________________
१४६
सिद्धान्तकौमुद्याम् तत्पुरुषात्किम् । नास्य पटवः सन्तीत्यपटुस्तस्य भावः आपटवम् । अचतुरेति किम् । आचतुर्यम् । आसङ्गत्यम् । आलवण्यम् । आवट्यम् । आयुध्यम् । आकत्यम् । आरस्यम् । आलस्यम् ॥ पृथ्वादिभ्य इमनिज्वा ।५।१।१२२॥ वावचनमणादिसमावेशार्थम् ॥ र ऋतो हलादेर्लघोः ।।४।१६१ ॥ हलादेर्लघोळंकारस्य रः स्यादिष्ठेमेयस्सु ॥ टेः ६४१५५ ॥ भस्य टेर्लोपः स्यादिष्ठेमेयस्सु । पृथोर्भावः प्रथिमा । पार्थवम् । म्रदिमा। मार्दवम् ॥ वर्णदृढादिभ्यः ष्यश्च ।५।१।१२३ ॥ चादिमनिच् । शौक्लयम् । शुक्लिमा । दायम् । पृथुमृदुभृशकृशदृढपरिवृढानामेव रत्वम् । द्रढिमा । षो ङीषर्थः । औचिती । याथाकामी ॥ गुणवचनब्राह्मणादिभ्यः कर्मणि च ।।१।१२४ ॥ चाद्भावे । जडस्य कर्म भावो वा जाड्यम् । मूढस्य भावः कर्म वा मौढ्यम् । ब्राह्मण्यम् ॥ अर्हतो नुम् च ॥ अर्हतो भावः कर्म वा आईन्त्यम् । आर्हन्ती । ब्राह्मणादिराकृतिगणः ॥ यथातथायथापुरयोः पर्यायेण ॥३॥३१॥ नञः परयोरेतयोः पूर्वोत्तरपदयोः पर्यायेणादेरचो वृद्धिर्जिदादौ । अयथातथाभावः। आयथातथ्यम् । अयाथातथ्यम् । आयथापुर्यम् । अयाथापुर्यम् । आपादसमाप्ते वकर्माधिकारः ॥ चतुर्वर्णादीनां स्वार्थ उपसंख्यानम् * ॥ चत्वारो
र्णाश्चातुर्वर्ण्यम् । चातुराश्रम्यम् । त्रैखर्यम् । षाङ्गुण्यम् । सैन्यम् । सान्निध्यम् । सामीप्यम् । औपम्यम् । त्रैलोक्यमित्यादि । सर्वे वेदाः सर्ववेदास्तानधीते सर्ववेदः । सर्वादेरिति लुक् । स एव सार्ववेद्यः ॥ चतुर्वेदस्योभयपदवृद्धिश्च * ॥ चतुरो वेदानधीते चतुर्वेदः स एव चातुर्वैद्यः । चतुर्विद्यस्येति पाठान्तरम् । चतुर्विद्य एव चातुर्वैद्यः ॥ स्तेनाद्यन्नलोपश्च । ५।१११२५ ॥ नेति संघातग्रहणम् । स्तेन चौर्ये पचाद्यच् । स्तेनस्य भावः कर्म वा स्तेयम् । स्तेनादिति योगं विभज्य स्तैन्यमिति प्यअन्तमपि केचिदिच्छन्ति ॥ सख्युर्यः ।।१। १२६ ॥ सख्युर्भावः कर्म वा सख्यम् ॥ दूतवणिग्भ्यां च * ॥ दूतस्य भावः कर्म वा दूत्यम् । वाणिज्यमिति काशिका ॥ माधवस्तु वणिज्याशब्दः खभावात् स्त्रीलिङ्गः । भाव एव चायं प्रत्ययो न तु कर्मणीत्याह । भाष्ये तु दूतवणिग्भ्यां चेति नास्त्येव । ब्राह्मणादित्वा
१पृथु, मृदु, महत् , पटु, तनु, लघु, बहु, साधु, आशु, उरु, गुरु, बहुल, खण्ड, दण्ड, चण्ड, अकिंचन, बाल, वत्स, होड, पाक, मन्द, खादु, हख, दीर्घ, प्रिय, वृष, ऋजु, क्षिप्र, क्षुद्र, अणु । इति पृथ्वादिः॥ २ दृढ, वृढ, परिवृढ, भृश, कृश, वक्र, शुक्र, चुक्र, आम्र, कृष्ट, लवण, ताम्र, शीत, उष्ण, जड, बधिर, पण्डित, मधुर, मूर्ख, मूक, स्थिर, वेर्यातलावमतिर्मनःशारदानाम् , समो मतिमनसोः, जवन । इति दृढादिः॥ ३ ब्राह्मण, वाडव, माणव, अर्हतो नुम् च, चोर, धूर्त, आराधय, विराधय, अपराधय, उपराधय, एकभाव, द्विभाव, त्रिभाव, अन्यभाव, अक्षेत्रज्ञ, संवादिन् , संवेषिन् , संभाषिन् , बहुभाषिन् , शीर्षघातिन् , विघातिन् , समस्थ, विषमस्थ, परमस्थ, मध्यस्थ, अनीश्वर, कुशल, चपल, निपुण, पिशुन, कुतूहल, क्षेत्रज्ञ, विश्न, बालिश, अलस, दुःपुरुष, कापुरुष, राजन् , गणपति, अधिपति, गडुल, दायाद, विशस्ति, विषम, विपात, निपात, सर्ववेदादिभ्यः स्वार्थे, चतुर्वेदस्योभयपदवृद्धिश्च, शौटीर, ब्राह्मणादिराकृतिगणः। तेन । औचित्यमित्यादि सिद्धम् ॥ ४ चतुर्वर्ण, चतुराश्रम, सर्व विद्य, त्रिलोक, त्रिखर, षड्गुण, सेना, अनन्तर, संनिधि, समीप, उपमा, सुख, तदर्थ, इतिह, मणिक । इति चतुर्वर्णादिः॥