________________
तद्धितेषु आहीयाः । मित्यादि ॥ इत ऊर्ध्वं तु संख्यापूर्वपदानां तदन्तग्रहणं प्राग्वरिष्यते तच्चालकि ॥ पारायणिकः। द्वैपारायणिकः । अलुकीति किम् । द्वाभ्यां शूर्पाभ्यां क्रीतं द्विशूर्पम् । द्विशूर्पण क्रीते शूर्पादञ् मा भूत् । किं तु ठञ् । द्विशौर्पिकम् ॥ अर्धात्परिमाणस्य पूर्वस्य तु वा ७ ३३२६ ॥ अर्धात्परिमाणवाचकस्योत्तरपदस्यादेरचो वृद्धिः पूर्वपदस्य तु वा अिति णिति किति च । अर्धद्रोणेन क्रीतम् आर्धद्रौणिकम् । अर्धद्रौणिकम् ॥ नातः परस्य ।७३। २७ ॥ अर्धात्परस्य परिमाणाकारस्य वृद्धिर्न पूर्वपदस्य तु वा जिदादौ । अर्धप्रस्थिकम् । आर्धप्रस्थिकम् । अतः किम् । आर्धकौडविकम् । तपरः किम् । अर्घखार्यां भवा अर्धखारी । अर्धखारीभार्य इत्यत्र वृद्धिनिमित्तस्येति पुंवद्भावनिषेधो न स्यात् ॥ शताच ठन्यतावशते ।।१।२१॥ शतेन क्रीतं शतिकम् । शत्यम् । अशते किम् । शतं परिमाणमस्य शतकः सङ्घः । इह प्रत्ययार्थो वस्तुतः प्रकृत्यर्थान्न भिद्यते । तेन ठन्यतौ न किंतु कनेव । असमास इत्येव । द्विशतेन क्रीतं द्विशतकम् ॥ संख्याया अतिशदन्तायाः कन् ।५।१।२२ ॥ संख्यायाः कन् स्यादाहीयेऽर्थे न तु त्यन्तशदन्तायाः । पञ्चभिः क्रीतः पञ्चकः । बहुकः । त्यन्तायास्तु साप्ततिकः । शदन्तायाः चात्वारिंशत्कः ॥ वतोरिड्डा ।५।१।२३ ॥ वत्वन्तात्कन इड्डा स्यात् । तावतिकः । तावत्कः ॥ विंशतित्रिंशद्भ्यां वनसंज्ञायाम् ।।१।२४ ॥ योगविभागः कर्तव्यः । आभ्यां कन् स्यात् । असंज्ञायां डुन् स्यात्कनोऽपवादः । विंशकः । त्रिंशकः । संज्ञायां तु विंशतिकः त्रिंशत्कः । कंसाठिन् ।५।१।२५ ॥ टो ङीबर्थः । इकार उच्चारणार्थः। कंसिकः । कंसिकी ॥ अर्धाच्चेति वक्तव्यम् * ॥ अधिकः । अधिकी ॥ कार्षापणाट्टिठन्वक्तव्यः । प्रतिरादेशश्च वा * ॥ कार्षापणिकः । कार्षापणिकी । प्रतिकः । प्रतिकी ॥ शूर्पादअन्यतरस्याम् ।। श२६ ॥ शौर्पम् । शौपिकम् ॥ शतमानविंशतिकसहस्रवसनादण् ।५।। २७ ॥ एभ्योऽण् स्याट्टटक्कनामपवादः । शतमानेन क्रीतं शातमानम् । वैशतिकम् । साहस्रम् । वासनम् ॥ अध्यर्धपूर्वाविगोलुंगसंज्ञायाम् ।५।११२८ ॥ अध्यर्धपूर्वाद्विगोश्च परस्याहीयस्य लुक् स्यात् । अध्यर्धकंसम् । द्विकंसम् । संज्ञायां तु पाञ्चकलापिकम् ॥ विभाषा कार्षापणसहस्राभ्याम् ।।१।२९ ॥ लुग्वा स्यात् । अध्यर्धकार्षापणम् । अध्यर्धकार्षापणिकम् । द्विकार्षापणम् । द्विकार्षापणिकम् । औपसंख्यानिकस्य टिठनो लुक् । पक्षे अध्यर्धप्रतिकम् । द्विप्रतिकम् । अध्यर्धसहस्रम् । अध्यर्धसाहस्रम् । द्विसहस्रम् । द्विसाहस्रम् ॥ द्वित्रिपूर्वान्निष्कात् ।५।१॥३०॥ लुग्वा स्यात् । द्विनिष्कम् । द्विनैष्किकम् । त्रिनिष्कम् । त्रिनैष्किकम् ॥ बहुपूर्वाञ्चेति वक्तव्यम् * ॥ बहुनिष्कम् । बहुनैष्किकम् ॥ बिस्ताच्च ।५।१॥३१॥ द्वित्रिबहुपूर्वाद्विस्तादाहीयस्य लुग्वा स्यात् । द्विबिस्तम् । द्विबैस्तिकमित्यादि ॥ विंशतिकात्वः ।।१॥३२॥ अध्यर्धपूर्वाद्विगोरित्येव । अध्यर्धविंशतिकीनम् । द्विविंशतिकीनम् ॥ खार्या ईकन् ।५।११३३ ॥. अध्यर्धखारीकम् । द्विखारी
HTTARA