________________
१४३
तद्धितेषु अध्येत्राद्यर्थकाः । आहृतप्रकरणे वारिजङ्गलस्थलकान्तारपूर्वादुपसंख्यानम् * ॥ वारिपथिकम् ॥ कालात् ।। १७८ ॥ व्युष्टादिभ्योऽणित्यतः प्रागधिकारोऽयम् ॥ तेन निवृत्तम् ।५।११७९ ॥ अह्ना निवृत्तमाह्निकम् ॥ तमधीष्टो भृतो भूतो भावी ।५।१।८०॥ अधीष्टः सत्कृत्य व्यापारितः । भृतो वेतनेन क्रीतः । भूतः खसत्तया व्याप्तकालः । भावी तादृश एवानागतः । मासमधीष्टो मासिकोऽध्यापकः । मासं भृतो मासिकः कर्मकरः । मासं भूतो मासिको व्याधिः । मासं भावी मासिक उत्सवः ॥ मासाद्वयसि यत्खनौ ।५।१।८१॥ मासं भूतो मास्यः । मासीनः ॥ द्विगोर्यप् ।५।११८२ ॥ मासाद्वयसीत्यनुवर्तते । द्वौ मासौ भूतो द्विमास्यः ॥ षण्मासाण्ण्यच्च ।।१।८३॥ वयसीत्येव । यबसीप्यनुवर्तते । चाट्ठञ् । पाण्मास्यः । षण्मास्यः । पाण्मासिकः ॥ अवयसि ठंश्च ।५।१।८४ ॥ चाण्ण्यत् । षण्मासिको व्याधिः । पाण्मास्यः ॥ समायाः खः ।।११८५ ॥ समामधीष्टो भृतो भूतो भावी वा समीनः द्विगोर्वा ।५।१।८६ ॥ समायाः ख इत्येव । तेन परिजय्येत्यतः प्रावृित्तादिषु पञ्चवर्थेषु प्रत्ययाः । द्विसमीनः । द्वैसमिकः ॥ रात्र्यहःसंवत्सराच ।। १८७ ॥ द्विगोरित्येव द्विरात्रीणः । द्वैरात्रिकः । व्यहीनः । द्वैयह्निकः । समासान्तविधेरनित्यत्वान्न टच् । द्विसंवत्सरीणः ॥ संख्यायाः संवत्सरसंख्यस्य च ॥३॥ १५॥ संख्याया उत्तरपदस्य वृद्धिः स्याद् जिदादौ । द्विसांवत्सरिकः । द्वे षष्टी भृतो द्विषाष्टिकः । परिमाणान्तस्येत्येव सिद्धे संवत्सरग्रहणं परिमाणग्रहणे कालपरिमाणस्याग्रहणा
र्थम् । तेन द्वैसमिक इत्युत्तरपदवृद्धिर्न ॥ वर्षाल्लुक ।५।१।८८ ॥ वर्षशब्दान्ताद्विगोर्वा खः । पक्षे ठञ् वा च लुक् । त्रीणि रूपाणि । द्विवर्षीणो व्याधिः । द्विवार्षिकः । द्विवर्षः ॥ वर्षस्याभविष्यति ।।३।१६ ॥ उत्तरपदस्य वृद्धिः स्यात् । द्विवार्षिकः । भविष्यति तु द्वैवर्षिकः । अधीष्टभृतयोरभविष्यतीति प्रतिषेधो न । गम्यते हि तत्र भविष्यत्ता न तु तद्धितार्थः । द्वे वर्षे अधीष्टो भृतो वा कर्म करिष्यतीति द्विवार्षिको मनुष्यः ॥ परिमाणान्तस्यासंज्ञाशाणयोः ७३२१७ ॥ द्वौ कुडवौ प्रयोजनमस्य विकौडविकः । द्वाभ्यां सुवर्णाभ्यां क्रीतं द्विसौवणिकम् । द्विनैष्किकम् । असंज्ञेति किम् । पञ्च कलापाः परिमाणस्य पाञ्चकलापिकम् । तद्धितान्तः संज्ञा । द्वैशाणम् । कुलिजशब्दमपि केचित्पठन्ति । द्वैकुलिजिकः ॥ चित्तवति नित्यम् ।।११८९ ॥ वर्षशब्दान्ताद्विगोः प्रत्ययस्य नित्यं लुक् स्यात् चेतने प्रत्ययार्थे । द्विवर्षों दारकः ॥ षष्टिकाः षष्टिरात्रेण पच्यन्ते ।।१।९० ॥ बहुवचनमतन्त्रम् । षष्टिको धान्यविशेषः । तृतीयान्तात्कन् रात्रशब्दलोपश्च निपात्यते ॥ तेन परिजय्यलभ्यकार्यसुकरम् ।।१।९३ ॥ मासेन
१ अजपथशङ्कपथाभ्यां चेति वक्तव्यम् * ॥ अजपथेन गच्छति आजपथिकः । अजपथेनाहृतमाजपथिकम् । शङ्कुपथेन गच्छति शाङ्कुपथिकः । शङ्कुपथेनाहृतं शाङ्कुपथिकम् ॥ मधुकमरिचयोरण स्थलात् * ॥ स्थालपथं मधुकम् । स्थालपथं मरिचम् ॥ २ भविष्यदर्थकप्रत्ययभिन्ने जिदादावित्यर्थ इति भावः॥