________________
सिद्धान्तकौमुद्याम्
कम् ॥ केवलायाश्चेति वक्तव्यम् * ॥ खारीकम् ॥ पणपादमाषशताद्यत् ।।१॥ ३४॥ अध्यर्धपण्यम् । द्विपण्यम् । अध्यर्धपाद्यम् । द्विपाद्यम् । इह पादः पदिति न । यस्येति लोपस्य स्थानिवद्भावात् । पद्यत्यतदर्थे इत्यपि न । प्राण्यङ्गार्थस्यैव तत्र ग्रहणात् ॥ शाणाद्वा ।५।१३५॥ यत्स्यात्पक्षे ठञ् तस्य लुक् । अध्यर्धशाण्यम् । अध्यर्धशाणम् ॥ द्वित्रिपूर्वादण च ।।१॥३६॥ शाणादित्येव चाद्यत् । तेन त्रैरूप्यम् । परिमाणान्तस्यासंज्ञाशाणयोरिति पर्युदासादादिवृद्धिरेव । द्वैशाणम् । द्विशाण्यम् । द्विशाणम् । इह ठादयस्त्रयोदश प्रत्ययाः प्रकृतास्तेषां समर्थविभक्तयोऽर्थाश्चाकासितास्त इदानीमुच्यन्ते ॥ तेन क्रीतम् ।५।१॥३७॥ ठञ् । गोपुच्छेन क्रीतं गोपुच्छिकम् । साप्ततिकम् । प्रास्थिकम् । ठक् । नैष्किकम् ॥ इद्गोण्याः ।१।२।५०॥ गोण्या इत्स्यात्तद्धितलुकि । लुकोऽपवादः । पञ्चभिर्गोणीभिः क्रीतः पटः पञ्चगोणिः ॥ तस्यनिमित्तं संयोगोत्पातौ ।५।१॥३८॥ संयोगः संबन्धः । उत्पातः शुभाशुभसूचकः । शतिकः शत्यो वा धनपतिसंयोगः । शतिकं शत्यं वा दक्षिणाक्षिस्पन्दनम् । शतस्य निमित्तमित्यर्थः । वातपित्तश्लेष्मभ्यः शमनकोपनयोरुपसंख्यानम् * ॥ वातस्य शमनं कोपन वा वातिकम् । पैत्तिकम् । श्लैष्मिकम् ॥ सन्निपाताच्चेति वक्तव्यम् * ॥ सान्निपातिकम् ॥ गोयचोऽसंख्यापरिमाणाश्वाँदेयत् ।५।१॥३९॥ गोर्निमित्तं संयोग उत्पातो वा गव्यः । व्यचः, धन्यः । यशस्यः । स्वर्ग्यः । गोयचः किम् । विजयस्य वैजयिकः । असंख्येत्यादि किम् । पञ्चानां पञ्चकम् । सप्तकम् । प्रास्थिकम् । खारीकम् । अश्वादि, आश्विकम् । आश्मिकम् ॥ ब्रह्मवर्चसादुपसंख्यानम् * ॥ ब्रह्मवर्चस्यम् ॥ पुत्राच्छ च ।।१॥४०॥ चाद्यत् । पुत्रीयः । पुत्र्यः ॥ सर्वभूमिपृथिवीभ्यामणौ ॥१॥४१॥ सर्वभूमेनिमित्तं संयोग उत्पातो वा सार्वभौमः । पार्थिवः । सर्वभूमिशब्दोऽनुशतिकादिषु पठ्यते ॥ तस्येश्वरः ।।१। ४२॥ तत्र विदित इति च ।।१॥४३॥ सर्वभूमेरीश्वरः सर्वभूमौ विदितो वा सार्वभौमः पार्थिवः ॥ लोकसर्वलोकाट्ठञ् ।।१४४ ॥ तत्र विदित इत्यर्थे । लौकिकः । अनुशतिकादित्वादुभयपदवृद्धिः । सार्वलौकिकः ॥ तस्य वापः।५।१॥४५॥ उप्यते अस्मिन्निति वापः क्षेत्रम् । प्रस्थस्य वापः प्रास्थिकम् । द्रौणिकम् । खारीकम् ॥ पात्रात् ष्ठन् ।५।११४६ ॥ पात्रस्य वापः क्षेत्रं पात्रिकम् । पात्रिकी क्षेत्रभक्तिः ॥ तदस्मिन्वृद्ध्यायलाभशुल्कोपदा दीयते ।।१॥४७॥ वृद्धिीयत इत्यादि क्रमेण प्रत्येकं संबन्धादेकवचनम् । पञ्चास्मिन् वृद्धिः आयः लाभः शुल्क उपदा वा दीयते । पञ्चकः । शतिकः । शत्यः । साहस्रः । उत्तमर्णेन मूलातिरिक्तं ग्राह्यं वृद्धिः । ग्रामादिषु खामिग्राह्यो भाग आयः । विक्रेत्रा मूल्यादधिकं ग्राह्यं लाभः । रक्षानिर्देशो राजभागः
१ काकिण्याश्चोपसंख्यानम् ॥ अध्यर्धकाकिणीकम् ॥ २ इदं वार्तिकं सूत्रपाठे कैश्चित्प्रक्षिप्तम् ॥ ३ अश्व, अश्मन् , गण, ऊर्णा, उमा, क्षण, वर्षा, वसु, (गङ्गा)। इत्यश्वादिः॥