________________
१५२
सिद्धान्तकौमुद्याम् ठक् । सस्यशब्दो गुणवाची न तु धान्यवाची। शस्येनेति पाठान्तरम् । सस्येन गुणेन परिजातः संबद्धः सस्यकः साधुः ॥ अंशं हारी ।२।६९॥ हारीत्यावश्यके णिनिः । अत एव तद्योगे षष्ठी न । अंशको दायादः ॥ तत्रादचिरापहृते ।५।७० ॥ तन्त्रकः पटः । प्रत्यग्र इत्यर्थः ॥ ब्राह्मणकोष्णिके संज्ञायाम् ।।२।७१॥ आयुधजीविनो ब्राह्मणा यस्मिन्देशे स ब्राह्मणकः । अल्पमन्नं यस्यां सा उष्णिका यवागूः । अन्नशब्दस्य उष्णादेशो निपात्यते ॥ शीतोष्णाभ्यां कारिणि ।।२।७२ ॥ शीतं करोतीति शीतकोऽलसः । उष्णं करोतीति उष्णकः शीघ्रकारी ॥ अधिकम् ।।२।७३ ॥ अध्यारूढशब्दात्कन् उत्तरपदलोपैश्च ॥ अनुकाभिकाभीकः कमिता ।५।२७४ ॥ अन्वभिभ्यां कन् । अभेः पाक्षिको दीर्घश्च । अनुकामयते अनुकः । अभिकामयते अभिकः । अभीकः ॥ पार्श्वेनान्विच्छति ।।२।७५ ॥ अनृजुरुपायः पार्श्व तेनान्विच्छति पार्श्वकः ॥ अयःशूलदण्डाजिनाभ्यां ठठौ ।।२।७६ ॥ तीक्ष्ण उपायोऽयःशूलं तेनान्विच्छति आयःशूलिकः साहसिकः । दण्डाजिनं दम्भः तेनान्विच्छति दाण्डाजिनिकः ॥ तावतिथं ग्रहणमिति लुग्वा ।।२।७७ ॥ कन् स्यात्पूरणप्रत्ययस्य च लुग्वा । द्वितीयकं द्विकं वा ग्रहणं देवदत्तस्य । द्वितीयेन रूपेण ग्रहणमित्यर्थः ॥ तावतिथेन गृह्णातीति कन्वक्तव्यो नित्यं च लुक् * ॥ षष्ठेन रूपेण गृह्णाति षट्को देवदत्तः । पञ्चकः ॥ स एषां ग्रामणीः ।५।२।७८ ॥ देवदत्तो मुख्यो येषां ते देवदत्तकाः । त्वत्काः । मत्काः ॥ शृङ्खलमस्य बन्धनं करभे ।२७९ ॥ शृङ्खलकः करभः ॥ उत्क उन्मनाः ।।२।८० ॥ उद्गतमनस्कवृत्तेरुच्छब्दात्स्वार्थे कन् । उत्क उत्कण्ठितः ॥ कालप्रयोजनाद्रोगे ।१२।८१ ॥ कालवचनात्प्रयोजनवचनाच्च कन् स्याद्रोगे । द्वितीयेऽहनि भवो द्वितीयको ज्वरः । प्रयोजनं कारणं रोगस्य फलं वा । विषपुष्पैर्जनितो विषपुष्पकः । उष्णं कार्यमस्य उष्णकः । रोगे किम् । द्वितीयो दिवसोऽस्य ॥ तदस्मिनन्नं प्राये संज्ञायाम् ।५।२।८२ ॥ प्रथमान्तात्सप्तम्यर्थे कन् स्यात् यत्प्रथमान्तमन्नं चेत्प्रायविषयं तत् । गुडापूपाः प्रायेणान्नमस्यां गुडापूपिका पौर्णमासी ॥ वटकेभ्य इनिर्वाच्यः * ॥ वटकिनी ॥ कुल्माषादञ् ।५।२।८३ ॥ कुल्माषाः प्रायेणान्नमस्यां कौल्माषी ॥ श्रोत्रियश्छन्दोऽधीते ।५।२।८४ ॥ श्रोत्रियः । वेत्यनुवृत्तेश्छान्दसः ॥ श्राद्धमनेन भुक्तमिनिठनौ ।५।२।८५ ॥ श्राद्धी । श्राद्धिकः ॥ पूर्वादिनिः। ५।२।८६ ॥ पूर्व कृतमनेन पूर्वी ॥ सपूर्वाच ।।२।८७ ॥ कृतपूर्वी ॥ इष्टादिभ्यश्च ।
१ अध्यारूढो द्रोणः खारीमिति अधिकः खार्या द्रोणः । अधिका खारी द्रोणेन । इत्यधिकः क्वचित् पाठः॥
२ इष्ट, पूर्त, उपासादित, निगदित, परिगदित, परिवादित, निकथित, निषादित, निपठित, संकलित, परिकलित, संरक्षित, परिरक्षित, अर्चित, गणित, अवकीर्ण, आयुक्त, गृहीत, आम्नात, श्रुत, अधीत, अवधान, आसे वित, अवधारित, अवकल्पित, निराकृत, उपकृत, उपाकृत, अनुयुक्त, अनुगणित, अनुपठित, व्याकुलित । इतीष्टादिः॥