________________
१४२
सिद्धान्तकौमुद्याम् रूढिशब्दा निपात्यन्ते ॥ पञ्चदशती वर्गे वा ।।१६० ॥ पञ्च परिमाणमस्य पञ्चद्वर्गः । दशत् । पक्षे पञ्चकः । दशकः ॥ त्रिंशच्चत्वारिंशतोळह्मणे संज्ञायां डण् ।५।१६२॥ त्रिंशदध्यायाः परिमाणमेषां ब्राह्मणानां 3शानि । चात्वारिंशानि ब्राह्मणानि ॥ तदर्हति ।५।१६३ ॥ लब्धं योग्यो भवतीत्यर्थे द्वितीयान्ताट्ठादयः स्युः । श्वेतच्छत्रमहति श्वैतच्छत्रिकः ॥ छेदादिभ्यो नित्यम् ।।१।६४ ॥ नित्यमभीक्ष्ण्यम् । छेद नित्यमर्हति छैदिको वेतसः । छिन्नप्ररूढत्वात् ॥ विरागविरङ्गं च * ॥ विरागं नित्यमर्हति वैरङ्गिकः ॥ शीर्षच्छेदाद्यच्च ।।१६५ ॥ शिरश्छेदं नित्यमर्हति शीर्षच्छेद्यः । शैर्षच्छेदिकः । यट्ठकोः सन्नियोगेन शिरसः शीर्षभावो निपात्यते ॥ दण्डादिभ्यो यत् ।५।१॥६६॥ एभ्यो यत् स्यात् । दण्डमर्हति दण्ड्यः । अर्ध्यः । वध्यः ॥ पात्राद् घंश्च ५११६८॥ चाद्यत् तदर्हतीत्यर्थे । पात्रियः । पात्र्यः ॥ कडङ्करदक्षिणाच्छ च ।५।१ ।६९॥ चाद्यत् । कडं करोतीति विग्रहे अत एव निपातनात् खच् । कडङ्करं माषमुद्गादिकाष्ठमर्हतीति कडकरीयो गौः । कडकर्यः । दक्षिणामर्हतीति दक्षिणीयः । दक्षिण्यः ॥ स्थालीबिलात् ।।१।७० ॥ स्थालीबिलमर्हन्ति स्थालीबिलीयास्तण्डुलाः । स्थालीबिल्याः । पाकयोग्या इत्यर्थः ॥ यज्ञविग्भ्यां घखौ ।५।११७१ ॥ यथासंख्यं स्तः । यज्ञमृत्विजं वाऽर्हति यज्ञियः । आत्विजीनो यजमानः ॥ यज्ञविम्भ्यां तत्कर्माहतीत्युपसंख्यानम् * ॥ यज्ञियो देशः । आत्विजीन ऋत्विक् ॥
॥ आीयाणां ठगादीनां द्वादशानां पूर्णोऽवधिः॥ ___ अतः परं ठमेव ॥ पारायणतुरायणचान्द्रायणं वर्तयति ।५।११७२॥ पारायणं वर्तयति पारायणिकश्छात्रः । तुरायणं यज्ञविशेषः तं वर्तयति तौरायणिको यजमानः । चान्द्रायणिकः ॥ संशयमापन्नः ।।१७३ ॥ संर्शयविषयीभूतोऽर्थः सांशयिकः ॥ योजनं गच्छति ।५११७४ ॥ यौजनिकः ॥ क्रोशशतयोजनशतयोरुपसंख्यानम् * ॥ क्रोशशतं गच्छति क्रौशशतिकः । यौजनशतिकः ॥ ततोऽभिगमनमर्हतीति च वक्तव्यम् ॥ * ॥ क्रोशशतादभिगमनमर्हतीति क्रौशशतिको भिक्षुः । यौजनशतिक आचार्यः ॥ पथः ष्कन् ।५।११७५ ॥ षो ङीषर्थः । पन्थानं गच्छति पथिकः । पथिकी ॥ पन्थो ण नित्यम् ।५।११७६ ॥ पन्थानं नित्यं गच्छति पान्थः । पान्था ॥ उत्तरपथेनाहृतं च ।।११७७ ॥ उत्तरपथेनाहृतं औत्तरपथिकम् । उत्तरपथेन गच्छति औत्तरपथिकः ॥
१ छेद, भेद, द्रोह, दोह, नर्त, कर्ष, तीर्थ, संयोग, विप्रयोग, प्रयोग, विप्रकर्ष, प्रैषण, संप्रश्न, विप्रश्न, विकर्ष, प्रकर्ष, विराग विरङ्ग च । इति छेदादिः॥ २ दण्ड, मुसल, मधुपर्क, कशा, अर्घ, मेघ, मेधा, सुवर्ण, उदक, वध, युग, गुहा, भाग, इभ भङ्ग । इति दण्डादिः॥ ३ अत्र य इति त्वपपाठः॥ ४ संशयशब्दस्तद्विषयत्वे लाक्षणिकः। एवं च स्थाणुर्वा पुरुषो वेति संशयविषयीभूते स्थाण्वादावेवायं प्रयोगः॥