________________
१५६
सिद्धान्तकौमुद्याम् फलबर्हाभ्यामिनच् * ॥ फलिनः । बहिणः ॥ हृदयाच्चालुरन्यतरस्याम् * ॥ इन्ठनौ मतुप् च ॥ हृदयालुः । हृदयी । हृदयिकः । हृदयवान् ॥ शीतोष्णतृप्रेभ्यस्तदसहने * ॥ शीतं न सहते शीतालुः । उष्णालुः । स्फायितञ्चीति रक् । तृप्रः पुरोडाशः तं न सहते तृप्रालुः । तृपं दुःखमिति माधवः ॥ हिमाञ्चेलुः * ॥ हिमं न सहते हिमेलुः ॥ बलादूलः * ॥ बलं न सहते बलूलः ॥ वातात्समूहे च * ॥ वातं न सहते वातस्य समूहो वा वातूलः ॥ तप्पर्वमरुभ्याम् * ॥ पर्वतः । मरुत्तः ॥ ऊर्णाया युस् ।५।२।१२३ ॥ सित्वात्पदत्वम् । ऊर्णायुः । अत्र छन्दसीति केचिदनुवर्तयन्ति । युक्तं चैतत् । अन्यथा हि अहंशुभमोरित्यत्रैवोर्णाग्रहणं कुर्यात् ॥ वाचो ग्मिनिः ।५।२।१२४ ॥ वाग्ग्मी ॥ आलजाटचौ बहुभापिणि ।५।२।१२५ ॥ कुत्सित इति वक्तव्यम् * ॥ कुत्सितं बहु भाषते वाचालः । वाचाटः । यस्तु सम्यग्बहु भाषते स वाग्मीत्येव ॥ स्वामिन्नैश्वर्ये ।५।२।१२६ ॥ ऐश्वर्यवाचकात्खशब्दान्मत्वर्थे आमिनच् । खामी ॥ अर्शआदिभ्योऽच् ।५।२।१२७॥ अर्शीस्यस्य विद्यन्ते अर्शसः । आकृतिगणोऽयम् ॥ द्वन्द्वोपतापगात्प्राणिस्थादिनिः ।५।२।१२८ ॥ द्वन्द्वः । कटकवलयिनी । शङ्खनूपुरिणी । उपतापो रोगः । कुष्ठी । किलासी । गर्दा निन्द्यम् । ककुदावर्ती । काकतालुकी । प्राणिस्थात्किम् । पुष्पफलवान्घटः । प्राण्यजान्न * ॥ पाणिपादवती । अत इत्येव । चित्रकललाटिकावती। सिद्धे प्रत्यये पुनर्वचनं ठनादिबाधनार्थम् ॥ वातातीसाराभ्यां कुक् च ।५।२।१२९ ॥ चादिनिः । वातकी । अतीसारकी ॥ रोगे चायमिष्यते ॥ नेह । वातवती गुहा ॥ पिशाचाच्च * ॥ पिशाचकी ।। वयसि पूरणात् ।।२।१३० ॥ पूरणप्रत्ययान्तान्मत्वर्थे इनिः स्याद्वयसि द्योत्ये । मासः संवत्सरो वा पञ्चमोऽस्यास्तीति पञ्चमी उष्ट्रः । ठन्बाधनार्थमिदम् । वयसि किम् । पञ्चमवान् ग्रामः ॥ सुखादिभ्यश्च ।।२।१३१॥ इनिर्मत्वर्थे । सुखी । दुःखी । माला क्षेपे ॥ माली ॥ धर्मशीलवर्णान्ताच ।५२।१३२ ॥ धर्माद्यन्तादिनिर्मत्वर्थे । ब्राह्मणधर्मी । ब्राह्मणशीली । ब्राह्मणवर्णी ॥ हस्ताज्जातौ ।५।२।१३३ ॥ हस्ती। जातौ किम् । हस्तवान्पुरुषः ॥ वर्णाद्रह्मचारिणि ।५।२।१३४ ॥ वर्णी ॥ पुष्करादिभ्यो देशे ।।२।१३५ ॥ पुष्करिणी । पद्मिनी । देशे किम् । पुष्करवान्करी ॥ बाहूरुपूर्वपदाबलात् * ॥ बाहुबली । ऊरुबली ॥ सर्वादेश्च * ॥ सर्वधनी । सर्वबीजी ॥ अर्थाच्चासंनि
स्, उरस् , तुन्द, चतुर, पलित, जटा, घटा, घाटा, अघ, कर्दम, अम्ल, लवण, स्वाङ्गाद्धीनात्, वर्णात् । अर्शआदिराकृतिगणः॥ २ सुख, दुःख, तृप्त, कृच्छ्र, अस्र, आस्र, अलीक, करुण, कठिण, सोढ, प्रतीप, शील, हल, माला क्षेपे, कृपण, प्रणय, दल, कक्ष । इति सुखादिः ॥ ३ पुष्कर, पद्म, उत्पल, तमाल, कुमुद, नड, कपित्थ, बिस, मृणाल, कर्दम, शालूक, विगहें, करीष, शिरीष, यवास, प्रवाह, हिरण्य, कैरव, कल्लोल, तट, तरङ्ग, पङ्कज, सरोज, राजीव, नालीक, सरोरुह, पुटक, अरविन्द, अम्भोज, अब्ज, कमल, पयस् । इति पुष्करादिः॥