________________
तद्धितेषु भावकर्मार्थाः ।
१४५ यस्तदस्य प्राप्तम् ।५।१।१०४ ॥ समयः प्राप्तोऽस्य सामयिकम् ॥ ऋतोरण ।५।१। १०५ ॥ ऋतुः प्राप्तोऽस्य आर्तवम् ॥ कालाद्यत् ।।१।१०७ ॥ कालः प्राप्तोऽस्य काल्यं शीतम् ॥ प्रकृष्टे ठञ् ।।१।१०८ ॥ कालादित्येव । तदस्येति च । प्रकृष्टो दीर्घः कालोऽस्येति कालिकं वैरम् ॥ प्रयोजनम् ।।१।१०९॥ तदस्येत्येव । इन्द्रमहः प्रयोजनमस्य ऐन्द्रमहिकम् । प्रयोजनं फलं कारणं च ॥ विशाखाषाढादण्मन्थदण्डयोः ।।१।११० ॥ आभ्यामण् स्यात्प्रयोजनमित्यर्थे क्रमान्मन्थदण्डयोरर्थयोः । विशाखा प्रयोजनमस्य वैशाखो मन्थः । आषाढो दण्डः ॥ चूडादिभ्य उपसंख्यानम् * ॥ चूडा, चौडम् । श्रद्धा, श्राद्धम् ॥ अनुप्रवचनादिभ्यश्छः ।।१।१११॥ अनुप्रवचनं प्रयोजनमस्य अनुप्रवचनीयम् ॥ समापनात्सपूर्वपदात् ।५।१११२॥ व्याकरणसमापनं प्रयोजनमस्य व्याकरणसमापनीयम् ॥ ऐकागारिकट चौरे ।५।१।११३ ॥ एकमसहायमगारं प्रयोजनमस्य मुमुषिषोः स ऐकागारिकश्चौरः ॥ आकालिकडाद्यन्तवचने । ५।११११४ ॥ समानकालावाद्यन्तौ यस्येत्याकालिकः । समानकालस्याकाल आदेशः । आशुविनाशीत्यर्थः । पूर्वदिने मध्याह्नादावुत्पद्य दिनान्तरे तत्रैव नश्वर इति वा ॥ आकालाटुंश्च * ॥ आकालिका विद्युत् ॥
॥ठनः पूर्णोऽवधिः॥ तेन तुल्यं क्रिया चेद्वतिः।।१११५ ॥ ब्राह्मणेन तुल्यं ब्राह्मणवदधीते । क्रिया चेदिति किम् । गुणतुल्ये मा भूत् । पुत्रेण तुल्यः स्थूलः ॥ तत्र तस्येव ।।१।११६ ॥ मथुरायामिव मथुरावत् सुघ्ने प्राकारः । चैत्रस्येव चैत्रवन्मैत्रस्य गावः ॥ तदहम् ।।१॥ ११७ ॥ विधिमर्हति विधिवत्पूज्यते । क्रियाग्रहणं मण्डूकप्लुत्यानुवर्तते । तेनेह न । राजानमर्हति छत्रम् ॥ तस्य भावस्त्वतलौ ।५।१।११९ ॥ प्रकृतिजन्यबोधे प्रकारो भावः ॥ गो वो गोत्वम् । गोता । त्वान्तं क्लीबं, तलन्तं स्त्रियाम् ॥ आ च त्वात् ।५।१।१२० ॥ ब्रह्मणस्त्व इत्यतः प्राक् त्वतलावधिक्रियेते । अपवादैः सह समावेशार्थ गुणवचनादिभ्यः कर्मणि विधानाथ चेदम् । चकारो नलञ्भ्यामपि समावेशार्थः । स्त्रिया भावः स्त्रैणम् । स्त्रीत्वम् । स्त्रीता । पौंसम् । पुंस्त्वम् । पुंस्ता ॥ न नपूर्वात्तत्पुरुषादचतुरसंगतलवणवटयुधकतरसलसेभ्यः ।५।१।१२१ ॥ इतः परं ये भावप्रत्ययास्ते नञ्तत्पुरुषान्न स्युश्चतुरादीन्वर्जयित्वा । अपतित्वम् । अपटुत्वम् । नञ्पूर्वात्किम् । बार्हस्पत्यम् ।
१ अनुप्रवचन, उत्थापन, उपस्थापन, संवेशन, प्रवेशन, अनुप्रवेशन, अनुवासन, अनुवचन, अनुवाचन, अन्वारोहण, प्रारम्भण, आरम्भण, आरोहण, पुण्याहवाचन, खस्तिवाचन, शान्तिवाचन, । आकृतिगणोऽयमनुप्रवचनीयादिः। छप्रकरणे विशिपूरिपदिरुहिप्रकृतेरनात्सपूर्वपदादुपसंख्यानम् * ॥ विशि, गेहानुप्रवेशनीयम् । पूरि, प्रपापूरणीयम् । पदि, गोप्रपदनीयम् । रुहि, प्रासादारोहणीयम् । खर्गादिभ्यो यत् * ॥ खर्यम् , यशस्यम्, धन्यम्, काम्यम्, आयुष्यम् ॥ पुण्याहवाचनादिभ्यो लुकू * ॥ पुण्याहवाचनम् , शान्तिवाचनम् , स्वस्तिवाचनम् ॥