर्वविषये अडच् वुच् एतौ स्तः । चाद्यथाप्राप्तम् । प्राचांग्रहणं पूजार्थम् । अनुकम्पित उपेन्द्रदत्तः उपडः । उपकः । उपिकः । उपियः । उपिलः । उपेन्द्रदत्तकः । षड् रूपाणि ॥ जाति
२१