________________
तद्धितेषु पाञ्चमिकाः ।
१४७
द्वाणिज्यमपि ॥ कपिज्ञात्यो
1
|५|१|१२७ ॥ कापेयम् । ज्ञातेयम् ॥ पत्यन्तपुंरोहितादिभ्यो यक | ५ | १|१२८ ॥ सैनापत्यम् । पौरोहित्यम् ॥ राजाऽसे * ॥ राजशब्दोऽसमासे यकं लभत इत्यर्थः । राज्ञो भावः कर्म वा राज्यम् । समासे तु ब्राह्मणादित्वात् प्यञ् । आधिराज्यम् || प्राणभृज्जातिवयोवचनोद्गत्रादिभ्योऽञ् ॥ ५।१।१२९ ॥ प्राणभृज्जाति, आश्वम् । औष्टम् । वयोवचने, कौमारम् । कैशोरम् । औद्गात्रम् । औन्नेत्रम् । सौष्ठवम् । दौष्ठवम् ॥ हायनान्तयुवादिभ्योऽणू | ५ | १|१३० ॥ द्वैहायनम् । त्रैहायनम् । यौवनम् । स्थाविरम् ॥ श्रोत्रियस्य यलोपश्च * ॥ श्रौत्रम् । कुशलचपलनिपुणपिशुनकुतूहल क्षेत्रज्ञा युवादिषु ब्राह्मणादिषु च पठ्यन्ते । कौशल्यम् । कौशलमित्यादि ॥ इगन्ताच्च लघुपूर्वात् ।५।१।१३१ ॥ शुर्भावः कर्म वा शौचम् । मौनम् । कथं काव्यम् । कविशब्दस्य ब्राह्मणादित्वात्प्यञ् ॥ योपधाद्गुरूपोत्तमाद्वुञ् । ५।१।१३२ ॥ रामणीयकम् । आभिधानीयकम् ॥ सहायाद्वा * ॥ साहाय्यम् । साहायकम् ॥ द्वन्द्वमनोज्ञदिभ्यश्च ।५।१।१३३॥ शैष्योपाध्यायिका । मानोज्ञकम् ॥ गोत्रचरणाच्छ्लाघात्याकार दवेषु |५|१|१३४ ॥ अत्याकारोऽधिक्षेपः । तदवेतस्ते गोत्रचरणयोर्भावकर्मणी प्राप्त अवगतवान्वा । गार्गिका लाघते । गार्ग्यत्वेन विकत्थत इत्यर्थः । गार्गिकयाsत्याकुरुते गार्गिकामवेतः । काठकेन श्लाघते ॥ होत्राभ्यश्छः | ५ | १|१३५ || होत्राशब्दः ऋत्विग्वाची स्त्रीलिङ्गः। बहुवचनाद्विशेषग्रहणम् । अच्छावाकस्य भावः कर्म वा अच्छावाकीयम् । मैत्रावरुणीयम् ॥ ब्रह्मणस्त्वः ||१|१३६ ॥ होत्रावाचिनो ब्रह्मशब्दात्त्वः स्यात् । छस्यापवादः । ब्रह्मत्वम् । नेति वाच्ये त्ववचनं तलो बाधनार्थम् । ब्राह्मणपर्यायाद्ब्रह्मन् शब्दातु त्वतलौ । ब्रह्मत्वम् । ब्रह्मता ॥
॥ नञ्ञोरधिकारः समाप्तः ॥
धान्यानां भवने क्षेत्रे खञ् | ५|२|१ ॥ भवन्त्यस्मिन्निति भवनम् । मुद्गानां भवनं क्षेत्रं मौद्गीनम् ॥ व्रीहिशाल्यो |५|२|२ || त्रैहेयम् । शालेयम् ॥ यवयव -
१ पुरोहित, राजाऽसे, प्रामिक, पिण्डिक, सुहित, बाल, मन्द, खण्डिक, दण्डिक, वर्मिक, कर्मिक, धर्मिक, शिलिक, सूतिक, मूलिक, तिलक, अञ्जलिक, अञ्जनिक, ऋषिक, पुत्रिक, अविक, शत्रिक, पर्षिक, पथिक, चर्मिक, प्रतिक, सारथि, आस्तिक, सूत्रिक, संरक्ष, सूत्रक, नास्तिक, अजानिक, शाकर, नागर, चूडिक, इति पुरोहितादिः ॥ २ उद्गातृ, उन्ने, प्रतिहर्तृ, प्रशास्तृ, होतृ, पोतृ, हर्तृ, रथगणक, पत्तिगणक, सुष्ठु, दुष्ठु, अध्वर्यु, वधू, सुभग, मन्त्र । इत्युद्गात्रादिः ॥ ३ युवन्, स्थविर, होतृ, यजमान, पुरुषाऽसे, भ्रातृ, कुतुक, श्रवण, कटुक, कमण्डलु, कुस्त्री, सुस्त्री, दुःखी, सुहृदय, दुर्हृदय, सुहृद्, दुर्हृद्, सुभ्रातृ, दुर्भ्रातृ, वृषल, परिव्राजक, सब्रह्मचारिन्, अनृशंस, हृदयासे, कुशल, चपल, निपुण, पिशुन, कुतूहल, क्षेत्रज्ञ, श्रोत्रियस्य यलोपश्च । इति युवादिः ॥ ४ मनोज्ञ, प्रियरूप, अभिरूप, कल्याण, मेधाविन्, आढ्य, कुलपुत्र, छान्दस, छात्र, श्रोत्रिय, चोर, धूर्त, विश्वदेव, युवन्, कुपुत्र, ग्रामपुत्र, ग्रामकुलाल, ग्रामषण्ड, ग्रामकुमार, सुकुमार, बहुल, अवश्यपुत्र, अमुष्यपुत्र, अमुष्यकुल, सारपुत्र, शतपुत्र । इति मनोज्ञादिः ॥