________________
१४४
सिद्धान्तकौमुद्याम् परिजय्यो जेतुं शक्यो मासिको व्याधिः । मासेन लभ्यं कार्य सुकरं वा मासिकम् ॥ तदस्य ब्रह्मचर्यम् ।।१।९४ ॥ द्वितीयान्तात्कालवाचिनोऽस्येत्यर्थे प्रत्ययः स्यात् । अत्यन्तसंयोगे द्वितीया । मासं ब्रह्मचर्यमस्य स मासिको ब्रह्मचारी । आर्धमासिकः । यद्वा प्रथमान्तादस्येत्यर्थे प्रत्ययः । मासोऽस्येति मासिकं ब्रह्मचर्यम् ॥ महानाम्न्यादिभ्यः षष्ठ्यन्तेभ्य उपसंख्यानम् * ॥ महानान्यो नाम विदामघवन्नित्याद्या ऋचः । तासां ब्रह्मचर्यमस्य माहानाम्निकः । हरदत्तस्तु भस्याढ इति पुंवद्भावान्माहानामिक इत्याह ॥ चतुर्मासाण्ण्यो यज्ञे तत्र भव इत्यर्थे * ॥ चतुर्पु मासेषु भवन्ति चातुर्मास्यानि यज्ञकर्माणि ॥ संज्ञायामण् * ॥ चतुर्पु मासेषु भवति चातुर्मासी आषाढी । अण्यन्तत्वान्ङीप् ॥ तस्य च दक्षिणा यज्ञाख्येभ्यः।५।१।९५॥ द्वादशाहस्य दक्षिणा द्वादशाहिकी । आख्याग्रहणादकालादपि । आमिष्टोमिकी वाजपेयिकी ॥ तत्र च दीयते कार्य भववत् ।।१।९६॥ प्रावृषि दीयते कार्य वा प्रावृषेण्यम् । शारदम् ॥
__ कालाधिकारस्य पूर्णोऽवधिः॥ व्युष्ठादिभ्योऽण् ।५।०९७ ॥ व्युष्टे दीयते कार्य वा वैयुष्टम् । व्युष्ट, तीर्थ, संग्राम, प्रवास इत्यादि ॥ तेन यथाकथा च हस्ताभ्यां णयतौ ।५।१।९८ ॥ यथाकथाचेत्यव्ययसंघातात्तृतीयान्ताद्धस्तशब्दाच्च यथासंख्यं णयतौ स्तः ॥ अर्थाभ्यां तु यथासंख्यं नेष्यते * ॥ यथाकथा च दीयते कार्य वा याथाकथाचम् । अनादरेण देयं कार्य वेत्यर्थः । हस्तेन दीयते कार्य वा हस्त्यम् ॥ संपादिनि ।५।१।९९ ॥ ठञ् । तेनेत्येव । कर्णवेष्टकाभ्यां संपादि कार्णवेष्टकिकं मुखम् । कर्णालंकाराभ्यामवश्यं शोभते इत्यर्थः ॥ कर्मवेषाद्यत् ।५।१।१००॥ कर्मणा संपादि कर्मण्यं शौर्यम् । वेषेण संपादी वेष्यो नटः । वेषः कृत्रिम आकारः ॥ तस्मै प्रभवति सन्तापादिभ्यः ।।१।१०१ ॥ सन्तापाय प्रभवति सान्तापिकः । सांग्रामिकः ॥ योगाद्यच्च ।।१।१०२॥ चाट्ठञ् । योगाय प्रभवति योग्यः । यौगिकः ॥ कर्मण उकञ् ।५।१।१०३ ॥ कर्मणे प्रभवति कार्मुकम् ॥ सम
१ महानाम्नी, आदित्यव्रत, गोदान, अवान्तरदीक्षा, तिलव्रत, देवव्रत । इति महानाम्यादिः। अवान्तरदीक्षाभ्यो डिनिर्वक्तव्यः * ॥ अवान्तरदीक्षी । तिलवती। अष्टाचत्वारिंशतो ड्वंश्च * ॥ अष्टाचत्वारिंशकः । अष्टाचत्वरिंशी । चातुर्मास्यानां यलोपश्च * ॥ चात् इन् डिनिश्च । चातुर्मासकः चातुर्मासी ॥ २ तस्य चेति चघटितः पाठो भाष्ये न दृश्यते ॥ ३ व्युष्ट, नित्य, निष्क्रमण, प्रवेशन, उपसंक्रमण, तीर्थ, आस्तरण, संग्राम, संघात, अग्निपद, पीलुमूल, प्रवास, उपवास ( उपस्थान )। इति व्युष्टादिः॥ अण्प्रकरणेऽग्निपदादिभ्य उपसंख्यानम् * ॥ व्युष्टादिभ्योऽण् , ऋतोरण , विशाखाषाढादण्मन्थदण्डयोरिति सूत्रत्रयविहितोऽप्यण् अग्निपददिभ्यो भवतीत्यर्थः। अग्निपदे दीयते कार्य आग्निपदम् । पीलुपदम् । उपवस्ता प्राप्तोऽस्य औपवस्त्रम् । प्राशिता प्राप्तोऽस्य प्राशित्रम् । चूडा प्रयोजनमस्य चौडम् । श्रद्धा प्रयोजनमस्य श्राद्धम् । इति क्रमेणोदाहरणानि ॥ ४ गुणोत्कर्षः संपादस्तद्वतीत्यर्थः॥ ५संताप, संग्राह, संनाह, संयोग, संपराय, संवेशन, संपेष, निष्पेष, नर्ग, उपसर्ग, निसर्ग, विसर्ग, प्रवास, उपवास, सङ्घात, संवेष, संवास, संमोदन, सक्तु, मांसोदनाद्विगृहीतादपि । इति संतापादिः॥