________________
१५५
तद्धितेषु मत्वर्थीयाः । समावेशार्थम् । केशवः । केशी । केशिकः । केशवान् ॥ अन्येभ्योऽपि दृश्यते * ॥ मणिवो नागविशेषः । हिरण्यवो निधिविशेषः ॥ अर्णसो लोपश्च * ॥ अर्णवः ॥ गाण्ड्यजगात्संज्ञायाम् ।।२।११०॥ इस्वदीर्घयोर्यणा तन्त्रेण निर्देशः । गाण्डिवम् । गाण्डीवम् । अर्जुनस्य धनुः । अजगवं पिनाकः ॥ काण्डाण्डादीरनीरचौ ।५।२।१११॥ काण्डीरः । आण्डीरः ॥ रजाकृष्यासुतिपरिषदो वलच् ।।२।११२॥ रजखला स्त्री । कृषीवलः । वल इति दीर्घः । आसुतीवलः शौण्डिकः । परिषद्बलः । पर्षदिति पाठान्तरम् । पर्षद्वलम् ॥ अन्येभ्योऽपि दृश्यते * ॥ भ्रातृवलः । पुत्रवलः । शत्रुवलः । वल इत्यत्र संज्ञायामित्यनुवृत्तेर्नेह दीर्धः ॥ दन्तशिखात्संज्ञायाम् ।।२।११३ ॥ दन्तावलो हस्ती । शिखावल: केकी ॥ ज्योत्स्नातमिस्राङ्गिणोर्जस्विन्नूर्जवलगोमिन्मलिनमलीमसाः ।।२।११४॥ मत्वर्थे निपात्यन्ते । ज्योतिष उपधालोपो नश्च प्रत्ययः । ज्योत्स्ना । तमस उपधाया इत्वं रश्च । तमिस्रा । स्त्रीत्वमतन्त्रम् । शृङ्गादिनच् । शृङ्गिणः । ऊर्जसो वलच् । तेन बाधा मा भूदिति विनिरपि । ऊर्जखी। ऊर्जखलः । ऊर्जाऽसुगागम इति वृत्तिस्तु चिन्त्या । ऊर्जखतीतिवदसुन्नन्तेनैवोपपत्तेः । गोशब्दान्मिनिः । गोमी । मलशब्दादिनच् । मलिनः । ईमसश्च । मलीमसः ॥ अत इनिठनौ ।।२।११५॥ दण्डी । दण्डिकः ॥ व्रीह्यादिभ्यश्च ।।२।११६॥ व्रीही। व्रीहिकः । न च सर्वेभ्यो व्रीह्यादिभ्य इनिठनाविष्येते । किं तर्हि शिखामालासंज्ञादिभ्य इनिः ॥ यवखदादिभ्य इकः * ॥ अन्येभ्य उभयम् ॥ तुन्दादिभ्य इलच्च ।।२।११७ ॥ चादिनिठनौ मतुप् च । तुन्दिलः । तुन्दी । तुन्दिकः । तुन्दवान् । उदर, पिचण्ड, यव, व्रीहि ॥ खाङ्गाद्विवृद्धौ ॥ “विवृद्धयुपाधिकात्खाङ्गवाचिन इलजादयः स्युः” । विवृद्धौ कर्णौ यस्य स कर्णिलः । कर्णी । कर्णिकः । कर्णवान् ॥ एकगोपूर्वाट्ठञ् नित्यम् ।५।२।११८ ॥ एकशतमस्यास्तीति एकशतिकः । ऐकसहस्रिकः । गौशतिकः । गौसहस्रिकः ॥ शतसहस्रान्ताच निष्कात् ।।२।११९॥ निष्कात्परौ यौ शतसहस्रशब्दौ तदन्तात्प्रातिपदिकाठ्ठञ् स्यान्मत्वर्थे । नैष्कशतिकः । नैष्कसहस्रिकः ॥ रूपादाहतप्रशंसयोर्यप् ।।२। १२० ॥ आहतं रूपमस्यास्तीति रूप्यः कार्षापणः । प्रशस्तं रूपमस्यास्तीति रूप्यो गौः । आहतेति किम् । रूपवान् ॥ अन्येभ्योऽपि दृश्यते * ॥ हिम्याः पर्वताः । गुण्या ब्राह्मणाः ॥ अस्मायामेधास्रजो विनिः ।५।२।१२१ ॥ यशस्वी । यशखान् । मायावी । मायावान् । व्रीह्यादिपाठादिनिठनौ । मायी । मायिकः । क्विन्नन्तत्वात्कुः । स्रग्वी ॥ आमयस्योपसंख्यानं दीर्घश्च * ॥ आमयावी ॥ शृङ्गवृन्दाभ्यामारकन् * ॥ शृङ्गारकः । वृन्दारकः ॥
१ व्रीहि, माया, शाला, शिखा, माला, मेखला, केका, अष्टका, पताका, चर्मन् , कर्मन् , वर्मन् , दंष्ट्रा, संज्ञा, वडवा, कुमारी, नौ, वीणा, वलाका, यवखद, नौ, कुमारी, शीर्षानञः। इति व्रीह्यादिः॥ २ अयं गणो मूल एवोक्तः ॥ ३ अयं पाठष्ठीकास्थः ॥