________________
तद्धितेषु छयतोराधिकारः।
१३७ ४।१०० ॥ भक्ते साधवो भाक्ताः शालयः ॥ परिषदो ण्यः।४।४।१०१॥ पारिषद्यः । परिषद इति योगविभागाण्णोऽपि । पारिषदः ॥ कादिभ्यष्ठक् ।४।४।१०२ ॥ कथायां साधुः काथिकः ॥ गुडोदिभ्यष्ठञ् ।४।४।१०३ ॥ गुडे साधु९डिक इक्षुः । साक्तुका यवाः ॥ पथ्यतिथिवसतिखपतेर्तृञ् ।४।४।१०४॥ पथि साधु पाथेयम् । आतिथेयम् । वसनं वसतिस्तत्र साधुर्वासतेयी रात्रिः । खापतेयं धनम् ॥ सभाया यः।४।४।१०५ ॥ सभ्यः ॥ समानतीर्थे वासी ।४।४।१०७॥ साधुरिति निवृत्तम् ॥ वसतीति वासी । समाने तीर्थे गुरौ वसतीति सतीर्थ्यः ॥ समानोदरे शयित ओचोदात्तः।४।४।१०८॥ समाने उदरे शयितः स्थितः समानोदर्यो भ्राता ॥ सोदराद्यः ।४।४।१०९॥ सोदर्यः । अर्थः प्राग्वत् ॥
॥ इति प्राग्घितीयाः॥ प्राक् क्रीताच्छः ।।१।१ ॥ तेन क्रीतमित्यतः प्राक् छोऽधिक्रियते ॥ उगवादिभ्यो यत् ।५।२॥ प्राक् क्रीतादित्येव । उवर्णान्ताद्वादिभ्यश्च यत्स्याच्छस्यापवादः । नाभि नभं च * ॥ नभ्योऽक्षः । नभ्यमञ्जनम् । रथनाभावेवेदम् । शुनः संप्रसारणं वा च दीर्घत्वम् * ॥ शून्यम् । शुन्यम् । ऊधसोऽनङ् च * ॥ ऊधन्यः ॥ कम्बलाच संज्ञायाम् ।५।१॥३॥ यत्स्यात् । कम्बल्यमूर्णापलशतम् । संज्ञायां किम् । कम्बलीया ऊर्णा ॥ विभाषा हविरपूादिभ्यः ।।१।४ ॥ आमिक्ष्यं दधि । आमिक्षीयम् । पुरोडाश्यास्तण्डुलाः पुरोडाशीयाः । अपूप्यम् । अपूपीयम् ॥ तस्मै हितम् ।।१॥५॥ वत्सेभ्यो हितो वत्सीयो गोधुक् । शङ्कवे हितं शङ्कव्यं दारु । गव्यम् । हविष्यम् ॥ शरीरावयवाद्यत् ।।१६ ॥ दन्त्यम् । कण्ठ्यम् । नस् नासिकायाः ॥ नस्यम् । नाभ्यम् ॥ ये च तद्धिते ।६।१।६१ ॥ यादौ तद्धिते परे शिरश्शब्दस्य शीर्षन्नादेशः स्यात् । शीर्षण्यः । तद्धिते किम् । शिर इच्छति शिरस्यति ॥ वा केशेषु * ॥ शीर्षण्याः शिरस्या वा केशाः । अचि शीर्ष इति वाच्यम् * ॥ अजादौ तद्धिते शिरसः शीर्षादेशः । स्थूलशिरस इदं स्थौलशीर्षम् ॥ खलयवमाषतिलवृषब्रह्मणश्च ।५।१७ ॥ खलाय हितं खल्यम् । यव्यम् । माष्यम् । तिल्यम् वृष्यम् । ब्रह्मण्यम् । चाद्रथ्या ॥ अजाविभ्यां थ्यन् ।।१८॥ अजथ्या यूथिः । अविथ्या ॥ आत्मन्विश्वजन
१ कथा, विकथा, विश्वकथा, संकथा, वितण्डा, कुष्ठविद् , जनवाद, जनेवाद, जनोवाद, वृत्ति, संग्रह, गुण, गण, आयुर्वेद । इति कथादिः ॥ २ गुड, कुल्माष, सक्त, अपूप, मांसौदन, इक्षु, वेणु, संग्राम, संघात, संक्राम, संवाह, प्रवास, निवास, उपवास । इति गुडादिः॥ ३ गो, हविस् , अक्षर, विष, बर्हिस् , अष्टका, स्खदा, युग, मेधा, स्रुच्, नाभि, नभं च, शुनः संप्रसारणं वा च दीर्घत्वं तत्संनियोगेन चान्तोदात्तत्वम् , ऊधसोऽनङ् च, कूप, खद, खर, दर, असुर, अध्वन् , क्षर, वेद, बीज, दीप्त । इति गवादिः॥ ४ अपूप, तण्डुल, अभ्यूष, अभ्योष, अवोष, अभ्येष, पृथुक, ओदन, सूप, पूप, किण्व, प्रदीप, मुसल, कटक, कर्णवेष्टक, इर्गल, अर्गल, अन्नविकारेभ्यश्च, यूप, स्थूणा, दीप, अश्व, पत्र । इत्यपूपादिः॥