________________
तद्धितेषु पाञ्चमिकाः । तस्य पूरणे डट् ।।२।४८ ॥ एकादशानां पूरण एकादशः ॥ नान्तादसंख्यादेमैट् ।।२।४९ ॥ डटो मडागमः स्यात् । पञ्चानां पूरणः पञ्चमः । नान्तात्किम् । विंशः । असंख्यादेः किम् । एकादशः ॥ षटकतिकतिपयचतुरां थुक् ।।२।५१॥ एषां थुगागमः स्याड्डटि । षण्णां पूरणः षष्ठः । कतिथः । कतिपयशब्दस्यासंख्यात्वेप्यत एव ज्ञापकाड्डट् । कतिपयथः । चतुर्थः ॥ चतुरश्छयतावाद्यक्षरलोपश्च * ॥ तुरीयः । तुर्यः ॥ बहुपूगगणसङ्घस्य तिथुक ।५।२।५२ ॥ डटीत्येव । पूगसङ्घयोरसंख्यात्वेऽप्यत एव डट् । बहुतिथः इत्यादि ॥ वतोरिथुक् ।।२।५३ ॥ डटीत्येव । यावतिथः ॥ द्वेस्तीयः।पारा५४ ॥ डटोऽपवादः । द्वयोः पूरणो द्वितीयः ॥ त्रेः संप्रसारणं च
रा५५ ॥ तृतीयः ॥ विंशत्यादिभ्यस्तमडन्यतरस्याम् ।।२।५६ ॥ एभ्यो डटस्तमडागमो वा स्यात् । विंशतितमः । विंशः । एकविंशतितमः । एकविंशः ॥ नित्यं शतादिमासार्धमाससंवत्सराच ।५।२।५७ ॥ शतस्य पूरणः शततमः । एकशततमः । मासादेरत एव डट् । मासतमः ॥ षष्टयादेश्वाऽसंख्यादेः ।।२।५८ ॥ षष्टितमः । संख्यादेस्तु विंशत्यादिभ्य इति विकल्प एव । एकषष्टः । एकषष्टितमः । मतौ छः सूक्तसानोः ।।२।५९ ॥ मत्वर्थे छः स्यात् । अच्छावाकशब्दोऽस्मिन्नस्ति अच्छावाकीयं सूक्तम् । वारवन्तीयं साम ॥ अध्यायानुवाकयोलुक् ।।२।६० ॥ मत्वर्थस्य छस्य । अत एव ज्ञापकात्तत्र छः । विधानसामर्थ्याच्च विकल्पेन लुक् । गर्दभाण्डः । गर्दभाण्डीयः ॥ विमुक्तादिभ्योऽण् ।५।२।६१॥ मत्वर्थेऽण् स्यादध्यायानुवाकयोः । विमुक्तः शब्दोऽस्मिन्नस्ति वैमुक्तः । दैवासुरः ॥ गोषदादिभ्यो वुन् ।५।२। ६२॥ मत्वर्थेऽध्यायानुवाकयोः । गोषदकः । इषेत्वकः ॥ तत्र कुशल: प्थः ।।२। ६३ ॥ वुन् स्यात् । पथि कुशलः पथकः ॥ आकर्षादिभ्यः कन् ।५।२।६४ ॥ आकर्षे कुशल आकर्षकः । आकषादिभ्य इति रेफरहितो मुख्यः पाठः । आकषो निकषोपलः ॥ धनहिरण्यात्कामे पाश६५ ॥ काम इच्छा । धने कामो धनको देवदत्तस्य । हिरण्यकः ॥ स्वाङ्गेभ्यः प्रसिते ।।२।६६ ॥ केशेषु प्रसितः केशकः । तद्रचनायां तत्पर इत्यर्थः ॥ उदरागाने ।५।२।६७॥ अविजिगीषौ ठक् स्यात् । कनोऽपवादः । बभुक्षयात्यन्तपीडित उदरे प्रसित औदरिकः । आचूने किम् । उदरकः । उदरपरिमार्जनादौ प्रसक्त इत्यर्थः ॥ सस्येन परिजातः ।।२।६८॥ कन् खर्यते न तु
१ विमुक्त, देवासुर, रक्षोसुर, उपसद् , सुवर्ण, परिसारक, सदसत् , वस्तु, मरुत्, पत्नीवत् , वसुमत् , महीयत्व, सत्त्ववत् , बर्हवत् , दशार्ण, दशाह, वयस् , हविधान, पतत्रिन् , महिनी, अस्यहत्य, सोमापूषन् , इडा, अग्नाविष्णू, उर्वशी, वृत्रहन् । इति विमुक्तादिः॥ २ गोषद, इषेत्वा, मातरिश्वनः, देवस्यत्वा, देवीरापः, कृष्णोस्याखरेष्टः, दैवीं धियम् , रक्षोहण, युञ्जान, अञ्जन, प्रभूत, प्रतूर्त, कृशानु । इति गोषदादिः॥ ३ आकर्ष (आकष ) त्सरु, पिशाच, पिचण्ड, अशनि, अश्मन् , निचय, चय, विजय, जय, आचय, नय, पाद, दीप, हृद, हाद, गद्गद, शकुनि । इत्याकर्षादिः॥