________________
तद्धितेषु विभक्तिसंज्ञकाः
१५७
1
हिते * ॥ अर्थी । संनिहिते तु अर्थवान् ॥ तदन्ताच्च * ॥ धान्यार्थी । हिरण्यार्थी | बेलादिभ्यो मतुवन्यतरस्याम् |५|२|१३६ ॥ बलवान् । बली । उत्साहवान् । उत्साही ॥ संज्ञायां मन्माभ्याम् । २।२।१३७ ॥ मन्नन्तान्मान्ताच्चेनिर्मत्वर्थे । प्रथिमिनी । दामिनी । होमिनी । सोमिनी । संज्ञायां किम् । सोमवान् ॥ कशंभ्यां बभयुस्तितुतयसः ।५।२। १३८ ॥ कंशमिति मान्तौ । कमित्युदकसुखयोः । शमिति सुखे । आभ्यां सप्त प्रत्ययाः म्युः । युस्यसोः सकारः पदत्वार्थः । कंवः । कंभः । कंयुः । कंतिः । कंतुः । कंतः । कयः । शंवः । शंभः । शंयुः । शंतिः । शंतुः । शंतः । शयः । अनुखारस्य वैकल्पिकः परसवर्णः । वकारयकारपरस्यानुनासिकौ वयौ ॥ तुन्दिवलिवटेर्भः | ५ | २|१३९ ॥ वृद्धा नाभिस्तुन्दिः । मूर्धन्योपधोऽयमिति माधवः । तुन्दिभः । वलिभः । वटिभः । पामादित्वाद्वलि - नोऽपि ॥ अहंशुभमोर्युस |५|२| १४० ॥ अहमिति मान्तमव्ययमहङ्कारे । शुभमिति शुभे । अहंयुः अहङ्कारवान् । शुभंयुः शुभान्वितः ॥
॥ इति मत्वर्थीयाः ॥
प्राग्दिशो विभक्तिः |५|३|१ || दिक्शब्देभ्य इत्यतः प्राग्वक्ष्यमाणाः प्रत्यया विभक्तिसंज्ञाः स्युः ॥ अथ स्वार्थिकाः प्रत्ययाः ॥ समर्थानामिति प्रथमादिति च निवृत्तम् । वेति त्वनुवर्तत एव ॥ किंसर्वनामबहुभ्योऽयादिभ्यः | ५|३|२ || किमः सर्वनाम्नो बहुशब्दाच्चेति प्राग्दिशोऽधिक्रियते ॥ इदम इशू | ५ | ३ | ३ || प्राग्दिशीये परे ॥ एतेतौ रथोः |५|३|४ || इदम्शब्दस्य एत इत इत्यादेशौ स्तो रेफादौ थकारादौ च प्राग्दिशीये परे । इशोऽपवादः ॥ एतदोऽन् |५|३|५ ॥ योगविभागः कर्तव्यः ॥ एतदः एतेतौ स्तो रथोः ॥ अन् ॥ एतद इत्येव । अनेकाल्त्वात्सर्वादेशः । नलोपः प्रातिपदिकान्तस्य ॥ सर्वस्य सोऽन्यतरस्यां दि | ५ | ३ | ३ || प्राग्दिशीये दकारादौ प्रत्यये परे सर्वस्य सो वा स्यात् ॥ पञ्चम्यास्तसिल् ||५|३|७ || पञ्चम्यन्तेभ्यः किमादिभ्यस्तसिल स्याद्वा ॥ कु तिहोः ७२ १०४ ॥ किमः कः स्यात्तादौ हादौ च विभक्तौ परतः । कुतः । कस्मात् । यतः । ततः । अतः । इतः । अमुतः । बहुतः । व्यादेस्तु । द्वाभ्याम् ॥ तसेच | २|३|८ ॥ किंसर्वनामबहुभ्यः परस्य तसेस्तसिलादेशः स्यात् । खरार्थं विभक्त्यर्थं च वचनम् ॥ पर्यभिभ्यां च |५|३|९ || आभ्यां तसिल स्यात् । सर्वोभयार्थाभ्यामेव * ॥ परितः । सर्वत इत्यर्थः । अभितः । उभयत इत्यर्थः ॥ सप्तम्या | २|३|१० ।। कुत्र । यत्र । तत्र । बहुत्र || इदमो हः | ५|३|११ ॥ त्रलोऽपवादः । इशादेशः । इह ॥ किमोत् ||५|३| १२ ॥ वाग्रहणमपकृष्यते । सप्तम्यन्तात्किमो द्वा स्यात्पक्षे त्रल ॥ काति |७|२|१०५ ॥ किमः क्वादेशः स्यादति । क्व । कुत्र ॥ वा ह च छन्दसि | ५|३|१३ ॥ कुह स्थः कुह
१ बल, उत्साह, उद्भास, उद्वास, उद्दास, शिखा, कुल, चूडा, सुल, कूल, आयाम, व्यायाम, उपयाम, आरोह, अवरोह, परिणाह, युद्ध । इति बलादिः ॥