________________
१३६
सिद्धान्तकौमुद्याम् प्राग्घिताद्यत् ।।४।७५ ॥ तस्मैहितमित्यतः प्राक् यदधिक्रियते ॥ तद्वहति रथयुगप्रासङ्गम् ।४।४७६॥ रथं वहति रथ्यः। युग्यः । वत्सानां दमनकाले स्कन्धेयत् काष्ठमासज्यते स प्रासङ्गः । तं वहति प्रासङ्ग्यः ॥ धुरो यड्डको ।४।४७७ ॥ हलि चेति दीर्घ प्राप्ते ॥ न भकुर्छराम् ।८।२।७९ ॥ भस्य कुर्छरोश्चोपधाया दी? न स्यात् । धुर्यः धौरेयः ॥ खः सर्वधुरात् ।४।४७८ ॥ सर्वधुरां वहतीति सर्वधुरीणः ॥ एकधुराल्लक ।४।४७९ ॥ एकधुरां वहति एकधुरीणः । एकधुरः ॥ शकटादण् ।४।४।८० ॥ शकटं वहति शाकटो गौः ॥ हलसीराहक ।४।४।८१॥ हलं वहति हालिकः । सैरिकः ॥ संज्ञायां जन्या ।४।४।८२॥ जनी वधूः तां वहति प्रापयति जन्या ॥ विध्यत्यधनुषा ।४।४।८३ ॥ द्वितीयान्ताद्विध्यतीत्यर्थे यत्स्यान्न चेत्तत्र धनुः करणम् । पादौ विध्यन्ति पद्याः शर्कराः ॥ धनगणं लब्धा ।४।४।८४॥ तृन्नन्तमेतत् । धनं लब्धा धन्यः । गणं लब्धा गण्यः ॥ अन्नाण्णः ।४।४।८५॥ अन्नं लब्धा आन्नः ॥ वशं गतः।४।४।८६॥ वश्यः परेच्छानुचारी ॥ पदमस्मिन्दृश्यम् ।४।४८७॥ पद्यः कर्दमः । नातिशुष्क इत्यर्थः ॥ मूलमस्याबर्हि ।४।४।८८॥ आबर्हणमाबर्हः उत्पाटनं तदस्यास्तीत्यावर्हि । मूलमाबर्हि येषां ते मूल्या मुद्गाः ॥ संज्ञायां धेनुष्या।४।४।८९॥ धेनुशब्दस्य षुगागमो यत् प्रत्ययश्च खार्थे निपात्यते संज्ञायाम् । धेनुष्या बन्धके स्थिता ॥ गृहपतिना संयुक्ते भ्यः।४।४।९० ॥ गृहपतिर्यजमानस्तेन संयुक्तो गार्हपत्योऽमिः ॥ नौवयोधर्मविष. मूलमूलसीतातुलाभ्यस्तार्यतुल्यप्राप्यवध्यानाम्यसमसमितसम्मितेषु ॥ ४।४।९१ ॥ नावा तार्य नाव्यम् । वयसा तुल्यो वयस्यः । धर्मेण प्राप्यं धर्म्यम् । विषेण वध्यो विष्यः । मूलेन आनाम्यं मूल्यम् । मूलेन समो मूल्यः । सीतया संमितं सीत्यं क्षेत्रम् । तुलया संमितं तुल्यम् ॥ धर्मपथ्यर्थन्यायादनपेते ।४।४।९२॥ धर्मादनपेतं धर्म्यम् । पथ्यम् । अर्थ्यम् । न्याय्यम् ॥ छन्दसो निर्मिते ।४।४।९३ ॥ छन्दसा निर्मितं छन्दस्यम् । इच्छया कृतमित्यर्थः ॥ उरसोण च ।४।४।९४ ॥ चाद्यत् । उरसा निर्मितः पुत्र औरसः । उरस्यः ॥ हृदयस्य प्रियः ४।४।९५॥ हृयो देशः । हृदयस्य हृल्लेखेति हृदादेशः ॥ बन्धने चर्षों ।४।४।९६॥ हृदयशब्दात् षष्ठ्यन्ताहन्धने यत्स्याद्वेदेऽभिधेये । हृदयस्य बन्धनं हृद्यो वशीकरण मन्त्रः ॥ मतजनहलात्करणजल्पकर्षेषु ।४।४।९७ ॥ मतं ज्ञानं तस्य करणं भावः साधनं वा मत्यम् । जनस्य जल्पो जन्यः । हलस्य कर्षो हल्यः ॥ तत्र साधुः।४।४।९८ ॥ अग्रे साधुः अग्र्यः । सामसु साधुः सामन्यः । ये चाभावकर्मणोरिति प्रकृतिभावः । कर्मण्यः । शरण्यः ॥ प्रतिजनादिभ्यः खञ् ।४।४।९९ ॥ प्रतिजने साधुः प्रतिजनीनः । सांयुगीनः । सार्वजनीनः । वैश्वजनीनः ॥ भक्ताण्णः ।
. १ प्रतिजन, इदंयुग, संयुग, समयुग, परयुज, परस्यकुल, अमुष्यकुल, सर्वजन, विश्वजन, महाजन, पञ्चजन । इति प्रतिजनादिः॥