________________
तद्धितेषु पाञ्चमिकाः ।
१४९ त्खञ् भूतपूर्वे ।।२।१८ ॥ गोष्ठो भूतपूर्वः गौष्ठीनो देशः ॥ अश्वस्यैकाहगमः ।५।२।१९ ॥ एकाहेन गम्यते इत्येकाहगमः । आश्वीनोऽध्वा ॥ शालीनकौपीने 'अधृष्टाकार्ययोः ।५।२।२०॥ शालाप्रवेशमर्हति शालीनः अधृष्टः । कूपपतनमर्हति कौपीनं पापम् । तत्साधनत्वात्तद्वद्गोप्यत्वाद्वा पुरुषलिङ्गमपि । तत्संबन्धात्तदाच्छादनमपि ॥ बातेन जीवति ।।२।२१ ॥ बातेन शरीरायासेन जीवति न तु बुद्धिवैभवेन स व्रातीनः ॥ साप्तपदीनं सख्यम् ।५।२।२२ ॥ सप्तभिः पदैरवाप्यते साप्तपदीनम् ॥ हैयङ्गवीनं संज्ञायाम् ।५२२३ ॥ ह्योगोदोहस्य हियङ्गुरादेशः विकारार्थे खञ् च निपात्यते । दुह्यत इति दोहः क्षीरम् । ह्योगोदोहस्य विकारो हैयङ्गवीनं नवनीतम् ॥ तस्य पाकमूले पील्वांदिकर्णादिभ्यः कुणब्जाहचौ ।५।२।२४ ॥ पीलूनां पाकः पीलकुणः । कर्णस्य मूलं कर्णजाहम् ॥ पक्षात्तिः ।।२।२५॥ मूलग्रहणमात्रमनुवर्तते । पक्षस्य मूलं पक्षतिः ॥ तेन वित्तश्चुचुपचणपौ ।५।२२६॥ यकारः प्रत्यययोरादौ लुप्तनिर्दिष्टस्तेन चस्य नेत्संज्ञा । विद्यया वित्तो विद्याचुञ्चुः । विद्याचणः ॥ विनञ्भ्यां नानाजी नसह ।५।२।२७ ॥ असहार्थे पृथग्भावे वर्तमानाभ्यां खार्थे प्रत्ययौ । विना । नाना ॥ वेः शालच्छङ्कटचौ ।।२।२८ ॥ क्रियाविशिष्टसाधनवाचकात्वार्थे । विस्तृतम् । विशालम् । विशङ्कटम् ॥ संप्रोदश्च कटच् ।५।२।२९ ॥ सङ्कटम् । प्रकटम् । उत्कटम् । चाद्विकटम् ॥ अलाबूतिलोमाभङ्गाभ्यो रजस्युपसंख्यानम् * ॥ अलाबूनां रजः अलाबूकटम् ॥ गोष्ठजादयः स्थानादिषु पशुनामभ्यः * ॥ गवां स्थानं गोगोष्ठम् ॥ संघाते कटच् * ॥ अवीनां सङ्घातोऽविकटः ॥ विस्तारे पटच् * ॥ अविपटः ॥ द्वित्वे गोयुगच् * ॥ द्वावुष्ट्रौ उष्ट्रगोयुगम् । षट्त्वे षङ्गवच् * ॥ अश्वषड्गवम् ॥ स्नेहे तैलच् * ॥ तिलतैलम् । सर्षपतैलम् ॥ भवने क्षेत्रे शाकटशाकिनौ * ॥ इक्षुशाकटम् । इक्षुशाकिनम् ॥ अवात्कुटारच्च ।।२।३०॥ चात्कटच् । अवाचीनोऽवकुटारः । अवकटः ॥ नते नासिकायाः संज्ञायां टीटञ्नाटभ्रटचः ।।२।३१ ॥ अवादित्येव । नतं नमनम् । नासिकाया नतं अवटीटम् । अवनाटम् । अवभ्रटम् । तद्योगान्नासिका अवटीटा । पुरुषोऽप्यवटीटः ॥ नेबिडज्विरीसची ।।२।३२॥ निबिडम् । निबिरीसम् ॥ इनपिटचिक चि च ।।२।३३ ॥ नेरित्येव ॥ नासिकाया नतेऽभिधेये इनच्पिटचौ प्रत्ययौ प्रकृतश्चिक चि इत्यादेशौ च ॥ कप्रत्ययचिकादेशौ च वक्तव्यौ * ॥ चिकिनम् । चिपिटम् । चिकम् ॥ क्लिन्नस्य चिल पिल लश्चास्य चक्षुषी * ॥ क्लिन्ने चक्षुषी अस्य चिल्लः । पिल्लः ॥ चुल च * ॥ चुल्लः ॥ उपाधिभ्यां त्यकन्नासन्नारूढयोः ।।२। ३४ ॥ संज्ञायामित्यनुवर्तते । पर्वतस्यासन्नं स्थलमुपत्यका आरूढं स्थलमधित्यका ॥
१ पील, कर्कन्धु, शमी, करीर, कुवलय, बदर, अश्वत्थ, खदिर । इति पीवादिः॥ २ कर्ण, अक्षि, मख, मुख, केश, पाद, गुल्फ, भ्रू, शृङ्ग, दन्त, ओष्ठ, पृष्ठ, । इति कर्णादिः॥