________________
HHATTERNMHE
१६०
सिद्धान्तकौमुद्याम् कृष्णस्य भूतपूर्वो गौः कृष्णरूप्यः । कृष्णचरः । तसिलादिषु रूप्यस्यापरिगणितत्वान्न पुंवत् । शुभ्राया भूतपूर्वः शुभ्रारूप्यः ॥ अतिशायने तमबिष्ठनौ ५॥३॥५५॥ अतिशयविशिष्टार्थवृत्तेः खार्थे एतौ स्तः । अयमेषामतिशयेनाढ्यः आढ्यतमः । लघुतमो लघिष्ठः ॥ तिङश्व ।।३।२६ ॥ तिङन्तादतिशये द्योत्ये तमप् स्यात् ॥ तरप्तमपौ घः ।।१। २२ ॥ एतौ घसंज्ञौ स्तः ॥ किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षे ।।४।११॥ किम एदन्तात्तिङोऽव्ययाच यो घस्तदन्तादामुः स्यान्न तु द्रव्यप्रकर्षे । किंतमाम् । प्राढेतमाम् । पचतितमाम् । उच्चैस्तमाम् । द्रव्यप्रकर्षे तु उच्चैस्तमस्तरुः ॥ द्विवचनविमज्योपपदेतरबीयसुनौ ।५।२७॥ द्वयोरेकस्यातिशये विभक्तव्ये चोपपदे सुप्तिङन्तादेतौ स्तः । पूर्वयोरपवादः । अयमनयोरतिशयेन लघुर्लघुतरः। लघीयान् । उदीच्याः प्राच्येभ्यः पटुतराः । पटीयांसः ॥ अजादी गुणवचनादेव ।५।३।५८ ॥ इष्ठन्नीयसुनौ गुणवचनादेव स्तः । नेह। पाचकतरः । पाचकतमः ॥ तुश्छन्दसि ।।३।५९ ॥ तृन्तृजन्तादिष्ठमीयसुनौ स्तः ॥ तुरिष्ठेमेयःसु ।।४।१५४॥ तृशब्दस्य लोपः स्यादिष्ठेमेयःसु परेषु । अतिशयेन कर्ता करिष्ठः । दोहीयसी धेनुः ॥ प्रशस्यस्य श्रः ।।३।६० ॥ अस्य श्रादेशः स्यादजाद्योः ॥ प्रकृत्यैकाच् ।६।४।१६३ ॥ इष्ठादिष्वेकाच् प्रकृत्या स्यात् । श्रेष्ठः । श्रेयान् ॥ ज्य च ।।३।६१॥ प्रशस्यस्य ज्यादेशः स्यादिष्ठेयसोः । ज्येष्ठः ॥ ज्यादादीयसः ।६।४।१६०॥ आदेः परस्य ॥ ज्यायान् ॥ वृद्धस्य च ।।३।६२॥ ज्यादेशः स्यादजाद्योः । ज्येष्ठः । ज्यायान् ॥ अन्तिकबाढयोर्नेदसाधौ ।।३।६३॥ अजाद्योः । नेदिष्ठः । नेदीयान् । साधिष्ठः। साधीयान् ॥ स्थूलदूरयुवहखक्षिप्रक्षुद्राणां यणादिपरं पूर्वस्य च गुणः ।।४।९५६ ॥ एषां यणादिपरं लुप्यते पूर्वस्य च गुण इष्ठादिषु । स्थविष्ठः । दविष्ठः । यविष्ठः । हसिष्ठः । क्षेपिष्ठः । क्षोदिष्ठः । एवमीयस् । हस्खक्षिप्रक्षुद्राणां पृथ्वादित्वात् हसिमा । क्षेपिमा । क्षोदिमा ॥ प्रियस्थिरस्फिरोरुबहुलगुरुवृद्धतृप्रदीर्घवृन्दारकाणां प्रस्थस्फवबहिगर्वर्षित्रपदाधिवृन्दाः।६।४।१५७ ॥ प्रियादीनां क्रमात्प्रादयः स्युरिष्ठादिषु । प्रेष्ठः। स्थेष्ठः । स्फेष्ठः। वरिष्ठः । बंहिष्ठः । गरिष्ठः । वर्षिष्ठः । त्रपिष्ठः । द्राषिष्ठः । वृन्दिष्ठः । एवमीयसुन् । प्रेयान् । प्रियोरुबहुलगुरुदीर्घाणां पृथ्वादित्वात्प्रेमेत्यादि ॥ बहोर्लोपो भू च बहोः ।।४।१५८॥ बहोः परयोरिमेयसोर्लोपः स्याङ्कहोश्च भूरादेशः । भूमा । भूयान् ॥ इष्ठस्य यिट् च ।६।४।१५९ ॥ बहोः परस्य इष्ठस्य लोपः स्यात् यिडागमश्च । भूयिष्ठः ॥ युवाल्पयोः कनन्यतरस्याम् ।। ३६४॥ एतयोः कनादेशो वा स्यादिष्ठेयसोः। कनिष्ठः । कनीयान् । पक्षे यविष्ठः । अल्पिष्ठ इत्यादि ॥ विन्मतोलक ।५।३॥६५॥ विनो मतुपश्च लुक् स्यादिष्ठेयसोः । अतिशयेन स्रग्वी स्रजिष्ठः । स्रजीयान् । अतिशयेन त्वग्वान् त्वचिष्ठः । त्वचीयान् ॥ प्रशंसायां रूपप ।५॥३॥६६॥ सुबन्तात्तिङन्ताच्च । प्रशस्तः पटुः पटुरूपः । प्रशस्तं पचति