________________
१३८
सिद्धान्तकौमुद्याम् भोगोत्तरपदात्खः ।।१९ ॥ आत्माध्वानौ खे ।।४।१६९ ॥ एतौ खे प्रकृत्या स्तः । आत्मने हितमात्मनीनम् । विश्वजनीनम् ॥ कर्मधारयादेवेप्यते * ॥ षष्ठीतत्पुरुषादूहुव्रीहेश्च छ एव । विश्वजनीयम् ॥ पञ्चजनादुपसंख्यानम् * ॥ पञ्चजनीनम् ॥ सर्वजनाट्ठञ् खश्च * ॥ सार्वजनिकः । सर्वजनीनः ॥ महाजनाठ्ठञ् * ॥ महाजनिकः । मातृभोगीणः । पितृभोगीणः । राजभोगीणः ॥ आचार्यादणत्वं * ॥ आचार्यभोगीनः ॥ सर्वपुरुषाभ्यां णढो ।५।१४१० ॥ सर्वाण्णो वेति वक्तव्यम् * ॥ सर्वस्मै हितं सार्वम् । सर्वीयम् ॥ पुरुषाद्वधविकारसमूहतेनकृतेषु * ॥ भाष्यकारप्रयोगात्तेनेत्यस्य द्वन्द्वमध्ये निवेशः । पुरुषस्य वधः पौरुषेयः । तस्येदमित्यणि प्राप्ते । पुरुषस्य विकारः पौरुषेयः । प्राणिरजतादिभ्योऽञ् इत्यञि प्राप्ते । समूहेऽप्यणि प्राप्ते । एकाकिनोऽपि परतः पौरुषेयवृता इवेति माघः । तेन कृते ग्रन्थेऽणि प्राप्ते अग्रन्थे तु प्रासादादावप्राप्त एवेति विवेकः । माणवचरकाभ्यां खञ् ।५।१।११ ॥ माणवाय हितं माणवीनम् । चारकीणम् ॥ तदर्थ विकृतेः प्रकृतौ ।।१।१२ ॥ विकृतिवाचकाच्चतुर्थ्यन्तात्तदर्थायां प्रकृतौ वाच्यायां छप्रत्ययः स्यात् । अङ्गारेभ्य एतानि अङ्गारीयाणि काष्ठानि । प्राकारीया इष्टकाः । शङ्कव्यं दारु ॥ छदिरुपधिबलेढञ् ।५।१११३ ॥ छादिषेयाणि तृणानि । बालेयास्तण्डुलाः ॥ उपधिशब्दात्वार्थे इष्यते * ॥ उपधीयत इत्युपधिः रथाङ्गं तदेव औपधेयम् ॥ ऋषभोपानहोर्व्यः ।।१।१४ ॥ छस्यापवादः । आर्षभ्यो वत्सः । औपानह्यो मुञ्जः । चर्मण्यप्ययमेव पूर्वविप्रतिषेधेन । औपानां चर्म ॥ चर्मणोऽजू ।५।१।१५ ॥ चर्मणो या विकृतिस्तद्वाचकादञ् स्यात् । वध्य॒ इदं वार्ध चर्म ॥ वारत्रं चर्म ॥ तदस्य तदस्मिन् स्यादिति ।।१।१६ ॥ प्राकार आसामिष्टकानां स्यात्प्राकारीया इष्टकाः । प्रासादीयं दारु । प्राकारोऽस्मिन् स्यात् प्राकारीयो देशः । इतिशब्दो लौकिकी विवक्षामनुसारयति । तेनेह न । प्रासादो देवदत्तस्य स्यादिति ॥ परिखाया ढञ् ।५।१।१७॥ पारिखेयी भूमिः॥
॥ छयतोः पूर्णोऽवधिः॥ प्राग्वतेष्ठञ् ।५।१।१८ ॥ तेन तुल्यमिति वतिं वक्ष्यति ततः प्राक् ठअधिक्रियते ॥ आर्हादगोपुच्छसंख्यापरिमाणाद्वक् ।।१।१९ ॥ तदर्हतीत्येतदभिव्याप्य ठञ. धिकारमध्ये ठोऽपवादष्ठगधिक्रियते गोपुच्छादीन्वर्जयित्वा ॥ असमासे निष्कादिभ्यः।५।१।२० ॥ आर्हादित्येतत्तेन क्रीतमिति यावत्सप्तदशसूत्र्यामनुवर्तते । निष्कादिभ्योऽसमासे ठक् स्यादाहीयेप्वर्थेषु । नैष्किकम् । समासे तु ठञ् ॥ परिमाणान्तस्यासंज्ञाशाणयोः ७३॥१७॥ उत्तरपदवृद्धिः स्यात् जिदादौ । परमष्किकः । असमासग्रहणं ज्ञापकं भवति इतः प्राक् तदन्तविधिरिति । तेन । सुगव्यम् । यवापूप्य
१ तस्मै हितमित्यर्थे तु पुरुषात् छ एवेति बोध्यम् ॥ २ निष्क, पण, पाद, माष, वाह, द्रोण, षष्टि । इति निष्कादिः॥