________________
१५८
सिद्धान्तकौमुद्याम्
जग्मथुः ॥ एतदस्त्रतसोस्त्रतसौ चानुदात्तौ |२| ४ | ३ ३ || अन्वादेशविषये एतदोऽश् स्यात्स चानुदात्तस्त्रतसोः परतः तौ चानुदात्तौ स्तः । एतस्मिन् ग्रामे सुखं वसामः । अथोत्रा - धीमहे। अतो न गन्तास्मः ॥ इतराभ्योऽपि दृश्यन्ते | ५ | ३ | १४ || पञ्चमीसप्तमीतरविभक्त्यन्तादपि तसिलादयो दृश्यन्ते ॥ दृशिग्रहणाद्भवदादियोग एव * ॥ स भवान् । ततो भवान् । तत्र भवान् । तं भवन्तम् । ततो भवन्तम् । तत्र भवन्तम् । एवं दीर्घायुः । देवा - नांप्रियः । आयुष्मान् ॥ सर्वैकान्यकिंयत्तदः काले दा | २|३|१५ ॥ सप्तम्यन्तेभ्यः कालाभ्यः खार्थे दा स्यात् । सर्वस्मिन्काले सदा । सर्वदा । एकदा । अन्यदा । कदा | यदा । तदा । काले किम् । सर्वत्र देशे ॥ इदमोहि ||३|१६ || सप्तम्यन्तात्काले इत्येव । हस्यापवादः । अस्मिन्काले तर्हि । काले किम् । इह देशे ॥ अधुना | ५|३| १७ ॥ इदमः सप्तम्यन्तात्कालवाचिनः खार्थेऽधुनाप्रत्ययः स्यात् । इशू । यस्येति लोपः । अधुना ॥ दानीं च |५|३|१८ ॥ इदानीम् ॥ तदो दा च |५|३|१९ ॥ तदा । तदानीम् । तदो दावचनमनर्थकं विहितत्वात् || अनद्यतनेर्हिलन्यतरस्याम् ||३|२१ ॥ कर्हि । कदा | यहि । यदा । तर्हि । तदा । एतस्मिन्काले तर्हि ॥ सद्यः परुत्परायैपरेद्यव्यद्यपूर्वेद्युरन्येद्युरन्यतरे द्युरितरेद्युरपरेद्युरधरेद्युरुभयेद्युरुत्तरेद्युः ।५।३।२२ ॥ एते निपात्यन्ते ॥ समानस्य सभावो द्यस् चाहनि * ॥ समानेऽहनि सद्यः ॥ पूर्वपूर्वतरयोः पर उदारी च प्रत्ययौ वत्सरे * ॥ पूर्वस्मिन्वत्सरे परुत् । पूर्वतरे वत्सरे परारि ॥ इदम इश् समसण् प्रत्ययश्च संवत्सरे * || अस्मिन्संवत्सरे ऐषमः ॥ परस्मादेद्यव्यहनि * || परस्मिन्नहनि परेद्यवि ॥ इदमोऽश् द्यश्च * ॥ अस्मिन्नहनि अद्य ॥ पूर्वादिभ्योऽष्टभ्योऽहन्येद्युस् * ॥ पूर्वस्मिन्नहनि पूर्वेद्युः । अन्यस्मिन्नहनि अन्येद्युः । उभयोरोरुभयेद्युः ॥ द्युश्चोभयाद्वक्तव्यः * ॥ उभयद्युः ॥ प्रकारवचने थाल |५|३|२३ ॥ प्रकारवृत्तिभ्यः किमादिभ्यस्थाल स्यात्स्वार्थे । तेन प्रकारेण तथा । यथा ॥ इदमस्थमुः | ५|३|२४ || थालोऽपवादः ॥ एतदोऽपि वाच्यः * ॥ अनेन एतेन वा प्रकारेण इत्थम् ॥ किमच |५|३|२५ || केन प्रकारेण कथम् ॥
षमः
॥ प्राग्दिशीयानां विभक्तिसंज्ञानां पूर्णोऽवधिः ॥
दिक्शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यो दिग्देशकालेष्वस्तातिः | ५|३| २७ ॥ सप्तम्याद्यन्तेभ्यो दिशिरूढेभ्यो दिग्देशकालवृत्तिभ्यः स्वार्थेऽस्तातिप्रत्ययः स्यात् ॥ पूर्वाधरावराणामसि पुरधवश्चैषाम् ||३|३९ || एभ्योऽस्तात्यर्थेऽसिप्रत्ययः स्यात्तद्योगे चैषां क्रमात्पुर्, अध्, अव्, इत्यादेशाः स्युः ॥ अस्ताति च |५|३|४० ॥ अस्तातौ परे पूर्वादीनां पुरादयः स्युः । पूर्वस्यां पूर्वस्याः पूर्वा वा दिक् । पुरः । पुरस्तात् । अधः । अधस्तात् । अवः । अवस्तात् ॥ विभाषावरस्य |५|३|४१ ॥ अवरस्यास्तातौ परेऽव् स्याद्वा । अवस्तात् । अवरस्तात् । एवं देशे काले च । दिशि रूढेभ्यः किम् । ऐन्द्र्यां वसति । सप्तम्या