________________
१५३
तद्धितेषु मत्वर्थीयाः। ५।२।८८ ॥ इष्टमनेन इष्टी । अधीती ॥ छन्दसि परिपन्थिपरिपरिणौ पर्यवस्थातरि ।५।२।८९॥ लोके तु परिपन्थिशब्दो न न्याय्यः ॥ अनुपद्यन्वेष्टा ।।२। ९०॥ अनुपदमन्वेष्वा अनुपदी गवाम् ॥ साक्षादृष्टरि संज्ञायाम् ।।२।९१ ॥ साक्षाद्रष्टा साक्षी ॥ क्षेत्रियच् परक्षेत्रे चिकित्स्यः ।।२।९२॥ क्षेत्रियो व्याधिः । शरीरान्तरे चिकित्स्यः । अप्रतीकार्य इत्यर्थः ॥ इन्द्रियमिन्द्र लिङ्गमिन्द्रदृष्टमिन्द्रसृष्टमिन्द्रजुष्टमिन्द्रदत्तमिति वा ।५।२।९३ ॥ इन्द्र आत्मा तस्य लिङ्गं करणेन कर्तुरनुमानात् । इतिशब्दः प्रकारार्थः । इन्द्रेण दुर्जयमिन्द्रियम् ॥ तदस्यास्त्यस्मिन्निति मतुप ।।२।९४ ॥ गावोऽस्यास्मिन्वा सन्ति गोमान् ॥ भूमनिन्दाप्रशंसासु नित्ययोगेऽतिशायने ॥ संबन्धेऽस्तिविवक्षायां भवन्ति मतुबादयः * ॥ १ ॥ रसादिभ्यश्च ।।२।९५॥ मतुप् । रसवान् । रूपवान् । अन्यमत्वर्थीयनिवृत्त्यर्थ वचनम् । रस, रूप, वर्ण, गन्ध, स्पर्श, शब्द, स्नेह, गुणात् , एकाचः ॥ रसवान् । गुणग्रहणं रसादीनां विशेषणम् ॥ तसौ मत्वर्थे ।१।४।१९॥ तान्तसान्तौ भसंज्ञौ स्तो मत्वर्थे प्रत्यये परे । वसोः संप्रसारणम् । विदुष्मान् ॥ गुणवचनेभ्यो मतुपो लुगिष्टः * ॥ शुक्लो गुणोऽस्यास्तीति शुक्लः पटः । कृष्णः ॥ मादुपधायाश्च मतोर्वोऽयवादिभ्यः।।२।९॥ मवर्णावर्णान्तान्मवर्णावर्णोपधायाश्च यवादिवर्जितात्परस्य मतोर्मस्य वः स्यात् । किंवान् । ज्ञानवान् । विद्यावान् । लक्ष्मीवान् । यशखान् । भाखान् । यवादेस्तु यवमान् । भूमिमान् ॥ झयः। ।८।१०॥ झयन्तान्मतोर्मस्य वः स्यात् । अपदान्तत्वान्न जश्त्वम् । विद्युत्वान् ॥ संज्ञायाम् ।८२।११॥ मतोर्मस्य वः स्यात् । अहीवती। मुनीवती। शरादीनां चेति दीर्घः ॥ आसन्दीवदष्ठीवचक्रीवत्कक्षीवट्ठमण्वचर्मण्वती ।८।२।१२॥ एते षट् संज्ञायां निपात्यन्ते । आसन्नशब्दस्यासन्दीभावः । आसन्दीवान् ग्रामः । अन्यत्रासन्नवान् । अस्थिशब्दस्याष्ठीभावः । अष्ठीवान् नाम ऋषिः । अस्थिमानन्यत्र । चक्रशब्दस्य चक्रीभावः । चक्रीवान्नाम राजा । चक्रवानन्यत्र । कक्ष्यायाः संप्रसारणम् । कक्षीवान्नाम ऋषिः। कक्ष्यावानन्यत्र । लवणशब्दस्य रुमण्भावः । रुमण्वान्नाम पर्वतः । लवणवानन्यत्र । चर्मणो नलोपाभावो णत्वं च । चर्मण्वती नाम नदी । चर्मवत्यन्यत्र ॥ उदन्वानुदधौ च ।८।२।१३ ॥ उदकस्य उदन्भावो मतौ उदधौ संज्ञायां च । उदन्वान् समुद्रः ऋषिश्च ॥ राजन्वान् सौराज्ये ।८२।१४॥ राजन्वती भूः । राजवानन्यत्र ॥ प्राणिस्थादातो लजन्यतरस्याम् ।२।२।९६॥ चूडालः । चूडावान् । प्राणिस्थात्किम् । शिखावान्दीपः । आतः किम् । हस्तवान् ॥ प्राण्यङ्गादेव * ॥ नेह । मेधावान् । प्रत्ययस्वरेणैव सिद्धे अन्तोदात्तत्वे चूडालोऽसी
१ यवमान् । ककुदावर्तिनी कन्या। रूपवान् । क्षीरिणो वृक्षाः। उदरिणी कन्या। दण्डी। मतुबर्थानां भूमादीनां क्रमेणोदाहरणानि ॥ २ अयं गणो मूल एवोक्तः ॥ ३ यव, दल्मि, ऊर्मि, भूमि, कृमि, क्रुञ्चा, वशा, द्राक्षा, ध्राक्षा, ध्रजि, जि, जि, निपि, सञ्जि, हरित् , ककुद् , मरुत्, गरुत् , इक्षु, द्रु, मधु । आकृतिगणोऽयं यवादिः॥
२०