________________
१५०
सिद्धान्तकौमुद्याम् कर्मणि घटोष्ठच् ।२।३५ ॥ घटत इति घटः । पचाद्यच् । कर्मणि घटते कर्मठः पुरुषः ॥ तदस्य संजातं तारकादिभ्य इतन् ।५।२।३६॥ तारकाः संजाता अस्य तारकितं नमः । आकृतिगणोऽयम् ॥ प्रमाणे द्वयसज्दनञ्मात्रचः ।५।२।३७ ॥ तदस्येत्यनुवर्तते । ऊरू प्रमाणमस्य ऊरुद्वयसम् । ऊरुदनम् । ऊरुमात्रम् ॥ प्रमाणे लैः * ॥ शमः । दिष्टिः । वितस्तिः ॥ द्विगोर्नित्यम् * ॥ द्वौ शमौ प्रमाणमस्य द्विशमम् ॥ प्रमाणपरिमाणाभ्यां संख्यायाश्चापि संशये मात्रज्वक्तव्यः * ॥ शममात्रम् । प्रस्थमात्रम् । पञ्चमात्रम् ॥ वत्वन्तात्स्वार्थे द्वयसच्मात्रचौ बहुलम् * ॥ तावदेव तावद्वयसम् । तावन्मात्रम् ॥ पुरुषहस्तिभ्यामण् च ।५।२।३८ ॥ पुरुषः प्रमाणमस्य पौरुषम् । पुरुषद्वयसम् । हास्तिनम् । हस्तिद्वयसम् ॥ यत्तदेतेभ्यः परिमाणे वतुप ।५।२।३९ ॥ यत्परिमाणमस्य यावान् । तावान् । एतावान् ॥ किमिदम्भ्यां वो घः ।५।२।४०॥ आभ्यां वतुप्स्याद्वस्य च घः । कियान् । इयान् ॥ किमः संख्यापरिमाणे डति च ।५।२। ४१ ॥ चाद्वतुप् । तस्य च वस्य घः स्यात् । का संख्या येषां ते कति । कियन्तः ॥ संख्याया अवयवे तयप् ।५।२।४२॥ पञ्चावयवा अस्य पञ्चतयं दारु ॥ द्वित्रिभ्यां तयस्यायज्वा ।५।२।४३ ॥ द्वयम् । द्वितयम् । त्रयम् त्रितयम् ॥ उभादुदात्तो नित्यम् ।।२।४४॥ उभशब्दात्तयपोऽयच् स्यात् स चाद्युदात्तः । उभयम् ॥ तदस्मिन्नधिकमिति दशान्ताड्डः ।।४५ ॥ एकादश अधिका अस्मिन्नेकादशम् ॥ शतसहस्रयोरेवेष्यते * ॥ नेह । एकादश अधिका अस्यां विंशतौ ॥ प्रकृतिप्रत्ययार्थयोः समानजातीयत्व एवेष्यते * ॥ नेह । एकादश माषा अधिका अस्मिन् सुवर्णशते ॥ शदन्तविंशतेश्च ।।२।४६॥डः स्यादुक्तेर्थे । त्रिंशदधिका अस्मिन् त्रिंशं शतम् । विंशम् ॥ संख्याया गुणस्य निमाने मयट् ।५।२।४७ ॥ भागस्य मूल्ये वर्तमानात्प्रथमान्तात्संख्यावाचिनः षष्ठ्यर्थे मयट् स्यात् । यवानां द्वौ भागौ निमानमस्योदश्विद्भागस्य द्विमयमुदश्विद्यवानाम् । गुणस्येति किम् । द्वौ त्रीहियवौ निमानमस्योदश्वितः । निमाने किम् । द्वौ गुणौ क्षीरस्य एकस्तैलस्य द्विगुणं क्षीरं पच्यते तैलेन ॥
१ अत्र ठस्येक इति न । अङ्गात्परस्य ठस्य इति व्याख्यानात् ॥ २ तारका, पुष्प, कर्णक, मञ्जरी, ऋजीष, क्षण, सूत्र, मूत्र, निष्क्रमण, पुरीष, उच्चार, प्रचार, विचार, कुड्मल, कण्टक, मुसल, मुकुल, कुसुम, कुतूहल, स्तबक, किसलय, पल्लव, खण्ड, वेग, निद्रा, मुद्रा, बुभुक्षा, धेनुष्या, पिपासा, श्रद्धा, अभ्र, पुलक, अङ्गारक, वर्णक, द्रोह, दोह, सुख, दुःख, उत्कण्ठा, भर, व्याधि, वर्मन् , व्रण, गौरव, शास्त्र, तरङ्ग, तिलक, चन्द्रक, अन्धक, गर्व, मुकुर, हर्ष, उत्कर्ष, रण, कुवलय, गर्ध, क्षुध, सीमन्त, ज्वर, गर, रोग, रोमाञ्च, पण्डा, कज्जल, तृष्, कोरक, कल्लोल, स्थपुट, फल, कञ्चक, शृङ्गार, अङ्कुर, शैवल, बंकुल, श्वभ्र, आराल, कलङ्क, कर्दम, कन्दल, मूर्छा, अङ्गार, हस्तक, प्रतिबिम्ब, विघ्नतन्त्र, प्रत्यय, दीक्षा, गर्ज, गर्भादप्राणिनि । इति तारकादिकृतिगणः॥ ३ ल इति लुक्संज्ञा, ॥ ४ डट् स्तोमे वक्तव्यः * ॥ पञ्चदशः स्तोमः॥ शत्शनोर्डिनिः * ॥ त्रिंशिनो मासाः। पञ्चदशिनोऽर्धमासाः ॥ विंशतेश्च * ॥ विंशिनोऽङ्गिरसः॥