________________
तद्धितेषु आर्हीयाः ।
१४१
शुल्कः । उत्कोच उपदा ॥ चतुर्थ्यर्थ उपसंख्यानम् * ॥ पञ्चास्मै वृद्ध्यादिर्दीयते पञ्चको देवदत्तः । सममब्राह्मणे दानमितिवदधिकरणत्वविवक्षा वा ॥ पूरणार्धाट्ठन् | ५ | १|४८ ॥ यथाक्रमं ठक्टठनोरपवादः । द्वितीयो वृद्ध्यादिरस्मिन् दीयते द्वितीयकः । तृतीयकः । अर्धिकः । अर्धशब्दो रूपकस्यार्धे रूढः ॥ भागाद्यच्च | ५|२|४९ ॥ चाट्ठन् । भागशब्दोऽपि रूपकस्यार्धे रूढः । भागो वृच्यादिरस्मिन् दीयते भाग्यं भागिकं शतम् । भाग्या भागिका विंशतिः ॥ तद्धरति वहत्यावहति भाराद्वंशादिभ्यः | ५|१| ५० ॥ वंशादिभ्यः परो यो भारशब्दस्तदन्तं यत्प्रातिपदिकं तत्प्रकृतिकाद्वितीयान्तादित्यर्थः । वंशभारं हरति वहत्यावहति वा वांशभारिकः । ऐक्षुभारिकः । भाराद्वंशादिभ्यइत्यस्य व्याख्यान्तरं भारभूतेभ्यो वंशादिभ्य इति । भारभूतान्वंशान् हरति वांशिकः । ऐक्षुकः ॥ वस्नद्रव्याभ्यां ठन्कनौ |२| ११५१ ॥ यथासंख्यं स्तः । वस्त्रं हरति वहत्यावहति वा वस्निकः । द्रव्यकः ॥ संभवत्यवहरति पचति | ५ | ११५२ ॥ प्रस्थं संभवति प्रास्थिकः कटाहः । प्रस्थं स्वस्मिन्समावेशयतीत्यर्थः । प्रास्थिकी ब्राह्मणी । प्रस्थमवहरति पचति वेत्यर्थः ॥ तत्पचतीति द्रोणादणू च * ॥ चाट्ठञ् । द्रोणं पचतीति द्रौणी । द्रौणिकी ॥ आढका चितपात्रात्खोऽन्यतरस्याम् ||५|१|५३ ॥ पक्षे ठञ् आढकं संभवति अवहरति पचति वा आढकीना । आढकिकी । आचितीना । आचितिकी । पात्रीणा । पात्रिकी ॥ द्विगोः श्च | २|११५४ ॥ आढकाचितपात्रादित्येव । आढकाद्य - न्ताद्विगोः संभवत्यादिष्वर्थेषु ष्ठन्खौ वा स्तः । पक्षे ठञ् । तस्याध्यर्धेति लुक् । षित्वान्ङीष् । याढकिकी । व्याढकीना । द्विगोरिति ङीप् । व्याढकी । याचितीकी । व्याचितीना । अपरिमांणेति ङीपूनिषेधात् । याचिता । द्विपात्रिकी । द्विपात्रीणा । द्विपात्री ॥ कुलिजालुच |५|१|५५ ॥ कुलिजान्ताद्विगोः संभवत्यादिष्वर्थेषु लुक्खौ वा स्तः । चात् ष्ठंश्च । लुगभावे ठञः श्रवणम् । द्विकुलिजी । द्वैकुलिजिकी । द्विकुलिजीना । द्विकुलिजिकी ॥ सोऽस्यांशवस्नभृतयः | ५ | ११५६ ॥ अंशो भागः । वस्त्रं मूल्यम् । भृतिर्वेतनम् । पञ्च अंशो वस्त्रो भृतिर्वास्य पञ्चकः ॥ तदस्य परिमाणम् ।५।११५७ ॥ प्रस्थं परिमाणमस्य प्रास्थिको राशिः ॥ संख्यायाः संज्ञासङ्घसूत्राध्ययनेषु | ५ | १ | ५८ ॥ पूर्वसूत्रमनुवर्तते । तत्र संज्ञायां खार्थे प्रत्ययो वाच्यः । यद्वा ब्येकयोरितिवत्संख्यामात्रवृत्तेः परिमाणिनि प्रत्ययः । पञ्चैव पञ्चकाः शकुनयः । पञ्च परिमाणमेषामिति वा । सङ्घे पञ्चकः । सूत्रे अष्टकं पाणिनीयम् । सङ्घशब्दस्य प्राणिसमूहे रूढत्वासूत्रं पृथगुपात्तम् । पञ्चकमध्ययनम् ॥ स्तोमे डविधिः * ॥ पञ्चदश मन्त्राः परिमाणमस्य पञ्चदशः । सप्तदशः । एकविंशः । सोमयागेषु छन्दोगैः क्रियमाणा पृष्ठ्यादिसंज्ञिका स्तुतिः स्तोमः ॥ पतिविंशतित्रिंशच्चत्वारिंशत्पञ्चाशत्पष्टिसप्तत्यशी तिनवतिशतम् | ५ | ११५९ ॥ एते
१ वंश, कुटज, बल्वज, स्थूण, स्थूणा, अक्ष, अश्व, अश्मन्, श्लक्ष्ण, मूल, इक्षु, खड्ग । इति वंशादिः ॥