________________
१४८
सिद्धान्तकौमुद्याम्
कषष्टिकाद्यत् |५|२| ३ || यवानां भवनं क्षेत्रं यव्यम् । यवक्यम् । षष्टिक्यम् ॥ विभाषा तिलमाषोमाभङ्गाणुभ्यः | ५|२|४ || यत् वा स्यात् पक्षे खञ् । तिल्यम् ॥ तैलीनम् । माष्यम् । माषीणम् । उम्यम् । औमीनम् । भङ्ग्यम् । भाङ्गीनम् । अणव्यम् । आणवीनम् ॥ सर्वचर्मणः कृतः खखौ |५|२| ५ || असामर्थ्येऽपि निपातना - त्समासः । सर्वश्वर्मणा कृतः सर्वचर्मीणः । सार्वचर्मीणः ॥ यथामुखसंमुखस्य दर्शनः खः |५|२२६ ॥ मुखस्य सदृशं यथामुखं प्रतिबिम्बम् । निपातनात्सादृश्येऽव्ययीभावः । समं सर्वं मुखं संमुखम् । समशब्दस्यान्तलोपो निपात्यते । यथामुखं दर्शनो यथामुखीनः । सर्वस्य मुखस्य दर्शनः संमुखीनः ॥ तत्सर्वादेः पथ्यङ्गकर्मपत्रपात्रं व्याप्नोति । । २७ ॥ सर्वादेः पथ्याद्यन्ताद् द्वितीयान्तात्खः स्यात् । सर्वपथान् व्याप्नोति सर्वपथीनः । सर्वाङ्गीणः । सर्वकर्मीणः । सर्वपत्रीणः । सर्वपात्रीणः || आप्रपदं प्राप्नोति ।५।२३८ ॥ पादस्यायं प्रपदं तन्मर्यादीकृत्य आप्रपदम् । आप्रपदीनः पटः ॥ अनुपदसर्वान्नायानयं बद्धाभक्षयतिनेयेषु |५|२| ९ || अनुरायामे सादृश्ये च । अनुपदं बद्धा अनुपदीना उपानत् । सर्वान्नानि भक्षयति सर्वान्नीनो भिक्षुः । आयानयः स्थलविशेषः । तं नेय आयानयीनः शारः ॥ परोवरपरम्परपुत्रपौत्रमनुभवति |५|२| १० || परांश्चावरांश्चानुभवतीति परोवरीणः । अवरस्योत्वं निपात्यते । परांश्च परतरांश्चानुभवति परम्परीणः । प्रकृतेः परम्परभावो निपात्यते । पुत्रपौत्राननुभवति पुत्रपौत्रीणः । परम्पराशब्दस्तु अव्युत्पन्नं शब्दान्तरं स्त्रीलिङ्ग तस्मादेव स्वार्थे ष्यञ पारम्पर्यम् । कथं पारोवर्यवदिति । असाधुरेवायम् । खप्रत्ययसन्नियोगेनैव परोवरेति निपातनात् ॥ अवारपारात्यन्तानुकामं गामी |५|२| ११ || अवारपारं गामी अवारपारीणः । अवारीणः । पारीणः । पारावारणः । अत्यन्तं गामी अत्यन्तीनः । भृशं गन्तेत्यर्थः । अनुकामं गामी अनुकामीनः । यथेष्टं गन्तेत्यर्थः ॥ समांसमां विजायते |५|२|१२ ॥ यलोपोऽवशिष्ट - विभक्तेरलुक् च पूर्वपदे निपात्यते । समांसमीना गौः । समांसमीना सा यैव प्रतिवर्षं प्रसूयते ॥ खप्रत्ययानुत्पत्तौ यलोपो वा वक्तव्यः * ॥ समांसमां विजायते । समायां समायां वा ॥ अद्यश्वीनावष्टब्धे |५|२| १३ || अद्य श्वो वा विजायते अद्यश्वीना वडवा । आसन्नप्रसवेत्यर्थः । केचित्तु विजायत इति नानुवर्तयन्ति । अद्यश्वीनं मरणम् । आसन्नमित्यर्थः ॥ आगवीनः | ५|२| १४ || आङ्पूर्वाद्गोः कर्मकरे खप्रत्ययो निपात्यते । गोः प्रत्यर्पणपर्यन्तं यः कर्म करोति स आगवीनः ॥ अनुग्वलंगामी ।५।२।१५ ॥ अनुगु गोः पश्चात्पर्याप्तं गच्छति अनुगवीनो गोपालः || अध्वनो यत्खौ |५|२| १६॥ अध्वानमलं गच्छति अध्वन्यः । अध्ववीनः । ये चाभावकर्मणोः । आत्माध्वानौ खे इति सूत्राभ्यां प्रकृतिभावः ॥ अभ्यमित्राच्छ च |५|२|१७ ॥ चाद्यत्खौ । अभ्यमित्रीयः। अभ्यमित्र्यः। अभ्यमित्रीणः । अमित्राभिमुखं सुष्ठु गच्छतीत्यर्थः ॥ गोष्ठा