________________
१५४
सिद्धान्तकौमुद्याम् त्यादौ खरितो वानुदात्ते पदादाविति खरितबाधनार्थश्चकारः॥ सिध्मादिभ्यश्च ।।२।९७॥ लज्वा स्यात् । सिध्मलः। सिध्मवान् । अन्यतरस्यांग्रहणं मतुप्समुच्चयार्थमनुवर्तते न तु प्रत्ययविकल्पार्थम् । तेनाकारान्तेभ्य इनिठनौ न । वातदन्तबलललाटानामूङ् च । वातूलः ॥ वत्सांसाभ्यां कामबले ।।२।९८॥ आभ्यां लज्वा स्याद्यथासंख्यं कामवति बलवति चार्थे । वत्सलः । अंसलः ॥ फेनादिलच्च ।।२।९९ ॥ चालच् । अन्यतरस्यांग्रहणं मतुप्समुच्चयार्थमनुवर्तते । फेनिलः । फेनलः । फेनवान् ॥ लोमोदिपामादिपिच्छादिभ्यः शनेलचः।।२।१००॥ लोमादिभ्यः शः ॥ लोमशः । लोमवान् । रोमशः । रोमवान् ॥ पामादिभ्यो नः ॥ पामनः ॥ अङ्गात्कल्याणे ॥ अङ्गना ॥ लक्ष्म्या अच्च ॥ लक्ष्मणः ॥ विष्वगित्युत्तरपदलोपश्चाकृतसन्धेः * ॥ विषुणः । पिच्छादिभ्य इलच् । पिच्छिलः । पिच्छवान् । उरसिलः । उरखान् ॥ प्रज्ञाश्रद्धाचर्चाभ्यो णः ।।२।१०१॥ प्राज्ञो व्याकरणे । प्राज्ञः । श्राद्धः । आर्चः ॥ वृतेश्च * ॥ वार्तः ॥ तपः सहस्राभ्यां विनीनी ।।२।१०२॥ विनीन्योरिकारो नकारपरित्राणार्थः । तपस्वी । सहस्री । असन्तत्वाददन्तत्वाच्च सिद्धे पुनर्वचनमणा बाधा मा भूदिति । सहस्रात्तु ठनोऽपि बाधनार्थम् ॥ अण् च ।५।२।१०३ ॥ योगविभाग उत्तरार्थः । तापसः । साहस्रः॥ ज्योत्स्लादिभ्य उपसंख्यानम् * ॥ ज्योत्स्नः । तामिस्रः ॥ सिकताशर्कराभ्यां च ।५।२।१०४॥ सैकतो घटः । शार्करः ॥ देशे लबिलचौ च ।५।२।१०५॥ चादण् मतुप् च । सिकताः सन्त्यस्मिन्देशे सिकताः । सिकतिलः । सैकतः । सिकतावान् । एवं शर्करा इत्यादि ॥ दन्त उन्नत उरच् ।।२।१०६॥ उन्नता दन्ताः सन्त्यस्य दन्तुरः ॥ ऊषसुषिमुष्कमधोरः।।२।१०७॥ ऊपरः । सुषिरः । मुष्कोऽण्डः। मुष्करः । मधु माधुर्यम् , मधुरः ॥ रप्रकरणे खमुखकुञ्जेभ्य उपसंख्यानम् * ॥ खरः। मुखरः । कुञ्जो हस्तिहनुः, कुञ्जरः ॥ नगपांसुपाण्डुभ्यश्च * ॥ नगरम् । पांसुरः । पाण्डुरः । पाण्डरशब्दस्तु अव्युत्पन्न एव ॥ कच्छा हस्खत्वं च * ॥ कच्छरः ॥ गुद्रुभ्यां मः।५।२।१०८ ॥ घुमः । द्रुमः ॥ केशाद्वोऽन्यतरस्याम् ।५।२।१०९॥ प्रकृतेनान्यतरस्यांग्रहणेन मतुपि सिद्धे पुनर्ग्रहणमिनिठनोः
१ सिध्म, गड, मणि, नाभि, बीज, वीणा, कृष्ण, निष्पाव, पांसु, पार्श्व, पशु, हनु, सक्तु, मांस, पाणिधमन्योर्दीर्घश्च, वातदन्तबलललाटानामूङ् च, जटाघटाकटाकालाः क्षेपे, पर्ण, उदक, प्रज्ञा, सक्थि, कर्ण, स्नेह, शीत, श्याम, पिङ्ग, पित्त, पुष्क, पृथु, मृदु, मञ्ज, मण्ड, पत्र, चटु, कपि, गण्ड, ग्रन्थि, श्री, कुश, धारा, वर्मन् , श्लेष्मन् , पेश, निष्पाद, कुण्ड, क्षुद्रजन्तूपतापयोश्च । इति सिध्मादिः॥ २ लोमन् , रोमन् , बभ्रु, अरि, गिरि, कर्क, कपि, मुनि, तरु । इति लोमादिः॥ ३ पामन् , वामन् , वेमन् , होमन् , श्लेष्मन् , कद्रु, वलि, सामन् , ऊष्मन् , कृमि, अङ्गात्कल्याणे, शाकीपलालीदद्रूणां ह्रखत्वं च, विष्वगित्युत्तरपदलोपश्चाकृतसन्धेः, लक्ष्म्या अच्च । इति पामादिः॥ ४ पिच्छा, उरस् , ध्रुवक, धुवक, जटा, घटा, कालाः क्षेपे, वर्ण, उदक, पङ्क, (प्रज्ञा)। इति पिच्छादिः॥ ५ ज्योत्स्ना, तमिस्रा, कुण्डल, कुतुप, विसर्प, विपादिका। इति ज्योत्स्नादिः॥ ६ सिकता इति लुपि युक्तवद्भावः । हयवरट्रसूत्रे एका सिकतेति भाष्यप्रयोगादेकवचनान्तोऽप्ययम् ॥